०२ औपासनाग्निद्वयसंसर्गे

औपासनाग्निद्वयसंसर्गे तमग्निं द्वेधा विभज्य ममायमंशो ममायमंश इति द्वावपि प्रत्येकम् अभिमानीकृत्य पूर्वहोता स्वांशे ‘अग्नये विवचये स्वाहे’ति हुत्वा प्रायश्चित्ताहुतीः जुहुयात् । पश्चाद्धोता स्वांशे ‘अग्नये विवचये स्वाहा’ ‘अग्नये पथिकृते स्वाहे’ति हुत्वा प्रायश्चित्ताहुतीः जुहुयात् । ततस्तावुभौ सहैव समारोपयेताम्।

औपासनाग्नेः लौकिकाग्निसंसर्गे -
औपासनाग्नेः लौकिकाग्निसंसर्गे ‘विविचिं पाहि’ पञ्चकं च जुहुयात् ॥

[[35]]