०९ कन्याया रजोदर्शने कर्तव्यम्

विवाहे ‘सोमाय जनिविदे स्वाहे’ति होमात्पूर्वं कन्यायां रजस्वलायाम् आपो अस्मानिति यजुःपवित्रेण पुरुषसूक्तपञ्चशान्त्यब्लिङ्गगायत्रीपवमानैश्च अभिमन्त्रितजलेन तां स्नापयित्वा अन्यद्वस्त्रं परिधाप्य तस्मिन्नेवाग्नौ समस्ताभिः व्याहृतिभिः ‘सप्तते अग्ने’ ‘यन्म आत्मनो मिन्दा’ ‘पुनरग्नि’रित्येतैः ‘भूरग्नये’ ‘भूरन्नमग्नये’ ‘भूरग्रेयेचे’ति अनुवाकत्रयेण प्रतिस्वाहाकारं ‘तन्तुन्तन्व’न्नित्येतया व्यस्ताभिः व्याहृतिभिः ‘अनाज्ञात’मित्यादिभिश्च हुत्वा ब्रह्मणाननुज्ञाप्य तन्त्रशेषं समापयेत् ।

[[33]]

प्रधानहोमात्परं रजोदर्शने चतुर्थेऽहनि स्नानब्रह्मकूर्चप्राशनपुनःस्नानानि कारयित्वा तन्त्रशेषं समापयेत् ॥

॥ इति प्रयोगचन्द्रिकायां षोडशः खण्डः ॥