१३ 'अग्ने यशस्विन्' इति चतस्रः

‘अग्ने यशस्विन्’ इति चतस्रः

23 अग्ने यशस्विन् ...{Loading}...

अग्ने॑ यशस्वि॒न्‌ यश॑से॒मम् +++(यजमानं)+++ अ॑र्प॒य
+इन्द्रा॑वती॒म् अप॑चितीम्+++(=पूजां)+++ इ॒हाव॑ह । अ॒यम् मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚,
समा॒नाना॑म् उत्त॒मश्लो॑को अस्तु

27 भद्रम् पश्यन्त ...{Loading}...

भ॒द्रम् पश्य॑न्त॒ उप॑ सेदु॒र् अग्रे॒
तपो॑ +++(उपसल्-लक्षणां)+++ दी॒ख्षाम् ऋष॑यस् सुव॒र्-विदः॑ ।
ततः॑ ख्ष॒त्रम् बल॒म् ओज॑श् च जा॒तन्
तद् अ॒स्मै दे॒वा अ॒भि सन्न॑मन्तु

31 धाता विधाता ...{Loading}...

धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक्
प्र॒जाप॑तिᳶ परमे॒ष्ठी वि॒राजा᳚ ।
स्तोमा॒श् छन्दाꣳ॑सि नि॒विदो॑ म आहुर्
ए॒तस्मै॑ रा॒ष्ट्रम् अ॒भि सन्न॑माम

35 अभ्यावर्तध्वम् उप ...{Loading}...

अ॒भ्याव॑र्तध्व॒म् उप॒ मेत॑ सा॒कम्
अ॒यꣳ शा॒स्ता ऽधि॑पतिर् वो अस्तु
अ॒स्य वि॒ज्ञान॒म् अनु॒ सꣳ र॑भध्वम्
इ॒मम् प॒श्चाद् अनु॑ जीवाथ॒ सर्वे᳚ ।