श्राद्ध-प्रायश्चित्तानि

निमन्त्रित-वमनोच्छिष्टादौ

निमन्त्रितवमनोच्छिष्टादिप्रायश्चित्तम्

श्राद्ध-निमन्त्रितौ भोजन-काले परस्पर-स्पर्शे
पात्र-स्थम् अन्नं भुक्त्वा
भोजनान्ते अष्ट-शत-गायत्री-जपं कुर्याताम् ।

भोजनकाले अन्योच्छिष्ट-लेपन-स्पर्शे
स्पृष्ट-प्रदेशम् अन्येन पाणिना प्रक्षाल्य,
भोजनान्ते स्नात्वा गायत्रीं त्रिशतं जपेत् ॥

पात्रे अन्योच्छिष्टपातने
‘तत्पात्रं पाणिना अस्पृष्ट्वा स्थेयम्’ इति नियुज्य,
पात्रं परिहृत्य
भूमिं समनुलिप्य अन्यत् पात्रं निधाय,
सर्वम् अन्नं परिविष्य
तं ब्राह्मणं भोजयेत् ।

पात्राणां पात्रयोर् वा परस्परं जल-सेकात् उच्छिष्टसंस्पर्शे, स्पृष्टपात्रं विसृज्य, भूशुद्धिं कृत्वा पूर्ववत् पात्रान्तरयोः पात्रन्तरेषु वा सर्वे परिविष्य, परिषिच्य, द्वौ बहून् वा भोजयेत् । अत्र भोक्तुरुच्छिष्टसंस्पर्शे तु हस्तं क्षालयित्वा भोजयेत् । भोक्ता भोजनान्ते गायत्रीत्रिशतं जपेत् । तदनन्तरं दक्षिणाताम्बूलादिक्रिया । भोजनमध्ये पितृस्थानीयस्य देवस्थानीयस्य वा भोक्तुः विण्मूत्रोत्सर्गे कर्ता तद्दिने उपोष्य, परेद्युः श्राद्धं कुर्यात् ॥

प्रयोगदर्पणे तु,

भोजनपात्रयोः अन्नोदकादिसंसर्गे भोक्तारौ भोजनात् विरेमेताम् । कर्त्ता उपोष्य, परेद्युः श्राद्धं कुर्यात् इत्युक्तम् । तत्

उच्छिष्टोच्छिष्टसंस्पर्शे स्पृष्टपात्रं विसृज्य च ।
सर्वान्नं पूर्ववत् दत्त्वा भोजयेत्तु द्विजोत्तमः ॥

इत्यादिवचनविरुद्धत्वात् उपेक्ष्यम् ।

भोजनमध्ये देवब्राह्मणस्य पितामहस्थानब्राह्मणस्य वा प्रपितामहस्थानब्राह्मणस्य वा वमने पात्रं परिहृत्य तद्भूमिशुद्धिं कृत्वा तत्र लौकिकाग्निं यत्र क्वचनेति प्रकारेण प्रतिष्ठाप्य तस्मिन्नग्नौ, देवस्थाने चेत् पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान् आवाहयामि इत्यावाह्य,

[[157]]

पितामहस्थाने चेत्, ….. गोत्रं ….. शर्माणं पितामहं, प्रपितामहस्थाने चेत् प्रपितामहम् आवाह्य, पूर्ववत् आसनादिभिरभ्यर्च्य, पूर्वं हुतशेषं पात्रस्थं चरुं कस्मिंश्चित् परिविष्य, विश्वेभ्यो देवेभ्य इदं, पितामहायेदम् इत्यादिक्रमेण अन्नत्यागं कृत्वा तदन्नं प्राणादिमन्त्रैः पञ्चभिः षडावृत्तैः पुनः उदानसमानाभ्याञ्च यावद्द्वात्रिंशत्सङ्ख्यं तस्मिन्नग्नौ हुत्वा श्राद्धशेषं समापयेत् । अत्र देवार्थपितामहप्रपितामहार्तविप्राणां त्रयाणां द्वयोर्वा वमनेऽपि एवमेव । वक्ष्यमाणसूक्तजपोऽपि कर्तव्यः । पितृस्थानविप्रस्य वमेन, पित्रादिस्थानविप्राणां त्रयाणां समुच्चित्य वमने पित्रादित्रयस्थानवृतस्य एकस्य वमनेऽपि तद्दिने उपोष्य परदिने श्राद्धं कुर्यात् ॥ इदञ्च पिण्डदानात् प्राग्वमने । दर्शमहालयादौ तु पिण्डदानात्पूर्वं पितृस्थानीयस्य वमने तद्दिन एव पुनः पाकेन श्राद्धं कुर्यात् । तदशक्तौ आमेन हेम्ना वा कुर्यात् । पिण्डदानात्परम् एकस्य द्वयोस्त्रयाणां वा वमेन सूक्तजपमेव प्रतिब्राह्मणं कुर्यात् ।

प्रयोगदर्पणे तु,

पितामहस्य प्रपितामहस्य वा वमने पात्रमुद्धृत्य शुद्धिं कृत्त्वा पूर्वस्थापिते अग्नौ …. गोत्रस्य …. शर्माणं…. पितामहम् आवाहयामि इत्यावाह्य, पितामहस्य इदमासनम् इत्यादिक्रमेण अभ्यर्च्य ‘प्राणाय स्वाहा’ इत्यादिपञ्चाहुतीर्हुत्वा, ….गोत्राय …. शर्मणे पितामहाय स्वाहा इत्यादिक्रमेण द्वात्रिंशत् अन्नाहुतीर्जुहुयात् । ततः श्राद्धशेषसमापनम्

