०२ द्वितीयसंस्करणभूमिका

चत्वारिंशत्-संस्कारान्तर्गतानाम् आवश्यकानाम् अनुष्ठाने
वर्तमानानां च संस्काराणां प्रयोग-प्रतिपादकयोः प्रयोगचन्द्रिका-तद्-अनुक्रमणिका-नामकयोः ग्रन्थयोः
पञ्चविंशति-वर्षेभ्यः प्राक् देवनागरलिप्यां मुद्राप्य प्रकाशनं कृतमासीत् ।
उपाध्यायानां, तत्-तत्-कर्म कारयितॄणां, तद् अत्यन्तम् उपकारकम् अभूत् ।
अधुना तत्-प्रतयः दुर्लभाः जाता इति
तयोः पुनर्-मुद्रणं समीचीनाक्षरैः सम्पाद्य प्रकाश्यते ।
एतद्-ग्रन्थ-द्वयं पूर्व-प्रयोग-नाम्ना प्रथते ।

अपर-प्रयोगोऽपि पूर्वं मुद्रापितः ।
तस्य प्रतयः शत-सङ्ख्याकाः वर्तन्ते ।
किञ्चित्-कालानन्तरं तस्यापि मुद्रणं भविष्यति ।

प्रथम-भाग-रूपेण पुनर्-मुद्रापण-कर्मणि शोधकार्यं कृतवन्तः
अधीत-वेद-वेदान्ताः न्याय-शिरोमणयः श्रीमन्तः नावल्पाक्कं डा. वि. वासुदेवः,
एवं कोटिकन्निकादानं-काञ्चीपुरं-डा.पि.वि.शठकोप-ताताचार्यः,
तथा नावल्पाक्कं डा.एन्.जगन्नाथः च +इदं कार्यं सुष्ठु निरवहन्
इति तेभ्यः कृतज्ञता-पूर्वकं मङ्गलान्य् आशासे ।

एन्.एस्.रामानुजताताचार्यः
नङ्गनल्लूर् 16-4-2012