आतिथ्यम्

अतिथिः

03 अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ...{Loading}...

अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३

04 धर्मेण वेदानामेकैकां शाखामधीत्य ...{Loading}...

धर्मेण वेदानामेकैकां शाखामधीत्य श्रोत्रियो भवति ४

05 स्वधर्मयुक्तङ् कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो ...{Loading}...

स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५

06 तस्य पूजायां शान्तिः ...{Loading}...

तस्य पूजायां शान्तिः स्वर्गश्च ६

01 स एष प्राजापत्यः ...{Loading}...

स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः १

02 योऽतिथीनामग्निः स आहवनीयो ...{Loading}...

योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः २

03 ऊर्जम् पुष्टिम् प्रजाम् ...{Loading}...

ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ३

04 पयोपसेचनमन्नमग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितम् मधुनातिरात्रसम्मितम् ...{Loading}...

पयोपसेचनमन्नमग्निष्टोमसंमितं सर्पिषोक्थ्यसंमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितमुदकेन प्रजावृद्धिरायुषश्च ४

05 प्रिया अप्रियाश्चातिथयः स्वर्गं ...{Loading}...

प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते ५

06 स यत्प्रातर्मध्यन्दिने सायमिति ...{Loading}...

स यत्प्रातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि भवन्ति ६

07 यदनुतिष्ठत्युदवस्यत्येव तत् ...{Loading}...

यदनुतिष्ठत्युदवस्यत्येव तत् ७

08 यत्सान्त्वयतति सा दक्षिणा ...{Loading}...

यत्सान्त्वयतति सा दक्षिणा प्रशंसा ८

09 यत्संसाधयति ते विष्णुक्रमाः ...{Loading}...

यत्संसाधयति ते विष्णुक्रमाः ९

10 यदुपावर्तते सोऽवभृथः ...{Loading}...

यदुपावर्तते सोऽवभृथः १०

11 इति हि ब्राह्मणम् ...{Loading}...

इति हि ब्राह्मणम् ११

विधिः

01 येन कृतावसथः स्यादतिथिर्न ...{Loading}...

येन कृतावसथः +++(=दत्ताश्रयः)+++ स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरोहेद्वा पुरस्ताच्चेदभिवादितः १

02 शेषभोज्यतिथीनां स्यात् ...{Loading}...

शेषभोज्यतिथीनां स्यात् २

03 न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ...{Loading}...

न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ३

04 नात्मार्थमभिरूपमन्नम् पाचयेत् ...{Loading}...

नात्मार्थमभिरूपमन्नं पाचयेत् ४

11 अतिथीनेवाग्रे भोजयेत् ...{Loading}...

अतिथीनेवाग्रे भोजयेत् ११

12 बलान् वृद्धान् रोगसम्बन्धान् ...{Loading}...

बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२

13 काले स्वामिनावन्नार्थिनन् न ...{Loading}...

काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३

14 अभावे भूमिरुदकन् तृणानि ...{Loading}...

अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४

15 एवंवृत्तावनन्तलोकौ भवतः ...{Loading}...

एवंवृत्तावनन्तलोकौ भवतः १५

07 तमभिमुखोऽभ्यागम्य यथावयः समेत्य ...{Loading}...

तमभिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७

08 शक्तिविषये नाबहुपादमासनम् भवतीत्येके ...{Loading}...

शक्तिविषये नाबहुपादमासनं भवतीत्येके ८

09 तस्य पादौ प्रक्षालयेत् ...{Loading}...

तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावित्येके ९

10 अन्यतरोऽभिषेचने स्यात् ...{Loading}...

अन्यतरोऽभिषेचने स्यात् १०

11 तस्योदकमाहारयेन्मृन्मयेनेत्येके ...{Loading}...

तस्योदकमाहारयेन्मृन्मयेनेत्येके ११

12 नोदकमाचारयेद् असमावृत्तः ...{Loading}...

नोदकमाचारयेद् असमावृत्तः १२

13 अध्ययनसांवृत्तिश्चात्राधिका ...{Loading}...

अध्ययनसांवृत्तिश्चात्राधिका १३

14 सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति ...{Loading}...

सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४

15 आवसथन् दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनञ् ...{Loading}...

आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५

16 अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् ...{Loading}...

अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६

17 उद्धृतान्यन्नान्यवेक्षेतेदम् भूया ...{Loading}...

उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७

18 इदा३मिति भूय उद्धरेत्येव ...{Loading}...

इदा३मिति भूय उद्धरेत्येव ब्रूयात् १८

12 राजानञ् चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः ...{Loading}...

राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः कारयेत् १२

13 आहिताग्निञ् चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् ...{Loading}...

आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीरिति । व्रात्य उदकमिति । व्रात्य तर्पयंस्त्विति १३

14 पुराग्निहोत्रस्य होमादुपांशु जपेत् ...{Loading}...

पुराग्निहोत्रस्य होमादुपांशु जपेत् । व्रात्य यथा ते मनस्तथास्त्विति । व्रात्य यथा ते वशस्तथास्त्विति । व्रात्य यथा ते प्रियं तथास्त्विति । व्रात्य यथा ते निकामस्तथास्त्विति १४

15 यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज ...{Loading}...

यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज होष्यामि । इत्यतिसृष्टेन होतव्यम् । अनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह १५

विधौ पात्रभेदात् सत्कारभेदः

16 ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् न ...{Loading}...

ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६

17 अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् ...{Loading}...

अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् १७

18 राजन्यवैश्यौ च ...{Loading}...

राजन्यवैश्यौ च १८

19 शूद्रमभ्यागतङ् कर्मणि नियुञ्ज्यात् ...{Loading}...

शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९

20 दासा वा राजकुलादाहृत्यातिथिवच् ...{Loading}...

दासा वा राजकुलादाहृत्यातिथिवच् छूद्रम् पूजयेयुः २०

+++(बोधायनो वैश्वदेवप्रकरणे - “सर्वेभ्योभ्यागतेभ्य आश्वचण्डालेभ्यस्स्वागतं कार्यम्” इति। )+++

16 एकरात्रञ् चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति ...{Loading}...

एकरात्रं चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति द्वितीययान्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमितांल् लोकानभिजयतीति विज्ञायते १६

17 असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ...{Loading}...

असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ददामीत्येव दद्यात् । एवमस्य समृद्धं भवति १७

05 गोमधुपर्कार्हो वेदाध्यायः ...{Loading}...

गोमधुपर्कार्हो वेदाध्यायः ५

06 आचार्य ऋत्विक् स्नातको ...{Loading}...

आचार्य, ऋत्विक्, स्नातको, राजा वा धर्मयुक्तः +++(मधुपर्कार्हाः)+++६

07 आचार्यायर्त्विजे श्वशुराय राज्ञ ...{Loading}...

आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च ७

मधुपर्कः

08 दधि मधुसंसृष्टम् मधुपर्कः ...{Loading}...

दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ८

09 अभाव उदकम् ...{Loading}...

अभाव उदकम् ९

लोपे प्रायश्चित्तम्

14 अतिथिन् निराकृत्य यत्र ...{Loading}...

अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य १४

01 श्वोभूते यथामनसन् तर्पयित्वा ...{Loading}...

श्वोभूते यथामनसं तर्पयित्वा संसाधयेत् १

अनुव्रजनम्

02 यानवन्तमा यानात् ...{Loading}...

यानवन्तमा यानात् २

03 यावन्नानुजानीयादितरः ...{Loading}...

यावन्नानुजानीयादितरः ३

04 अप्रतीभायां सीम्नो निवर्तेत ...{Loading}...

अप्रतीभायां +++(बुद्धौ न जातायाम्)+++ सीम्नो निवर्तेत ४

अतिथिभावः

23 मातरम् पितरमाचर्यमग्नींश्च गृहाणि ...{Loading}...

मातरं पितरम् आचर्यम् अग्नींश् च गृहाणि च रिक्त-पाणिर् नोपगछ्हेद्, राजानं चेन् न श्रुतम् इति २३

19 द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण ...{Loading}...

द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९

20 पाप्मानं हि स ...{Loading}...

पाप्मानं हि स तस्य भक्षयतीति विज्ञायते २०