०८ कर्म-मध्ये ऽग्नि-नाशे

कर्ममध्येऽग्निनाशे ‘अयं ते योनिः’ इति समिधि भस्म समारोप्य

19 अयन्ते योनिर् ...{Loading}...

अ॒यन् ते॒ योनि॑र् ऋ॒त्वियः॑ ।
यतो॑ जा॒तो अरो॑चथाः
तञ् जा॒नन्न् अ॑ग्न॒ आ रो॑ह +++(→ सीदेति शाकले)+++ ।
अथा॑ नो वर्धया र॒यिम्

अन्यस्मिन् अग्नौ तां समिधं ‘आजुह्वानः’ ‘उद्बुध्यस्व’ इति द्वाभ्याम् आधाय

07 आजुह्वानस् सुप्रतीकᳶ ...{Loading}...

आ॒जुह्वा॑नस्+++(=हूयमानः)+++ सु॒-प्रती॑कᳶ पु॒रस्ता॒द्
अग्ने॒ स्वाय्ँ योनि॒म् आ सी॑द सा॒ध्या+++(→ साधु॒या माध्यन्दिने)+++ ।
अ॒स्मिन्थ् स॒ध-स्थे॒, अध्य् उत्त॑रस्मि॒न्
विश्वे॑ देवाः॒! यज॑मानश् च सीदत

45 उद्बुध्यस्वाग्ने प्रति ...{Loading}...

उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्य्
एनम् इष्टा-पू॒र्ते सꣳसृ॑जेथाम॒यञ्च॑ ।
पुन॑ᳵ कृ॒ण्वꣵस् त्वा॑ पि॒तर॒य्ँ युवा॑नम्
अ॒न्वाताꣳ॑सी॒त् त्वयि॒ तन्तु॑म् ए॒तम् ।

प्रणवेन ‘भूरग्नये च’ इति चतुर्भिः,

०४ भूर् अग्नये ...{Loading}...

भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॑॥
भुवो॑ वा॒यवे॑ चा॒न्तरि॑ख्षाय च मह॒ते च॒ स्वाहा॑॥
सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॑॥
भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॑॥
नमो॑ दे॒वेभ्य॑स् स्व॒धा पि॒तृभ्यो॒, भूर्भुव॒स्सुव॒र्मह॒रोम् । (14) - । 4 ।

‘मनो ज्योतिर्जुषताम्’ इति जुहुयात् ।

मनो ज्योतिर् ...{Loading}...

मनो॒ ज्योति॑र् जुषता॒म्, आज्य॒व्ँ
विच्छि॑न्नय्ँ य॒ज्ञꣳ सम् इ॒मन् द॑धातु
बृह॒स्पति॑स् तनुताम् इ॒मन् नो॒,
विश्वे॑ दे॒वा इ॒ह मा॑दयन्ताम्