१६ गृहारम्भप्रवेशौ

गृहं प्रारभमाणः यो भूभागः आगारत्वेनाभिप्रेतः तन्नैर्ऋत्यां निम्नं यथा भवति तथा खनित्रादिना पांसूनुत्पाद्य पालाशेन शमीमयेन वा उदूहफलकेन ‘यद्भूमेः क्रूरम्’ इत्येतया एतामेव दिशं मन्त्रमावर्त्य त्रिरुदूह्य ‘स्योना पृथिवी’ इत्येतया तामभिमृश्य स्थूणानिखननार्थान् गर्तान् कर्मकारैः प्रदक्षिणं खादयित्वा अगारस्याभ्यन्तरं पांसूनुदूप्य निष्क्रामतो जनस्य दक्षिणपार्श्वस्थे गर्ते ‘इहैव तिष्ठ’ ‘निमिते’त्येताभ्यां स्थूणामवधाय एताभ्यामेव सव्ये अन्येष्वपि खननक्रमेण अन्या अपि स्थूणाः तूष्णीमवधाय दृढीकृत्वा (त्य) तासु स्थूणासु आधीयमानवंशम् ‘ऋतेन स्थूणावधिरोहे’त्यभिमन्त्र्य सम्यङ्निर्मितं गृहं गत्वा चतुर्दिक्षु मध्ये च स्थापिताः स्थूणाः प्राच्यादिक्रमेण तत्तदभिमुखः ‘ब्रह्म च ते क्षत्रं च’ इत्यादिभिः पञ्चभिः अभिमन्त्र्य गृहप्रवेशं करिष्य इति सङ्कल्प्य पालाशैः शमीमयैर्वा काष्ठैः अग्निं प्रज्वाल्य तमग्निम् ‘उद्ध्रियमाण’ इत्येतया अह्नि प्रवेशे ‘रात्रिया यदेनः कृतं’, रात्रिप्रवेशे ‘अह्ना यदेनः कृतम्’ इत्यूहेन उद्धृतमग्निं ‘इन्द्रस्य गृहा’ इति गृहं प्रपाद्य (प्रापय्य) उत्तरपूर्वे देशे ‘अमृताहुति’मित्येतया तमग्निं प्रतिष्ठापयेत् । एतस्मिन् काले अग्निहोत्रगृहे श्रौताग्नीनपि प्रतिष्ठापयेत् । औपासनाग्नेर्दक्षिणतः नानादिगग्रान् दर्भान् संस्तीर्य तेषु ‘अन्नपत’ इत्येतया द्रोणादनूनान् व्रीहीन् यवांश्च निक्षिप्य तेषूदकुम्भं निधाय अरिष्टा अस्माकमिति कुम्भचतुष्कजलेन प्रतिकुम्भं मान्त्रमावृत्य कुम्भं पूरयेत् । भिन्ने यद्युदकुम्भे स्यात् ‘भूमिर्भूमिमगा’दिति तमनुमन्त्रयेत् । सर्वत्र मृण्मयं पात्रम् एतेनानुमन्त्र्येत् । अथाग्निप्रतिष्ठाद्याज्यभागन्ते ‘वास्तोष्पते प्रतिजानीही’ति चतुर्भिः हुत्वा जयाद्यग्न्युपस्थानान्तं कृत्वा पूर्वस्थापितं कुम्भं गृहीत्वा तेन कुम्भजलेन ‘शिवँशिव’मिति प्रागारभ्य प्रदक्षिणं निवेशनं गृहं वा सन्ततधारया त्रिः परिषिच्य अपूपसक्तुसहितं ब्राह्मणान् भोजयेत् ।

[[37]]

एवं गर्भाधानादि गृहप्रवेशान्तानां कर्मणां प्रयोगः बहून् ग्रन्थानवलोक्य तत्र स्थितानर्थान् सङ्गृह्य एकत्र सुखबोधार्थं भगवत्कृपालब्धज्ञानबुद्धिलेशेन मया तेनैव प्रेरितः तत्प्रीत्यर्थं यथामति यथाप्रज्ञं कृतः । तस्मात् कामक्रोधेर्ष्यादिदोषरहिता गुणग्राहिणो महान्तः कृतिमिमां प्रयोगचन्द्रिकां सम्यग्वीक्ष्य अत्रानुक्तदुरुक्ताधिकोक्तपुनरुक्तादिदोषान् सोढ्वा बालानां कलभाषणमिव मन्यमानाः प्रमोदध्वम् । अनेन भगवान् प्रीणातु श्रियः पतिः श्रियःपतिः ।

॥ इति प्रयोगचन्द्रिकायाम् अष्टादशः खण्डः ॥

श्रीमद्भिः कविकथककण्ठीरवगुरुभिः सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्यैः श्रीमद्वेङ्कटनाथैः विरचितनिजमततिरस्कारविगमा निरातङ्का इति बिरुदानां श्रीमद्भगवद्-रामानुजभाष्ये पूर्वाचार्यास्संचिक्षिपुरिति पूर्वाचार्यत्वेन प्रसिद्धानां विशिष्टाद्वैतसिद्धान्तभाष्यकाराणां नैध्रुव-माडपूशि-आल्वानित्यपरनामधेयानां श्रीमद्द्रमिडाचार्याणां वंश्य-नैध्रुव-श्रीनिवासार्यसूनुना वीरराघवेण श्रीरामचन्द्रप्रसादेन विरचिता प्रयोगचन्द्रिका सम्पूर्णा ।

[[38]]