०४ प्रवर्ग्यसम्भरणम्

प्रवर्ग्येण प्रचर्योपसदा चरन्ति । अथ प्रवर्ग्यसम्भरणम् । प्रवर्ग्यं सम्भरिष्यन्नमावास्यायां पौर्णमास्यामा-पूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोति । अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । यजुरेव वदेदित्येके । युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिस्स्वाहा १ । सवित्र इदम् । देवस्य त्वा — हस्ताभ्यामा ददे वैणवीमभ्रिमादाय । अभ्रिरसि नारिरस्यध्वरकृद्देवेभ्यः अभिमन्त्रयते । उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे ब्रह्माणमामन्त्रयते । उपोत्तिष्ठति ब्रह्मा । उप प्र यन्तु मरुतस्सुदानवः । इन्द्र प्राशूर्भवा सचा अध्वर्युर्ब्रह्मा च उत्तरमर्धर्चं जपतः । आददते कृष्णाजिनं अनुनयन्त्यजां पुञ्श्छगलां. अश्वं वृषाणमिति । प्रैतु ब्रह्मणस्पतिः प्रदेव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यजं नयन्तु नः प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति अध्वर्युब्रह्मयजमानाः । अग्रेणाहवनीयं मृत्खनः, पूर्वःपूर्व इतरः । उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रिवमुत्तरलोमास्तीर्य । देवी द्यावापृथिवी अनु मेमꣳसाथां मृत्खनमभिमन्त्रयते । ऋध्यासमद्य मृत्खनेऽभ्रिया प्रहृत्य । अप उपस्पृश्य । मखस्य शिरः अपदाय । मखाय त्वा हरति । मखस्य त्वा शीर्ष्णे कृष्णाजिने निवपति । एवं द्वितीयं तृतीयं च हरति । ऋध्यासमद्येत्यादि निवपनान्तम् ।

तूष्णीं चतुर्थम् । एवमितरान् संभारान् । अभिमन्त्रणे विकारः । इयत्यग्र आसीः वराहविहितमभिमन्त्रयते । ऋध्यासमद्येत्यादि तूष्णीं चतुर्थमित्यन्तं पूर्ववत् । देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरी: वल्मीकवपामभिमन्त्रयते । ऋध्यासमद्येत्यादि पूर्ववत् । इन्द्रस्यौजोऽसि पूतीकानभिमन्त्रयते । ऋध्यासमद्येत्यादि पूर्ववत् । अजलोमानि कृष्णाजिनलोमानि च संसृज्य । अग्निजा असि प्रजापते रेत: अभिमन्त्रयते । ऋध्यासमद्येत्यादि पूर्ववत् । आयुर्धेहि प्राणं धेहि । अपानं धेहि व्यानं धेहि । चक्षुर्धेहि श्रोत्रं धेहि । मनो धेहि वाचं धेहि । आत्मानं धेहि प्रतिष्ठां धेहि । मां धेहि मयि धेहि अश्वेनावघ्राप्य । मधु त्वा मधुला करोतु अजयाऽभिदोहयति । बहव आर्याः परिगृह्य हरन्ति । उत्तरेण विहारमुद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति । मधु त्वा मधुला करोतु मदन्तीभिरुपसृजति । ये चोखासंसर्जनास्सम्भाराः यच्चान्यद्दृढार्थ उपार्धं मन्यते । यत्किञ्च प्रवर्ग्ये उदककृत्यं मदन्तीभिरेव तत्क्रियते । नैनं स्त्री प्रेक्षते, न शूद्रः । न कुर्वन्नभिप्राणिति ।