०६ प्राजापत्यादिव्रतानां समानतन्त्रप्रयोगः

माणवकः समिदाधानं कृत्वा कृच्छ्राचरणं चरेत् । प्राणानायम्य

प्रीत्यर्थं मम उपनयनप्रभृति एतत्क्षणपर्यन्तं मध्ये सम्भावितब्रह्मचर्यव्रतनियमलोपप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रप्रत्याम्नायं यत्किञ्चिद्धिरण्यदानं करिष्ये ।

[[106]]

हिरण्यदानं कुर्यात् ।

आचार्यः ताम्बूलदक्षिणां गृहीत्वा

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… नक्षत्रे … राशौ जातं गोत्रं शर्माणम् इमं मम माणवकं प्राजापत्यसौम्यआग्नेयवैश्वदेवव्रतानि तत्तदुत्सर्जनानि च समानतन्त्रेण चारयितुं योग्यतासिद्धिमनुगृहाण

विष्वक्सेनाराधनं कृत्वा आचार्यमाणवकौ सङ्कल्प्य - आचार्यः -

इमं माणवकं प्राजापत्यसौम्यआग्नेयवैश्वदेवव्रतोपक्रमान् तत्तदुत्सर्जनानि च समानतन्त्रेण चारयिष्ये ।

माणवकः

प्राजापत्यसौम्यआग्नेयवैश्वदेवव्रतोपक्रमान् तत्तदुत्सर्जनानि च समानतन्त्रेण चरिष्यामि ।

विष्वक्सेनप्रसादं स्वीकृत्य ।

आचार्यः माणवकं वपनार्थं स्नानार्थञ्च प्रोक्षेत् ।
माणवकः “नव काण्डर्षितर्पणं करिष्ये” इति सङ्कल्प्य निवीती भूत्वा उभयाङ्गुष्ठासक्तोपवीतः ऋषितीर्थेन तर्पयेत् ।

प्रजापतिं काण्डर्षिं तर्पयामि । सोमं काण्डर्षिं तर्पयामि । अग्निं काण्डर्षिं तर्पयामि । विश्वान्देवान्काष्णर्षींस्तर्पयामि । सांहितीर्देवता उपनिषदस्तर्पयामि । याज्ञिकीर्देवता उपनिषदस्तर्पयामि । वारुणीर्देवता उपनिषदस्तर्पयामि । (ब्रह्मतीर्थेन) ब्रह्माणं स्वयम्भुवं तर्पयामि (ऋषितीर्थेन) सदसस्पतिं तर्पयामि ।

उपवीती भूत्वा आचार्यस्य दक्षिणत उपविशेत् ।

आचार्यः अग्नेरुपसमाधानाद्यग्निमुखान्ते माणवकेनान्वारब्धः

प्र॒जापॅतये काण्डर्षये॒ स्वाहा॑ । प्रजापतये काण्डर्षये इदन्न मम । प्रजॉपते, नत्वदे॒तानिँ, अ॒न्यः, विश्वा॑ जा॒तानिँ, परि॒ता, ब॒भूव॒ । यत्कॉमास्ते, जु॒हु॒मः, तन्नोँ अस्तु । व॒यँस्यॉम, पतँतयः, र॒यी॒णां स्वाहा॑ । प्रजापतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

[[107]]

र॒यी॒णां, पतिं॑य॒ज॒तं, बृ॒हन्तं॑ । अ॒स्मिन्भरे॑, नृतॅमं, वाजँसातौ । प्र॒जापॅतिं, प्र॒थ॒म॒जां ऋ॒तस्यँ । यजॉम, दे॒वं, अधिँनः, ब्र॒वी॒तु॒स्वाहा॑ । प्रजापतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

प्रजॉपते, त्वंनिधि॒पाः, पु॒रा॒णः । दे॒वानां पि॒ता, ज॒नि॒ता, प्रजानां॑ ।
पति॒र्विश्वॅस्य, जगॅतः, प॒र॒स्पाः । ह॒विर्नो देव वि॒ह॒वे॒, जु॒प॒स्व॒[[ष??]] स्वाहा॑ प्रजापतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

तवे॒मे, लो॒काः प्र॒दिशॅः, दिशॅश्च । प॒रा॒वतःँ, नि॒वतःँ, उ॒द्वतँश्च ।
प्रजॉपते, वि॒श्व॒सृत्, जी॒वधँन्यः, इ॒दन्नोदेव । प्रतिँहर्य, ह॒व्यं स्वाहा॑ । प्रजापतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

प्र॒जॉपतिं, प्र॒थ॒मं, य॒ज्ञियाँनां । दे॒वानां॑, अग्रे॑, य॒ज॒तं, य॒ज॒ध्व॒म् ।
सनोँ ददातु, द्रवॅिणं, सु॒वीर्यं॑ । रा॒यस्पोषं॑, विष्यँतु, नाभिँम॒स्मे स्वाहा॑ । प्रजापतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

