०७ पन्नेजनीग्रहणं, सादनं च

नेष्टा - प्रेह्युदेह्यृतस्य वामीरन्वग्निस्तेऽग्रं नयत्वदितिर्मध्यं दधताꣳ रुद्रावसृष्टासि युवा नाम मा मा हिꣳसीः पान्नेजनीं स्थालीं धारयमाणां पत्नीमुदानयति । अध्वर्युब्रह्मयजमानाश्चमसाध्वर्युरुन्नेता च चात्वालोत्करावन्तरेण गच्छन्त्येकधनिनः पत्नी च । अध्वर्युः - होतुः प्रातरनुवाकं शृण्वन्नेवाविदूरस्थं वहन्तीनां जलं प्रत्युदूह्य गृह्णीयात् । देवीरापो अपान्नपाद्य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं देवेभ्यो देवत्रा धत्त शुक्रꣳ शुक्रपेभ्यो येषां भागस्स्थ स्वाहा तृणमन्तर्धायाप्सु सावशेषं जुहोति । अद्भ्य इदम् । यदि वा पुरा तृणं स्यात्तस्मिन् जुहुयात् । कार्षिरस्यपापां मृध्रम् दर्भैराहुतिमपप्लाव्य । समुद्रस्य वोऽक्षित्या उन्नये अभिहुतानां मैत्रावरुणचमसेन गृह्णाति । सोमस्य त्वा मूजवतो रसं गृह्णामि एकधनाः । प्रतिघटं मन्त्रावृत्तिः । पत्नी प्रत्यङ् तिष्ठन्ती वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामि पन्नेजनीर्गृह्णाति । प्रेह्युदेह्यृतस्य वामीरन्वग्निस्तेग्रं नयत्वदितिर्मध्यं दधताꣳ रुद्रावसृष्टासि युवा नाम मा मा हिꣳसीः पूर्ववन्नेष्टा पत्नीमुदानयति । वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीस्सादयामि यज्ञाय वः पन्नेजनीस्सादयामि अपरेण नेष्ट्रीयं प्रत्यङ् तिष्ठन्ती पन्नेजनीस्सादयति । ता एवमेवाच्छावाकं सीदन्तमनूपसादयति ।