२८ घर्मभक्षणम्

उपयमनं होत्रे प्रयच्छति । अथवा तूष्णीमप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधाय भूस्स्वाहेति हुत्वा होत्रे प्रयच्छति । होतरुपह्वयस्व, ब्रह्मन्नुपह्वयस्व, प्रतिप्रस्थातरुपह्वयस्व, अग्नीदुपह्वयस्व, यजमानोपह्वयस्व । एवमेव सर्वे समुपाह्वानं कृत्वा । हुतꣳ हविर्मधु हविः । इन्द्रतमेऽग्नौ । पिता नोऽसि मा मा हिꣳसीः । अश्याम ते देव घर्म । मधुमतो वाजवतः पितुमतः । अङ्गिरस्वत-स्स्वधाविनः । अशीमहि त्वा मा मा हिꣳसीः भक्षयति । एवं ब्रह्मादयोऽपि भक्षयेयुः । अपि वा यजमान एव प्रत्यक्षमवघ्रेणेतरे ।