योरा॒यः, ईशे॑, श॒त॒दा॒यः, उ॒क्थ्यःँ । यः पॅशू॒नां, र॒क्षि॒ता, विष्ठिँतानाम् ।
प्र॒जापॅतिः प्र॒थ॒म॒जाः, ऋ॒तस्यँ । स॒हस्रँ घामा, जु॒प॒तां॒, ह॒विर्न॒ स्वाहा॑ । प्रजापतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

सोमॉय, का॒ण्ड॒र्षये॑ स्वाहा॑ - सोमाय काण्डर्षये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

सोमॅः, धे॒नुं, सोमॅः, अवँन्तम्, आ॒शुं । सोमॅः वी॒रं, क॒र्म॒ण्यं॑, द॒दा॒तु॒ ।
सा॒द॒न्यं॑ वि॒दथ्यं॑ स॒भेयं॑ । पि॒तुः श्रवॅणं, योददॉशत्, अ॒स्मै॒, स्वाहा॑; सोमाय इदन्न मम । [[TODO::परिष्कार्यम्??]]

अषाँढं, यु॒थ्सु, पृतॅनासु॒पप्रिं॑ । सु॒व॒र्षां, अ॒फ्स्वां, वृ॒जनॅस्यगो॒पां । [[TODO::परिष्कार्यम्??]]

[[108]]

भ॒रे॒षु॒जां, सु॒क्षि॒तिं, सु॒श्रवॅसम् । जयँन्तं॒त्वाम्, अनुँमदेम, सो॒म॒ स्वाहा॑ सोमाय इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

त्वँ सोँम, क्रतुँभिः, सु॒क्रतुँर्भूः । त्वं दक्षैः॑, सु॒दक्षःँ, वि॒श्ववेँदाः ।
त्वं वृषा॑, वृ॒ष॒त्वेभिःँ म॒हि॒त्वा । द्यु॒म्नेभिःँ द्यु॒म्न्यँभवः, नृ॒चक्षाः॒ स्वाहा॑ सोमाय इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

याते॒ धामाँनि, ह॒विषा॑, यजॅन्ति, ताते॒ विश्वा॑,प॒रि॒भूरॅस्तु, यज्ञम् ।
ग॒य॒स्फानॅः प्र॒तरॅणः, सु॒वीरॅः, अवीँरहा, प्रचॅर, सो॒म॒, दुर्या॒न्स्वाहा॑ सोमाय इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

त्वमि॒माः, ओषँधीः, सो॒म॒विश्वाः॑ । त्वम॒पः अ॒ज॒न॒यः॒, त्वंगाः ।
त्वमातँतन्थ, उ॒र्वँन्तरिँक्षं । त्वं ज्योतिँषा, वितमःँ, व॒व॒र्थ॒ स्वाहा॑ । सोमाय इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

याते॒ धामाँनि, दि॒वि, या पृ॑थि॒व्यां । या पर्वँतेषु, ओषँधीषु, अ॒फ्सु ।
तेभिँर्नः, विश्वैः॑ सु॒मनाः॑, अहेँडन् । राज॑न्थ्सोम, प्रतिँह॒व्या गृ॒भा॒य॒ स्वाहा॑ । सोमाय इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

अ॒ग्नये, का॒ण्ड॒र्षये॑, स्वाहा॑ - अग्नये काण्डर्षये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

अग्ने॒नयॅ, सु॒पथा॑, रा॒ये, अ॒स्मान्, विश्वॉनि देव, व॒युनॉनि, वि॒द्वान् ।
यु॒यो॒ध्यॅस्मत्, जु॒हु॒रा॒णं, एनॅः । भूयि॑ष्ठांते, नमॅ उक्तिं वि॒धे॒म॒ स्वाहा॑ अग्नये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

प्रवःँ शु॒क्रायॅ, भा॒नवे॑, भ॒र॒ध्वं॒ । ह॒व्यं, म॒तिञ्चँ, अ॒ग्नये॑ सुपूँतं ।
यो दैव्यॉनि, मानुँषा, ज॒नूँषिँ, अ॒न्तर्विश्वॉनि, वि॒द्मना॑, जिगाँति, स्वाहा॑ अग्नये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

[[109]]

अच्छा॒गिरॅः, म॒तयॅः, दे॒व॒यन्तीः॑ । अ॒ग्निंयॅन्ति, द्रविँणं, भिक्षँमाणाः ।
सु॒स॒न्दृशं॑, सु॒प्रतीकं, स्व॒ञ्च॑ । ह॒व्य॒वाहं॑, अ॒र॒तिं, मानुँषाणां, स्वाहा॑ अग्नये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

अग्ने॒त्वं, अ॒स्मत्, यु॒यो॒धि, अमीँवाः । अनॅग्नित्राः, अ॒भ्यँमन्तकृ॒ष्टीः ।
पुनॅर॒स्मभ्यं॑ सु॒वि॒तायॅदेव । क्षां, विश्वेँभिः, अ॒जरेँभिः, य॒ज॒त्र॒ स्वाहा॑ अग्नये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

अग्ने॑, त्वं पॉरय, नव्यँः, अ॒स्मान् । स्व॒स्तिभि॒रतिँ,दु॒र्गाणिँ, विश्वा॑ ।
पूश्चँ पृ॒थ्वी, ब॒हु॒लानःँ, उ॒र्वी । भवाँतो॒कायॅ, तनँयाय, शंयोः स्वाहा॑ अग्नये इदन्न मम । [[TODO::परिष्कार्यम्??]]

