उक्थ्यादीनि

हरिः ओं । उक्थ्यषोडष्यतिरात्राप्तोर्यामश्च । उक्थ्यग्रहतृतीयसवने गृह्यते इत्युक्थ्यः । तस्य कर्माग्निष्टोमवत् । सङ्कल्पकाले सोमेन यक्ष्ये ज्योतुष्टोमेनोक्थ्येन बृहत्साम्ना द्वादशशतदक्षिणेन पशुमान् भूयांसं नित्य इति केचित् । तदा तद्दानफलनिर्देशः । विद्युदादि सर्वं । याते अग्ने रुद्रिया तनूरिति मार्जनान्ते । न प्रवृणक्ति । नोक्थ्ये प्रवृञ्ज्यादिति । उपसदेव । श्वोभूते उपसदा प्रचर्य वेदिकरणम् । श्वोभूते उपसदा प्रचर्य अग्निप्रणयनम् । पञ्चशः छदींषि । पञ्चपञ्च एकैकेन । वैष्णवं खनामीत्युपरवम्न्त्राणाम् । या यजमानस्यव्रतधुगिति विषेषः । या पत्न्यै तस्यै दधिग्रहाय तप्तमनातक्तं मैत्रावरुणायेति । उक्थ्यपात्रं प्रयुज्य । दधिहहमेव प्रयुनक्ति । नातिग्राह्यपात्राणि प्रयुनक्ति । तेषां ग्रहणाभावात् । यद्युक्थ्ये गृह्णीयात्प्रत्यञ्चं यज्ञमतिग्राह्यासꣳशृणीयुरिति लिङ्गात् । दधिग्रहं प्रयुज्यात् । आदित्यस्थाल्यादि । क्रतुकरण काले यमग्ने पृत्सु मर्त्यमिति परिधौ लेपं निमार्ष्टि । दधिग्रहेण प्रचर्य उपांशुग्रहादि । केचिदंश्वदाभ्ययोरिति अदाभ्यप्रवृणक्तिमिच्छन्ति । आग्रयणं गृहीत्वा उक्थ्यं गृह्णाति । ऐन्द्राग्नः पशुः । इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमि । इन्द्राग्निभ्यां त्वा जुष्टं नियुनज्मि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामि । इन्द्राग्निभ्यां त्वा जुष्टमभिघारयामि । अपनुत्तः शण्डः । अपनुत्तो मर्कः । निरस्तश्शण्डः । निरस्तो मर्कः । इति केचित् । माध्यन्दिनसवने अग्नीदग्नीनिति प्रैषः । अलङ्कुर्वित्यन्तः । विष्णो त्वं नो अन्तम इत्युपस्थानं कृत्वा । पात्राभिमर्शने कृते सोमः पवित्रं । कलशोह्वयतां । न दधिघर्मः । सवनीयासादनादि । तृतीयसवने आग्रयणं गृहीत्वा उक्थ्यं गृह्णाति । आत्मने मे । अङ्गेभ्यो मे । पुष्ट्यैम इत्यादि । शृतोस्यात्मानं मे । शृतोस्यङ्गानि मे । शृतास्थ पुष्टिं मे शॄणीत । अग्निमाग्नीध्रचमसोन्नयनकाले त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति । न पूतभृतो बिल उदीचीनदशमित्यादि । आयुर्म इन्द्रियं धेहीत्युपस्थाय । उक्थ्यं गृह्णाति । उपयामगृहीतोसीन्द्रा वरुणाभ्यां त्वा जुष्टं गृह्णामीत्युक्थ्यतृतीयं गृहीत्वा । एष ते योनिरिन्द्रा वरुणाभ्यां त्वा सादयति । पुनर्हविरसि । मैत्रावरुणचमसमुख्यानुन्नयति । असर्ज्यसर्जि । तन्तुरसीति स्तोमयोगः । स्तुतस्य इडा देवहूः । शोंसामोद इव । शस्त्रस्य शस्त्रम् । ग्रहमध्वर्युरित्यादि देवेभ्यस्त्वा देवायुवं पृणज्मि । प्रक्षालितेषु चमसेषु । उपयामगृहीतोसीन्द्राबृहस्पतिभ्यां त्वा । सादयति ।

ꣳꣳꣳ