२० यजमानस्य दीक्षाप्रारम्भः

अत्र कृष्णाजिनेन यजमानं दीक्षयत्यध्वर्युः । द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्यां बहिर्लोमभ्याम् । यद्येकं स्यात्तस्य दक्षिणं पूर्वपादं प्रतिषीव्येत् । अन्तान्वा । द्वे विषूची प्रतिमुञ्चेत पादं वा प्रतिषीव्येदित्येके । अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणात्यध्वर्युस्तूष्णीम् । यजमानः :- ऋक्सामयोश्शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृचः शुक्लकृष्णे राजी आलभते । संमृशतीत्येके । प्रतिदिशं कृष्णाजिनमभिमृशति । इन्द्र शाक्वर गायत्रीं प्रपद्ये तां ते युनज्मि इति पुरस्तात् । इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये तां ते युनज्मि दक्षिणतः । इन्द्र शाक्वर जगतीं प्रपद्ये तां ते युनज्मि पश्चात् । इन्द्र शाक्वरानुष्टुभं प्रपद्ये तां ते युनज्मि उत्तरतः । इन्द्र शाक्वर पङ्क्तिं प्रपद्ये तां ते युनज्मि मध्ये । अथ प्राङ्मुखो जान्वक्नोऽभिसर्पति ।