प्रकॉरवः, म॒न॒ना, व॒च्यमाँनाः । दे॒व॒द्रीचीं॑, न॒य॒थ॒, दे॒व॒यन्तःँ ।
द॒क्षि॒णा॒वाट, वा॒जिनी॑, प्राच्येँति । ह॒विर्भरॅन्ती, अ॒ग्नये॑, घृ॒ताची॒ स्वाहा॑ । अग्नये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

विश्वे॑भ्यः दे॒वेभ्यःँ, का॒ण्ड॒र्षिभ्य॒स्स्वाहा॑ - विश्वेभ्यः देवेभ्यः काण्डर्षिभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

आनो॒ विश्वे॑, अस्क्रॉगमन्तु, दे॒वाः । मि॒त्रः, अ॒र्य॒मा, वरुँणः, स॒जोषाः॑ ।
भुवँन्, यथॉनः विश्वे॑, वृ॒धासँः । करॅन्, सु॒षाह्रा॑, वि॒थु॒रन्न, शवः॒ स्वाहा॑ । विश्वेभ्यः देवेभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

शन्नोँदे॒वाः, वि॒श्वदेँवाः भ॒व॒न्तु॒ । शँसरॅस्वती, स॒हधी॒भिः, अ॒स्तु ।
शमॅभि॒षाचॅः, शमुँ, राति॒षाचॅः । शन्नो॑दि॒व्याः, पार्थिवाः, शन्नो॒ आप्याः॑, स्वाहा॑ । विश्वेभ्यः देवेभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

ये सॅवि॒तुः, स॒त्यसॅवस्य, विश्वे॑ । मि॒त्रस्यँ, व्र॒ते, वरुँणस्य, दे॒वाः ।
तेसौभॅगं, वी॒रवॅत्, गोमॅत्, अप्नःँ । दधॉतन, द्रविँणं, चि॒त्रम॒स्मे स्वाहा॑ । विश्वेभ्यः देवेभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

[[110]]

अग्नेँया॒हि, ढूत्यं॑, वारिँषेण्यः । दे॒वान् अच्छँ, ब्र॒ह्म॒कृता॑ ग॒णेनँ ।
सरँस्वतीं, म॒रुतःँ, अ॒श्विना॑, अ॒पः । य॒क्षि॒ दे॒वान्, र॒त्न॒धेयॉय, विश्वान्॑, स्वाहा॑ । विश्वेभ्यः देवेभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

द्यौः पिँतः, पृथिँवि, मातॅः, अध्रुँक् । अग्ने॑, भ्रा॒तः॒, व॒स॒वः॒, मृ॒डतॉनः ।
विश्वे॑, आ॒दि॒त्याः॒, अ॒दि॒ते॒, स॒जोषाः॑ । अ॒स्मभ्यं॑, शर्मंँ, ब॒हु॒लं, वियॅन्त, स्वाहा॑ । विश्वेभ्यः देवेभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

विश्वे॑, दे॒वाः॒, शृ॒णु॒त, इ॒मं, हवंँमे । ये अ॒न्तरिँक्षे, यउपॅ, द्यवि॒ष्ठ ।
ये अँग्नि जि॒ह्वाः, उ॒तवा॑ यजॅत्राः, आ॒सद्यँ, अ॒स्मिन्, ब॒र्हिषिँ, मा॒द॒यध्वं॒, स्वाहा॑ । विश्वेभ्यः देवेभ्य इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

अनन्वारब्धः

सां॒हिती॑भ्यः, दे॒वता॑भ्यः उ॒प॒नि॒षद्भ्यः॒ स्वाहा॑
सांहितीभ्यः, देवताभ्यः, उपनिषभ्यः, इदन्न मम ॥

या॒ज्ञिकी॑भ्यः, दे॒वता॑भ्यः, उ॒प॒नि॒षद्भ्यः॒ स्वाहा॑ । याज्ञिकीभ्यः देवताभ्यः उपनिषद्भ्यः इदन्न मम ॥

वा॒रुणी॑भ्यः॒, दे॒वता॑भ्यः, उ॒प॒नि॒षद्भ्यः॒ स्वाहा॑ - वारुणीभ्यः देवताभ्यः उपनिषद्भ्यः इदन्न मम ॥

ब्रह्मँणे, स्व॒य॒म्भुवे॑ - स्वाहा॑ ब्रह्मणे स्वयम्भुवे इदन्न मम । सदॅस॒स्पतिं॑, अद्भुँतं, प्रि॒यम्, इन्द्रँस्य, काम्यं॑ । सनिं॑, मे॒घां, अ॒या॒सि॒षं॒, स्वाहा॑ - सदसस्पतये इदन्न मम ॥ [[TODO::परिष्कार्यम्??]]

