१६-वर्षे गोदानम्

१६ १२ एवङ् गोदानम् ...{Loading}...

एवं +++(=चौलवत्)+++ गोदानम् अन्यस्मिन्न् अपि नक्षत्रे षोडशे वर्षे ॥

१६ १३ अग्निगोदानो वा ...{Loading}...

अग्नि-गोदानो +++(ब्रह्मचारी)+++ वा स्यात् ॥

+++(सुदर्शनसूरिः - आज्यभागान्ते कृते “अग्नये काण्डर्षये स्वाहा” इत्याज्येनैवैका प्रधानाहुतिः । ततो जयादि क्षुरप्रक्षालनान्तम् ॥)+++
+++(हरदत्तः - तस्य काण्डोपाकरकाण्डसमापनाभ्यां प्रतिपत्तिर् अवसानं च । (बौ.गृ.३२५२५८) इति । किमुक्तं भवति? आग्नेयानां काण्डानां उपाकरण-समापनयोर् यः कल्पस् तत्र चौलधर्माः प्रवर्तन्त इति । सकृत् पात्राणि न शम्याः । तत्र प्रयोगः- ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा तूष्णीं केश-श्मश्रु वापयित्वाग्नेर् उपसमाधानादि-परिषेचनान्तानि आग्नेय-काण्डोपाकरणवत् कृत्वा शुक्रियवद् देवतोपस्थानम् “अग्ने व्रतपते व्रतं चरिष्यामि"इति । संवत्सरे व्रतचर्या । अन्ते विसर्गः । एवम् एवाचारिषम् इत्यादि विकारः शुक्रियवद् दैवतम् । केश-श्मश्रु-वपनम् । अन्ते ब्राह्मण-भोजनम् ।)+++

१६ १४ संवत्सरङ् गोदानव्रत(२)मेक ...{Loading}...

संवत्सरं गोदानव्रतमे+++(मित्ये)+++क उपदिशन्ति ॥ १६.१४ ॥

+++(= ब्रह्मचर्यम्। चौलगोदानेऽयं विकल्पः, अग्निगोदाने नित्य इति हरदत्तः।)+++

१६ १५ एतावन्नाना सर्वान् ...{Loading}...

एतावन् नाना+++(=भेदः)+++ - सर्वान् केशान् +++(शिखाम् अपीति केचित्)+++ वापयते +++(आचार्येण, वरदानञ् चाचार्यायैव ।)+++ ॥

१६ १६ उदकोपस्पर्शनमिति छन्दोगाः ...{Loading}...

+++(अहरहर्)+++ उदकोपस्पर्शनम् इति छन्दोगाः १६