२८ सवनीयपुरोडाशानामासादनमभिमर्शनम्

अत्र प्रतिप्रस्थाता सवनीयानासादयति प्रियेण नाम्ना प्रियꣳ सद आसीद । उत्करे वाजिनम् । यजमानः - यज्ञोऽसि इति लाजानाभिमृश्य इदमिन्द्रियं — श्रयताम् । यत्पृथिवी — पयस्या मां धिनोतु । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय – अपतमिन्द्रो हरिवान् भुवनान्नुदताम् धानाः । यो नः कनीयः — अपतमिन्द्रः पूषण्वान् भुवनान्नुदताम् करम्भम् । यो नः कनीयः — अपतमिन्द्रो भुवनान्नुदताम् पुरोडाशम् । ममाग्ने पञ्चहोत्रा चाभिमृश्य । पुनः पञ्चहोता ।