माणवकः उत्तरेणाग्निं प्राङ्मुखः स्थित्वोपस्थानं कुर्यात् ।

अग्ने॑ व्रतपते का॒ण्ड॒र्षि॑भ्यःँ प्रा॒जा॒प॒त्यं व्र॒तं च॒रि॒ण्या॒मि॒ । तच्छँकेयं, तन्मे॑, रा॒ध्य॒ताम्॒ । [[TODO::परिष्कार्यम्??]]

[[111]]

वायो॑ व्रतपते, का॒ण्ड॒र्षिभ्यःँ, प्रा॒जा॒प॒त्यं व्र॒तं च॒रि॒ण्या॒मि॒, तच्छँकेयं । तन्मे रा॒ध्य॒ताम्॒ ।
आदिँत्य व्रतपते, का॒ण्ड॒र्षिभ्यःँ, प्रा॒जा॒प॒त्यं व्र॒तं, च॒रि॒ण्या॒मि॒ । तच्छँकेयं, तन्मे॑ रा॒ध्य॒ताम्॒ ।
व्रतानां॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, प्रा॒जा॒प॒त्यं व्र॒तं च॒रि॒ण्या॒मि॒ । तच्छँकेयं, तन्मे॑, रा॒ध्य॒ताम्॒ । [[TODO::परिष्कार्यम्??]]

व्रती दक्षिणेन पाणिनोदकुम्भमुस्पृश्य नमोवाचे इत्यनुवाकेन शान्तिं जपेत् ।

नमोँ वा॒चे या चोँदि॒ता॒ याचानुँदिता॒ तस्यैँ वा॒चे नमो॒ नमोँ वा॒चे नमोँ वा॒चस्पतँये॒ नम॒ ऋषिँभ्यो मन्त्र॒कृद्भ्यो॒ मन्त्रँपतिभ्यो॒ मामामृषँयो मन्त्र॒कृतोँ मन्त्र॒पत्रँ[[त??]]यः॒ पराँदु॒र्माऽहमृषी॑न्मन्त्र॒कृतोँ मन्त्र॒पती॒न्परॉदां वैश्वदे॒वीं वाचॅमुद्यासँशि॒वामदँस्तां॒ जुष्टा॑न्दे॒वेभ्य॒श्शर्म[[??]] मे॒ द्यौश्शर्मं पृथि॒वी शर्म॒ विश्वँमि॒दञ्जगँत् । शर्मं च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्मं ब्रह्म प्रजाप॒ती । भू॒तं वॅदिष्ये॒ भुवॅनं वदिष्ये॒ तेजोँ वदिष्ये॒ यशोँ वदिष्ये॒ तपोँ वदिष्ये॒ ब्रह्मँ वदिष्ये स॒त्यं वॅदिष्ये॒ तस्मॉ अ॒हमि॒दमुॅप॒स्तरॅण॒मुपँस्तृण उप॒स्तरॅणम्मे प्र॒जायैँ पशू॒नां भूँयादुप॒स्तरॅणम॒हं प्र॒जायैँ पशू॒नां भूँयासं॒ प्राणाँपानौ मृ॒त्योर्माँपातं॒ प्राणाँपानौ॒ मामॉहासिष्टं॒ मधुँ मनिष्ये॒ मधुँ जनिष्ये॒, मधुँ वक्ष्यामि॒ मधुँ वदिष्यामि॒ मधु॑मतीन्दे॒वेभ्यो॒ वाचँमुद्यासँ शुश्रू॒षेण्यां॑ मनु॒ष्येभ्य॒स्तंमा॑ दे॒वा ॲवन्तु शो॒भायैँ पि॒तरोऽनुँमदन्तु । ओं शान्ति॒श्शान्ति॒श्शान्तिःँ । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविश्य औदुम्बरीश्चतस्त्रस्समिधो घृतान्वक्ता अभ्यादधाति ।

पृ॒थि॒वी, स॒मित् । ताम॒ग्निः, समिँन्धे ।, साऽग्निं, समिँन्धे । ताम॒हं, समि॑न्धे । सामा॑, समिँद्धा । आयुँषा, तेजॅसा । वर्चँसाश्रि॒या । यशँसा, ब्र॒ह्म॒व॒र्च॒सेनॅ, अ॒न्नाद्येँन, समि॑न्ताँ॒ऽस्वाहा॑ । अ॒न्तरि॑क्षं, स॒मित् । तां वा॒युः, समिँन्धे । सा वा॒युं, समिँन्धे । ताम॒हं, समिँन्धे । सामा॑, समि॑द्धा । आयुँषा, तेजँसा । वर्चँसा, श्रिया । पशँसा, ब्र॒ह्म॒व॒र्च॒सेनँ । अ॒न्नाद्येँन, समिँन्तां, स्वाहा॑ । द्यौस्स॒मित् । तामाँदि॒त्यः, समिँन्धे [[TODO::परिष्कार्यम्??]] ।

