०७ औदुम्बर्याः संस्कारः

दक्षिणतः प्रक्रमे पृष्ठ्याया औदुम्बरीं मध्ये सदसो मिनोति । यूपवदौदुम्बर्या अवटसंस्कारश्शकल-वर्जम् । देवस्य त्वेत्यभ्रिमादाय परिलिखितमिति त्रिः प्रदक्षिणं परिलिख्य खनति । अग्रेणावटं प्राचीं निधाय तूष्णीं प्रक्षाल्य । अथैनां यवमतीभिः प्रोक्षति दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् । शुन्धतां लोकः पितृषदनः प्राचीनावीती प्रोक्षणीशेषमवटेऽवनीय । यज्ञोपवीत्यप उपस्पृश्य । यवोऽसि — अरातीः इति यवमवास्य । पितृणाꣳ सदनमसि प्राचीनावीती अवाचीनाग्रेण बर्हिषावस्तीर्य यज्ञोपवीत्यप उपस्पृश्य । उद्दिवꣳ स्तभानान्तरिक्षं पृण पृथिवीं दृꣳह प्राचीनकर्णां सहोद्गात्रोच्छ्रयति । द्युतानस्त्वा मारुतो मिनोतु मित्रावरुणयोर्ध्रुवेण धर्मणा प्राचीनकर्णां सहोद्गात्रा मिनोति । ऊर्ध्वं निखाताद्यजमानसंमिता । ब्रह्मवनिं त्वा इत्यादि यूपवत् परिषेचनान्तम् । तस्या विशाखे हिरण्यं निधाय । घृतेन द्यावापृथिवी आ पृणेथाꣳ स्वाहा स्रुवेण हिरण्ये जुह्वदान्त-मौदुम्बरीमन्ववस्रावयति । भूमिगते स्वाहाकारः । द्यावापृथिवीभ्यामिदम् । एषा सदसस्स्थूणानां वर्षिष्ठा । नाभिदघ्न्यः पर्यन्तीयाः ।