०८ यज्ञेऽन्नदानम्

सर्वस्य शास्त्रीयकर्मणः संपूर्णफलावाप्तये ब्राह्मणभोजनमवश्यकर्तव्यतयोपलभ्यते । तथा च - शुचीन् मन्त्रवतः सर्वकृत्येषु भोजयेत् (आप. ध. सू २-१५-९) इति । तत्रापि विशेषतो यज्ञेषु यजमानो ब्राह्मणभोजनं कारयेत् । अत्रोक्तं वैद्यनाथीयस्मृतिमुक्ताफले शङ्खस्मृतिवाक्यम्

सहस्रं भोजयेत् सोमे
ब्राह्मणानां शतं पशौ ।
चातुर्मास्येषु सर्वेषु
शतं पर्वणि पर्वणि ॥

तत्रैव स्मृत्यन्तरवाक्यं -

द्विजभोजनम् अत्रैव
सोमयागे सहस्रकम् ।
शतं पशौ दर्शेऽष्टौ स्युः
भोज्या ऋत्विज एव वा ॥ ( आचारकाण्डे यजनप्रकरणे )