[[112]]

साऽदि॒त्यं, समि॑न्धे । ताम॒हं, समिँन्धे । सामा॑, समिँद्धा । आयुँषा, तेजॅसा । वर्चँसा, श्रि॒या । यशँसा, ब्र॒ह्म॒व॒र्च॒सेनँ । अ॒न्नाद्येँन, समिँन्तां, स्वाहा॑ । प्रा॒जा॒प॒त्यामे॑, स॒मिदँसि, स॒प॒त्न॒क्षयॅणी । भ्रा॒तृ॒व्य॒हा, मे॒ऽसि॒, स्वाहा॑ । (अत्र नोद्देश्यत्यागः) [[TODO::परिष्कार्यम्??]]

अग्नेरुत्तरतः स्थित्वा ।

अग्ने॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, सौ॒म्यंव्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
वायों॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, सौ॒म्यंव्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
आदिँत्य, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षि॒भ्यःँ, सौ॒म्यंव्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
व्र॒तानां॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, सौ॒म्यंव्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
यु॒ञ्जते॑ - स॒वि॒ता [[TODO::परिष्कार्यम्??]]

इति पदद्वयं माणवकं वाचयित्वा

अग्ने॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, आ॒ग्ने॒यं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
वायो॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, आ॒ग्ने॒यं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
आदिँत्य, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, आ॒ग्ने॒यं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
व्र॒तानां॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, आ॒ग्ने॒यं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
अग्ने॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, वै॒श्व॒दे॒वं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
वायो॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, वै॒श्व॒दे॒वं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां । [[TODO::परिष्कार्यम्??]]

[[114]]

आदिँत्य, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, वै॒श्व॒दे॒वं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां ।
व्र॒तानां॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षि॒भ्यःँ, वै॒श्व॒दे॒वं व्र॒तं, च॒रि॒ष्या॒मि॒ । तच्छँकेयं, तन्मेँराध्यतां । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविशेत् ।

आचार्यः माणवकेनान्वारब्धः

“प्र॒जापॅतये, का॒ण्ड॒र्षये॒ स्वाहा॑” [[TODO::परिष्कार्यम्??]] इत्यारभ्य “सनिं मेधा मयासिषँस्वाहा” इत्येतावत्पर्यन्तं पूर्वोक्तवत् त्रयस्त्रिंशदाहुतीर्जुहुयात् । माणवकः उत्तरतः स्थित्वा ।

अग्ने॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, आग्नेयं व्र॒तमॅचारिषम् । तदँशकं, तन्मेँरराधि । वायो॑, व्र॒त॒प॒ते॒ का॒ण्ड॒र्षिभ्यःँ प्रा॒जा॒प॒त्यं, व्र॒तमॅचारिषं । तदँशकं, तन्मेँऽराधि ।
आदिँत्य, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ प्रा॒जा॒प॒त्यं, व्र॒तमॅचारिषं । तदँशकं, तन्मेँऽराधि ।
व्र॒तानां॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ प्रा॒जा॒प॒त्यं, व्र॒तमॅचारिषं । तदँशकं, तन्मेँऽराधि । [[TODO::परिष्कार्यम्??]]

पूर्ववत् माणवकः दक्षिणेन पाणिनोदकुम्भं स्पृष्ट्वा “नमो वाचे” इति शान्तिं कुर्यात् यथास्थानमुपविश्य आदुम्बरीश्चतस्रस्समिधो घृतान्वक्ता अभ्यादधाति ।

द्यौस्स॒मित् । तामाँदि॒त्यः, समिँन्धे । सादि॒त्यं, समिँन्धे॑ । ताम॒हं, समिँन्धे । सामा॑, समिँद्धा । आयुँषा, तेजॅसा । वर्चँसाश्रि॒या । यशॅसा, ब्र॒ह्म॒व॒र्च॒सेनॅ । अ॒न्नाद्येँन, समिँन्तां, स्वाहा॑ । अ॒न्तरिँक्षं, स॒मित् । तां वा॒युः समिँन्धे । सावा॒युं, समिँन्धे । ताम॒हं, समिँन्धे सामा॑, समिँद्धा । आयुँषा । तेजँसा । वर्चँसा, श्रि॒या । यशँसा ब्र॒ह्म॒व॒र्च॒सेनँ । अ॒न्नाद्येँन, समिँन्तां - स्वाहा॑ । पृ॒थि॒वी स॒मित् । ताम॒ग्निः समिँन्धे [[TODO::परिष्कार्यम्??]] ।

[[114]]

साऽग्निं, समिँन्धे । ताम॒हं, समिँन्धे । सामा॑, समिँद्धा । आयुँषा, तेजॅसा । वर्चँसा श्रि॒या । यशँसा, ब्र॒ह्म॒व॒र्च॒सेनँ । अ॒न्नाद्येँन, समिँन्तां, स्वाहा॑ - प्र॒जा॒प॒त्या मे॑ स॒मिदँसि स॒प॒त्न॒ क्षयॅणी । भ्रा॒तृ॒व्य॒हा, मे॒ऽसि॒ स्वाहा॑ ॥ [[TODO::परिष्कार्यम्??]]

