२२ अग्निविहरणं, निवपनं, व्याघारणं, व्याघारणशेषभक्षणं च

स्तुतेऽध्वर्युस्संप्रेष्यति अग्नीदग्नीन् विहर बर्हिस्तृणीहि पुरोडाशानलङ्कुरु प्रतिप्रस्थातः पशुनेहि । आग्नीध्राद्धिष्णियान् विहरति । अङ्गारैर्द्वे सवने शलाकाभिस्तृतीयम् । पांसुधिष्णियेषु निवपति । तेनानुपूर्व्येण यथा न्युप्ता भवन्ति । अध्वर्युः प्रचरण्यामाज्यं पञ्चगृहीतं गृहीत्वा, द्रोणकलशाच्च परिप्लवया राजानं, पुरस्तात्प्रत्यङ्ङासीनो धिष्णियान् व्याघारयति तूष्णीम् १ । परिप्लवया आहवनीयमाग्नीध्रीयं होत्रीयं सोमेन व्याघार्य । प्रचरण्या प्रशास्त्रीयं ब्राह्मणाच्छंसीयं पोत्रीयं नेष्ट्रीयमच्छावाकीयमाज्येन व्याघार्य । अन्ते मार्जालीयं सोमेन व्याघारयति । सर्वत्र प्रजापतय इदम् । सोमशेषं परिप्लवया सदसि पूर्ववत् प्रत्यङ्मुखो भक्षयति । भक्षेहि मा विश — अव ख्येषम् । अग्नीदुपह्वयस्व मन्द्राभिभूतिः केतुर्यज्ञानां — भक्षयामि । हिन्व मे गात्रा — अति गाः । भक्षितस्य मार्जालीये प्रक्षाल्य