वाणिज्यम्

वाणिज्य-वस्तुषु नियमाः

12 यान्रसान्रागान्गन्धानन्नञ् चर्म गवां ...{Loading}...

… मनुष्यान्,
रसान्, रागान्, गन्धान्,
अन्नं,
चर्म, गवां वशां+++(=वन्ध्य-गाम्)+++
श्लेष्म+++(=glue)++++उदके,
तोक्म+++(=अङ्कुराणि)+++-किण्वे+++(=सुरादि)+++
पिप्पलि+++(=रक्त-मरीच)+++-मरीचे
धान्यं, मांसम्,
आयुधं, सुकृताशां च १२+++(5)+++

13 तिलतण्डुलांस्त्वेव धान्यस्य ...{Loading}...

तिल-तण्डुलांस् त्व् एव धान्यस्य
विशेषेण न विक्रीणीयात् १३

14 अविहितश्चैतेषाम् मिथो विनिमयः ...{Loading}...

अविहितश् चैतेषां मिथो विनिमयः १४

15 अन्नेन चान्नस्य मनुष्याणाञ् ...{Loading}...

अन्नेन चान्नस्य,
मनुष्याणां च मनुष्यैः,
रसानां च रसैर्,
गन्धानां च गन्धैर्,
विद्यया च विद्यानाम् १५

16 अक्रीतपण्यैर्व्यवहरेत ...{Loading}...

अ-क्रीतपण्यैर् व्यवहरेत १६

01 मुञ्जबल्बजैर्मूलफलैः ...{Loading}...

मुञ्जबल्बजैर्मूलफलैः १

02 तृणकाष्ठैरविकृतैः ...{Loading}...

तृणकाष्ठैरविकृतैः २

10 दानङ् क्रयधर्मश्चापत्यस्य न ...{Loading}...

दानं क्रयधर्मश्चापत्यस्य न विद्यते १०

12 विवाहे दुहितृमते दानङ् ...{Loading}...

विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं देयं तन्मिथुया कुर्यादिति ११-१

तस्यां क्रयशब्दः संस्तुतिमात्रम् । धर्माद्धि संबन्धः ११-२

12 एकधनेन ज्येष्ठं तोषयित्वा ...{Loading}...

एकधनेन ज्येष्ठं तोषयित्वा १२

कैस् सह वाणिज्यम्?

05 न पतितैः संव्यवहारो ...{Loading}...

न पतितैः संव्यवहारो विद्यते ५

06 तथापपात्रैः ...{Loading}...

तथापपात्रैः ६

18 क्षुद्रान्क्षुद्राचरितांश्च देशान्न सेवेत ...{Loading}...

क्षुद्रान्, क्षुद्राचरितांश् च देशान् न सेवेत १८

कीनाशः, पशुपः

01 क्षेत्रम् परिगृह्योत्थानाभावात्फलाभावे यः ...{Loading}...

क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः स भावि तदपहार्यः १

02 अवशिनः कीनाशस्य कर्मन्यासे ...{Loading}...

अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् २

03 तथा पशुपस्य ...{Loading}...

तथा पशुपस्य ३

04 अवरोधनञ् चास्य पशूनाम् ...{Loading}...

अवरोधनं चास्य पशूनाम् ४

पशु-दण्डनम्

05 हित्वा व्रजमादिनः कर्शयेत्पशून् ...{Loading}...

हित्वा व्रजमादिनः कर्शयेत्पशून्। नातिपातयेत्। ५

06 अवरुध्य पशून्मारणे नाशने ...{Loading}...

अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ६

उञ्छवृत्तिः

03 शम्योषा युग्यघासो न ...{Loading}...

शम्योषा युग्यघासो न स्वामिनः प्रतिषेधयन्ति ३

04 अतिव्यपहारो व्यृद्धो भवति ...{Loading}...

अतिव्यपहारो व्यृद्धो भवति ४

05 सर्वत्रानुमतिपूर्वमिति हारीतः ...{Loading}...

सर्वत्रानुमतिपूर्वमिति हारीतः ५