आदिँत्य व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, सौ॒म्यं व्र॒तमॅचारिषं । तदँशकं, तन्मे॑रराधि ।
वायो॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, सौ॒म्यं व्र॒तमॅचारिषं । तदँशकं, तन्मे॑रराधि ।
अग्ने॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यॅः, आ॒ग्ने॒यं व्र॒तमॅचारिषं । तदँशकं, तन्मे॑रराधि ।
व्र॒तानां॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, आ॒ग्ने॒यं व्र॒तमॅचारिषं । तदँशकं, तन्मे॑रराधि ।
अग्ने॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, वैश्वदेवं व्र॒तमॅचारिषं । तदँशकं, तन्मे॑रराधि ।
वायो॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, वै॒श्व॒दे॒वं व्र॒तम्, अचारिषं । तदँशकं, तन्मे॑रराधि ।
आदित्य, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, वै॒श्व॒दे॒वं व्र॒तमॅचारिषं । तदँशकं, तन्मे॑रराधि ।
व्रतानां॑, व्र॒त॒प॒ते॒, का॒ण्ड॒र्षिभ्यःँ, वै॒श्व॒दे॒वं व्र॒तमॅचारिषं । तदँशकं, तन्मेँरराधि । [[TODO::परिष्कार्यम्??]]

यथास्थानमुपविशेत् ।

[[115]]

आचार्यः जयादि प्रतिपद्यते परिध्यञ्जनं - परिधिप्रहरणम् । सँस्रावहोमः । प्रायश्चित्तहोमः प्राणायामः । परिषेचनम् । प्रणीतामोक्षणम् । ब्राह्मणोद्वासनम् । अग्न्युपस्थानम् ।

व्रती मदन्तीरुपस्पृश्य, “शन्नो वातः पवतामि"ति शान्तिं जपेत् । ((तप्ता आपः मदन्त्यः) अयं शान्तिजपः सौम्यव्रतविषयः) तस्य सौम्यव्रतोपस्थानानन्तरमेवास्य जपस्य कर्तव्यत्वेऽपि समानतन्त्रप्रयोगलेखनावसरे निरूपितेषु कपर्दिकारिकाश्लोकेषु “युञ्जते सविता जय वारिशम्” इत्युक्तक्रमेण जयाद्यनन्तरमेवास्य जपस्य श्रूयमाणत्वात्, समानतन्त्रपक्षे मुख्यहोमानां (प्रधानहोमानाम्) आवृत्तिः, पुस्ता[[??]]त्तन्त्रोपरिष्टात्तन्त्रयोः सकृदेवाचरणमिति व्यवस्थितत्वाच्च सर्वेषां व्रतानामुपस्थानानन्तरमेव जयादिः । तदनुसृत्य तदनन्तरमेवोत्तरशान्तिजपः । शान्तिमन्त्रपाठस्तावत्,