इत्युक्तम् ॥ तत्र मूलं चिन्त्यम् ॥

प्रयोगदर्पण एव

एकोद्दिष्टे सपिण्डीकरणे च निमित्तस्य षोडशैकोद्दिष्टश्राद्धेषु निमित्तानां मध्ये एकस्य द्वयोः बहूनां वा भोजनवेलायां वमने पात्रमुद्धत्य शुद्धिं कृत्वा,

[[158]]

पूर्वं स्थापितेऽग्नौ प्रेतमावाह्य आसनादिभिरभ्यर्च्य, ‘प्राणाय स्वाहा’ इत्यादिभिः पञ्चाहुतीः, ‘यमाय सोमम्’ (तै.आ. ४-५) इति मन्त्रेण द्वात्रिंशत् अन्नाहुतीराज्याहुतीश्च हुत्वा ब्राह्मणानां ताम्बूलदान-उद्वासनादि कृत्वा, उपोष्य, परदिने एकोद्दिष्टादिकं कुर्यात् ॥ सापिण्ड्यादिपार्वणश्राद्धे पितृस्थानीयस्य वमने तस्मिन् दिने उपोष्य परदिने श्राद्धं कुर्यात्

इत्युक्तम् ॥

‘धर्मप्रवृत्तौ’ तु

पितामहादिदेवानां ब्राह्मणो वमते यदि ।
सर्वमन्नं समादाय हुत्वैवाग्नौ तु लौकिके ॥
प्रणवेनाहुतिं चादौ अन्ते स्यात् भूर्भुवः स्वरोम् ।
आहुतीर्जुहुयात् त्रिंशत् मन्त्रैः प्राणादिपञ्चकैः ॥
द्वात्रिंशदाहुतीरेव हुत्वा पिण्डान् प्रदापयेत् ।
सर्वेषां शाखिनामेव विधिरेष उदाहृतः ॥
आदित्यादिषोडशश्राद्धे वमनञ्च भवेद्यदि ।
सर्वमन्नं समादाय ‘यत्ते कृष्ण’ (तै.आ. ४-४) इति मन्त्रतः ॥
द्वात्रिंशदाहुतीर्हुत्वा शेषकर्म समापयेत् ।
सपिण्डीकरणे चैव वृतश्च वमते यदि ॥
सपिण्डीकरणं कुर्यात् पुनःपाकेन तत्क्षणात् ।
मासिके च गयाश्राद्धे प्रत्यब्दे च महालये ॥
पिता चेत् वमनं कुर्यात् पुनः श्राद्धं समाचरेत् ।
महालयादिश्राद्धेषु पितुश्च वमनं यदि ॥
पितामहादिवत् तत्र होमं कुर्यात् यथाविधि ।
सङ्क्रान्तिव्यतिपातेषु युगमन्वष्टकासु च ॥
पिता चेत् वमते दर्शे पुनः श्राद्धं न कारयेत् ॥

इत्युक्तम् ।

गृहे विद्यमानं हुतशेषमन्नं प्राणादिभिर्पञ्चभिर्मन्त्रैः षडावृत्तैः पुनः उदानसमानाभ्याञ्च हुत्वा श्राद्धशेषं समापयेत् । पितृस्थानीयस्य वमने तत्स्थानत्रयाणां वा वमने तद्दिने उपोष्य परदिने मासिकाब्दिकश्राद्धं कुर्यात् ॥ दर्शादिश्राद्धे पितृस्थानीयम्य वमने तु तद्दिन एव पुनः पाकेन अन्यान् निमन्त्र्य श्राद्धं कुर्यात् ।

[[159]]

तदशक्तौ आमेन वा कुर्यात् । तदसम्भवे हिरण्येन वा ॥ पिण्डदानात् पूर्वं विश्वदेव-पितामह-प्रपितामह-स्थानानां ब्राह्मणानां मध्ये द्वयोर्बहूनां वा वमने पूर्ववत् प्रतिब्राह्मणं होमः । इन्द्र (तै.ब्रा. २-८-४) - यम (तै.आ.४-३) सोमसूक्त (तै.ब्रा.२-८-३) जपः प्रतिब्राह्मणं कर्तव्यः ॥

दीपादिनाशे

दीपादिनाशे

श्राद्धभोजनकाले तु दीपो यदि विनश्यति ।
पुनरन्नं न भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् ॥
कर्तुरायुष्यहानिस्स्यात् पुनः श्राद्धं समाचरेत् ।
अग्निनाशो यदा श्राद्धे दीपो यत्र विनश्यति ।
तद्दिने चोपवासश्च पुनः श्राद्धं समाचरेत् ॥

इत्यादिषु दीपनाशे पुनः श्राद्धविधानम्, “स्थाप्याः प्रतिद्विजं दीपाः श्वेतसूत्रजवर्तयः" इत्युक्तस्य प्रतिद्विजपात्रस्य पुरतः स्थापितस्य दीपस्य नाशे द्रष्टव्यम् ।

अन्धकारापगमारोपितस्य दीपस्य नाशे तु,

भुक्तिमध्ये दीपनाशे सूर्यं ध्यायन्तः पाणिभ्यां भोजनपात्रं गृह्णन्तः पुनर्दीपे प्रज्ज्वलिते भोजनपात्रस्थमन्नं भुञ्जीरन्न्

इति प्रयोगदर्पणोक्तम् इति द्रष्टव्यम् । पिण्डदानात्प्राक् अग्निनाशे तद्दिने उपोष्य, श्वः पुनः श्राद्धं कुर्यात् ॥

॥ इति श्राद्धप्रयोगे निमन्त्रितवमनोच्छिष्टप्रायश्चित्तम् ॥

श्रीगोपालार्यमहादेशिकैरनुगृहीतः श्राद्धप्रयोगः सम्पूर्णः

[[160]]