१० कन्याया रजोदर्शने कर्तव्यम्

विवाहे सोमाय जनिविदे स्वाहेति होमात्पूर्वं कन्यायां रजस्वलायाम्

आपो अस्मान्मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्रवहन्तु रिप्रमुदाभ्यश्शुचिरा पूत एमि

इति यजुःपवित्रेण पुरुषसूक्तपञ्चशान्ति अब्लिङ्गगायत्रीपवमानैश्च अभिमन्त्रितजलेन तां स्नापयित्वा, अन्यद्वस्त्रं परिधाप्य तस्मिन्नेवाग्नौ समस्ताभिः व्याहृतिभिः “सप्त ते अग्ने, यन्म आत्मनो मिन्दा, पुनरग्नि"रित्येतैः, भूरग्नये, भूरन्नमग्नये, भूरग्नये चेत्यनुवाकत्रयेण प्रतिस्वाहाकारं, “तन्तुन्तन्वन्” इत्येतया, व्यस्ताभिः व्याहृतिभिः, “अनाज्ञात"मित्यादिभिश्च हुत्वा, ब्राह्मणाननुज्ञाप्य, तन्त्रशेषं समापयेत् । प्रधानहोमात्परं रजोदर्शने चतुर्थेऽहनि स्नानब्रह्मकूर्चप्राशनपुनःस्नानादि कारयित्वा, तन्त्रशेषं समापयेत् ।

दम्पतीनियमपुनर्विवाहपुनरुपनयनवैदिकाग्निद्वयसंसर्गवैदिकलौकिकाग्निद्वयसंसर्गज्येष्ठभार्याग्निकनिष्ठभार्याग्निविभागाग्नौ जलविन्दुपतनादिकूर्चपरिधिपरिस्तरणादिदाहगृहप्रारम्भगृहप्रवेशप्रभृतीनां चत्वारिंशत्संस्कारानन्तर्गतत्वेन प्रतिपुरुषमवश्यमननुष्ठेयत्वेन नैमित्तिकत्वेन तेषां चन्द्रिकाकृद्भिः स्पष्टतया उक्तत्वेन च नात्र तेषामनुक्रमणिका कृता ।

चन्द्रिकाकृद्भागिनेयपुत्रेण वङ्गीपुरवंश्येन रामानुजदीक्षितसूनुना श्रीनिवासेन यथामति विरचिता, चन्द्रिकानुसारिण्यनुक्रमणिका सम्पूर्णा ।

हरिः ओम्

श्रीमते रामचन्द्राय नमः