१६ उपसंहारः

एवं पितृमेधादीनां प्रयोगः॥

यथा-मति सीता-राम-प्रेरणया मया कृतम्
अकस्मात् इदं प्रयोगदर्पणं
सम्यक् वीक्ष्य
अत्र अनुक्त-दुरुक्तादीन् धर्म-शास्त्र-प्रवीणाः सन्तः संशोधयन्तु ।+++(5)+++

अत्र सन्देहे सुधी-विलोचन–स्मृति-मुक्ता-फल–अघ-निर्णयादि-ग्रन्थेषु पश्यन्तु ।

अनेन प्रयोग-दर्पण-लेखनेन भगवत्-कर्मणा भगवन्तम् अधीयताम् ।+++(5)+++

[[84]]

अनेन भगवान् सीता-रामस् …
सीता-राम-…

शक्त्या नित्यानि कर्माणि
यथाकालं करोति यः
स भुक्त्वा सकलान् भोगान्
स्थानं तस्य श्रियःपतेः ।

इतिप्रयोगदर्पणे सप्तदशः खण्डः॥