शन्नो॒ वातॅः पवतां मात॒रिश्वा॒ शन्नॅस्तपतु॒ सूर्यः । अहाँनि॒ शं भँवन्तुन॒श्शँरात्रिः॒ प्रतिँघीयताम् । शमु॒षानो॒व्युँच्छतु॒ शमाँदि॒त्य उदेँतु नः । शि॒वान॒श्शन्तँमाभव सुमृडी॒का सरॅस्वति । माते॒ व्योँम स॒न्दृशिँ । इडाँयै॒ वास्त्वॅसि वास्तु॒ मद्वा॑स्तु॒मन्तोँ भूयास्म॒ मा वास्तोश्च्छिथ्स्मह्यवा॒स्तुस्स भूँया॒द्यो॑ऽस्मान्द्वेष्टि॒ यञ्चँ व॒यं द्वि॒ष्मः । प्र॒ति॒ष्ठासिँ प्रति॒ष्ठावॅन्तो भूयास्म॒ माप्रँति॒ष्ठाया॑श्च्छिथ्स्मह्यप्रति॒ष्ठस्स भूँया॒द्यो॑स्मान्द्वेष्टि॒ यञ्चँ व॒यन्द्वि॒ष्मः । आवाँत वाहि भेष॒जं विवॉत वाहि यद्रपॅः । त्वँहि वि॒श्वभेँषजो दे॒वाना॑न्दू॒त ईयँसे । द्वावि॒मौ वातौँ वात॒ आसिन्धो॒रापॅरा॒वतःँ । दक्षँम्मे अ॒न्य आ॒वातु॒ परा॒ऽन्यो वाँतु॒ यद्रपॅः । यद॒दोवाँत ते गृ॒हेँऽमृतॅस्य नि॒धिर्हि॒तः । ततोँ नो देहि जी॒वसे॒ ततोँ नोधेहि भेष॒जम् । ततोँ नो मह॒ आवॅह॒ वात॒ आवाँतु भेष॒जम् । श॒म्भूर्मँयो॒भूर्नोँहृ॒दे प्रण॒ आयूँषि तारिषत् । इन्द्रँस्य गृ॒होँऽसि॒तन्त्वा॒ प्रपँद्ये॒ सगुस्साश्वःँ । स॒ह यन्मे॒ अस्ति॒ तेनँ । भूः प्रपँद्ये॒ भुवः॒ प्रपॅद्ये॒ सुव॒: प्रपँद्ये॒ भूर्भुव॒स्सुवः॒ प्रपँद्ये वा॒युं प्रप॒द्येऽना॑र्तां दे॒वतां॒ प्रप॒द्येऽश्मॉन माख॒णं प्रपँद्ये प्र॒जापॅतेर्ब्रह्मको॒शं ब्रह्म॒ प्रपँद्य॒ ओं [[TODO::परिष्कार्यम्??]]

[[116]]

प्रद्ये । अ॒न्तरिँक्षंम उ॒वँन्तरँ बृहदग्नयः पर्वताश्च या वातँस्स्व॒स्त्यास्वँस्ति॒ मान्तया॑ स्व॒स्त्या स्वॅस्ति॒मानॅसानि । प्राणाँपानौ मृत्योर्माँ पातं प्राणाँपानौ मामाॅहासिष्टं मयिँ मे॒धां मयिँ प्र॒जां मय्य॒ग्निस्तेजोँ दधातु॒ मयिँ मे॒धां मयिँ प्र॒जां मयीन्द्र॒ इन्द्रि॒यन्दँधातु मयिँ मे॒धां मयिँप्र॒जां मयि॒सूर्यो भ्राजोँ दधातु । द्युभिर॒क्तुभिः परिँपातम॒स्मा नरिँष्टेभिर॒श्विना॒ सौभँगेभिः । तन्नोँ मि॒त्रो वरुँणो मामहन्ता मदिँतिस्सिन्धुँः पृथि॒वी उ॒तद्यौः । कयाँनश्चि॒त्र आभुँवदूती स॒दा वृँध॒स्सरवा॑ । कयाशचिँष्टया वृता । कस्त्वॉस॒त्यो मदाँनां मँहि॑ष्ठो मथ्स॒दन्धँसः । दृ॒ढाचिँदारुजेवसुँ । अ॒भी षुण॒स्सखीँना म॑वि॒ता जॅरितॄणाम् । श॒तं भँवास्यूतिभिःँ । वयॅस्सुपर्णा उपॅसेदुरिन्द्रँ प्रियमेँघाऋषँयो नाथँमानाः । अपँध्वान्तमूर्णुहि पूर्धि चक्षुँर्मुमुग्ध्यॅस्मान्निधयेँव बद्धान् । शन्नोँ देवीर॒भिष्टँय आपोँ भवन्तु पी॒तये॑ । शंयो र॒भिस्रॅवन्तु नः । ईशॉना वार्याँणाङ्क्षयँन्तीश्चर्षणी॒नाम्। अ॒पो याँचामि भेष॒जम् । सुमि॒त्रान आप॒ ओषधयस्सन्तु दुर्मि॒त्रास्तस्मैँ भूयासु॒र्योऽस्मान्द्वेष्टि यञ्चँ वयन्द्विष्मः । आपो हिष्ठा मॅयो भुव स्तानॅ ऊर्जे दॅधातन । महेरणॉय चक्षँसे । योवॅश्शिवतँमोरसस्तस्यँ भाजयतेहनँः । उ॒शतीँरिव मा॒तरः । तस्मा॒ अरॅङ्गमामवो यस्य॒ क्षयाँय जिन्वँथ । आपोँ जनयँथा च नः । पृथिवी शान्ता साऽग्निनाँ शान्ता सामेँ शान्ता शुचॅँ शमयतु । अन्तरिँक्षँशा॒न्तन्तद्वा॒युनॉ शान्तन्तन्मेँ शा॒न्तँशुचॅ शमयतु । द्यौश्शान्ता साऽदि॒त्येनॅ शान्ता सामेँ शा॒न्ता शु॒चॅशमयतु । पृथि॒वी शान्तिर॒न्तरिँक्षँ शान्ति॒र्द्यौश्शान्ति॒र्दश॒श्शान्तिँखान्तरदि॒शाश्शान्तिँर॒ग्निश्शान्तिँर्वायुश्शान्तिरादि॒त्यश्शान्तिँश्च॒न्द्रमा॒श्शान्ति॒र्नक्षँत्राणि॒ शान्तिरापश्शान्तिरोषँधय॒श्शान्तिर्वनस्पतॅय॒श्शान्ति॒र्गौश्शान्तिँर॒जाशान्तिरश्व॒श्शन्तिः पुरुँष॒श्शान्ति॒र्ब्र॑ह्म॒ शान्तिँर्ब्रा॑ह्म॒णश्शान्ति॒श्शान्तिँरे॒व शान्तिश्शान्तिँर्मे अस्तु शान्तिःँ । तया॒ऽहँशा॒न्त्या सॅर्व शान्त्या मह्यँ द्विपदेचतुँष्पदे च शान्तिँङ्करोमि शान्तॅिर्मे अस्तु शान्तिःँ । एह श्रीश्च ह्रीश्च धृतिँश्च तपोँ मे॒धा प्रँति॒ष्ठा

