०८ शेषहोमः

अथ शेषहोमः

चतुर्थ्यां रात्र्यामन्त्ययामे शेषहोमं कर्तुं ब्राह्मणाननुज्ञाप्य, विष्वक्सेनं सम्पूज्य, तं गन्धर्वं दण्डमुत्थाप्य, सम्पूज्य,

उदीर्ष्वातो विश्वावसो नमसेडामहे त्वा ।
अन्यामिच्छ प्रफर्व्यँ सञ्जायां पत्या सृज ।
उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीट्टे ।
अन्यामिच्छ पितृषदं व्यक्ताँ स ते भागो जनुषा तस्य विद्धि

इति तं दण्डं प्रक्षाल्य निधाय प्राणानायम्य, विवाहहोमादूर्ध्वम् एतत्क्षणपर्यन्तं क्षारलवणवर्जनादिव्रतलोपप्रायश्चित्तार्थं प्राजापत्यकृच्छ्राणि कृत्वा, प्राणानायम्य, आवयोः विवाहशेषहोमं करिष्य इति सङ्कल्प्य, अग्निप्रतिष्ठाद्याज्यभागान्ते पत्न्यान्वारब्धः

अग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा - अग्नय इदम् ।

[[120]]

वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा वायव इदम् ।
आदित्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा - आदित्यायेदम् ।
प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये याऽस्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा - प्रजापतय इदम् ।
प्रसवश्चोपयामश्च काटश्चार्णवश्च धर्णसिश्च द्रविणं च भगश्चान्तरिक्षं च सिन्धुश्च समुद्रश्च सरस्वाँश्च विश्वव्यचाश्च ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः स्वाहा - प्रसवादिभ्य इदम् ।
मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेषश्चोर्जश्च सहश्च सहस्यश्च तपश्च तपस्यश्च ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः स्वाहा - मध्वादिभ्य इदम् ।
चित्तञ्च चित्तिश्चाकूतञ्चाकूतिश्चाधीतञ्चाधीतिश्च विज्ञातं च विज्ञानं च नाम च क्रतुश्च दर्शश्च पूर्णमासश्च ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः स्वाहा - चित्तादिभ्य इदम् ।

जयादि होमं कृत्वा, शम्या अपोह्य, सँस्रावं प्रायश्चित्तं प्राणायामं परिषेचनं प्रणीतावोक्षणं ब्रह्मोद्वासनम् अग्न्युपस्थानं च कृत्वा, अग्नेः पश्चात् प्राङ्मुखीं पत्नीम् उपवेश्य, तस्याः शिरसि हुतशेषमाज्यं दर्व्यामादाय, भूः स्वाहा, भुवः स्वाहा, सुवः स्वाहा, ओँ स्वाहेति निनयेत् ।

अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
इहप्रजामिहरयिँरराणः प्रजायस्व प्रजया पुत्रकाम

इति पत्नी पतिं समीक्षेत ।

अपश्यं त्वा मनसा दीध्यानाँ स्वायां तनूँ ऋत्विये नाथमानाम् ।
उपमामुच्चा युवतिर्बुभूयाः प्रजायस्व प्रजया पुत्रकामे

इति पतिः पत्नीं समीक्षेत । आज्याभ्यक्ताभ्याम् अङ्गुष्ठानामिकाभ्यां

समञ्जन्तु विश्वे देवास्समापो हृदयानि नौ ।
सं मातरिश्वा सन्धाता समुदेष्ट्री दिदेष्टु नौ ।

इति

[[121]]

तयोर्हृदयदेशौ युगपत्सम्मृज्य,

प्रजापते तन्वं मे जुषस्व त्वष्टर्देवेभिस्सहसाम इन्द्र ।
विश्वैर्देवैरातिभिः सँरराणः पुँसां बहूनां मातरः स्याम ।
आनः प्रजां जनयतु प्राजापतिराजरसायसमनक्त्वर्यमा ।
अदुर्मङ्गलीः पतिलोकमाविश शन्न एधि द्विपदे शञ्चतुष्पते ।
तां पूषञ्छिवतमा मेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम्

इति जपेत् । प्राणानायम्य, फलदानताम्बूलदानानि करिष्य इति सङ्कल्प्य, दत्वा ब्राह्मणाननुज्ञाप्य ताम्बूलचर्वणं कृत्वा, सन्ध्यां प्रातरौपासनं च कृत्वा, अभ्युदयं पुण्याहं च कृत्वा, ब्रह्मादीन् सम्पूज्य, आवाहन-मन्त्रैरेव ब्रह्मादिदेवता उद्वासयेत् । महदाशीर्वादं कारयेत् । सायं बन्धनमन्त्रेणैव प्रतिसरसूत्रं विसृज्य परित्यजेत् । तमग्निमेव धारयेत् । अथवा आत्मसमारोपणं वा कुर्यात् ॥