२० स्कन्नप्रायश्चित्तम्

घर्मे स्कन्ने अस्कान् द्यौः पृथिवीम् । अस्कानृषभो युवा गाः । स्कन्ने मा विश्वा भुवना । स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आ स्कन्नाज्जायते वृषा । स्कान्नात्प्रजनिषीमहि स्कन्नमभिमन्त्र्य । भूपतये स्वाहा इति प्राञ्चं प्रादेशं मिमीते । भुवनपतये स्वाहा इति दक्षिणम् । भूतानां पतये स्वाहा इति प्रत्यञ्चम् । भूत्यै स्वाहा इत्युदञ्चम् । भूर्भुवस्सुवः इत्यूर्ध्वम् । भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा इति स्कन्नमनुमन्त्रयते । मा नो घर्म व्यथितो विव्यथो नः । मा नः परमधरं मा रजोनैः । मोष्वस्माꣳस्तमस्यन्तरा धाः । मा रुद्रियासो अभिगुर्वृधा नः । मा नः क्रतुभिर्हीडितेभिरस्मान् । द्विषा सुनीते मा परादाः । मा नो रुद्रो निर्ऋतिर्मा नो अस्ता । मा द्यावापृथिवी हीडिषाताम् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नस्सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घविषा परिणो वृणक्तु ॥ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत् ॥ स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि इति चतसृभिः घर्ममभिमन्त्र्य । पिष्टोदकेन महावीरं शीतीकृत्य ।