[[117]]

श्र॒द्धा स॒त्यं धर्मँश्चैतानि॒ मोत्तिँष्ठन्त॒मनूत्तिँष्ठन्तु मामाँश्रीश्च॒ ह्रीश्च धृतिँश्च॒ तपोँ मेघा प्रँतिष्ठा श्रद्धा स॒त्यन्धर्मँश्चैतानिँमामाहॉसिषुः । उदायुँषा स्वायुषो दोषँधीनाँरसेनोत्प॒र्जन्यँस्य॒ शुष्मेणोदँस्थाम॒मृताँ अनुँ । तच्चक्षुँर्दे॒वहिँतं पु॒रस्ता॑च्छुक्रमुच्चरॅत् । [[TODO::परिष्कार्यम्??]]

पश्येँम शरदँश्शतञ्जीवेँम शरदँश्शतन्नन्दाँम शरदँश्शतं मोदॉम श॒रदँश्श॒तं भवॉम श॒रँदँश्शतँशृणवॉमश॒रदँश्श॒तं प्रब्रँवामश॒रदँश्श॒तमजीँतास्याम श॒रदँश॒तञ्ज्योक्च॒सूर्यँन्दृशे । य उदँगान्मह॒तोऽर्णवा॑द्वि॒भ्राजॅमानस्सरि॒रस्य॒ मध्यात्समाँवृषभो रोँहिताक्षस्सूर्योँविप॒श्चिन्मनॅसा पुनातु । ब्रह्मँण॒श्चोदॅन्यसि॒ ब्रह्मँण आणीस्थब्रँह्मँण आवपॅनमसिधारि॒तेयं पृथि॒वी ब्रह्मँणा मही धॉरितमेँनेन महदन्तरिक्षन्दिवॅन्दाधार पृथिवीँसदेँवांयदहं वेद॒ तद॒हन्धाँरयाणि॒मामद्वेदोऽधि॒ विस्रँसत् । मेधामनीषे माऽऽविँश ताँस॒मीचीँभू॒तस्य॒ भव्य॒स्यावरुद्ध्यै सर्व॒मायुँरयाणि सर्वमायुँरयाणि । आभिर्गीर्भिर्यतोँन ऊनमाप्यॉयय हरिवो वर्धँमानः । य॒दास्तो॒तृभ्यो॒ महिँगोत्रा रु॒जासिँ भूयिष्ठ भाजो अधँते स्याम । ब्रह्म॒ प्रावॉदिष्म॒ तन्नो माहॉसीत् । ओं शान्ति॒श्शान्ति॒श्शान्तिःँ । [[TODO::परिष्कार्यम्??]]

वाचं यच्छेत् । अहतेन वाससा प्रदक्षिणं समुखं व्रतिन[[??]]शिरो वेष्टयेत् । “ततः प्रभाते तु" इति श्लोकोक्तप्रकारेण वह्निः सूर्यः, उदकुम्भः आकाशः, गिरिः, वथ्सः, दि॒रण्यं इत्येतान् सम्पश्य

वयॅः, सुपर्णाः, उपॅसेदुः, इन्द्रं, पि॒यमेँघाः, ऋषँयः, नाथॅमानाः । ॲपॅ ध्वान्तं, ऊर्णुहि, पूर्धि, चक्षुःँ, मुमुग्धि, अ॒स्मान्, नि॒धयेँव, बुद्धान् ॥ [[TODO::परिष्कार्यम्??]]

इत्यादित्यमुपतिष्ठते । आचार्यः प्राणानायम्य

र्थम्[[??]] अस्य माणवकस्य कृतस्य प्राजापत्यादिव्रतोपक्रमोत्सर्जनसमानतन्त्रकर्मणः करिष्यमाणस्य स्नानकर्मणश्च उभयोरङ्गभूतम् अभ्युदयं हिरण्यरूपेण करिष्ये ।

अभ्युदयं कृत्वा, पुण्याहं वाचयेत् ॥

[[118]]