०६ शेषहोमः

अथ शेषहोमः

चतुर्थ्यां रात्र्याम् अन्त्य-यामे
‘दण्डम् उदीर्ष्वात’ इत्य् एताभ्याम् उत्थाप्य
प्रक्षाल्य, निधाय,
“शेषहोमं करिष्य” इति सङ्कल्प्याग्नि-प्रतिष्ठाद्य्-आज्य-भागान्ते पत्न्यान्वारब्धः
‘अग्ने प्रायश्चित्त’ इति सप्तभिः प्रतिमन्त्रं हुत्वा
जयाद्य्–अग्न्य्-उपस्थानान्ते
अग्नेः पश्चात् पत्नीं प्राङ्मुखीम् उपवेश्य
तस्याश् शिरसि हुत-शेषम् आज्यं
‘भूः स्वाहा, भुवः स्वाहा, सुवः स्वाहा ओँ स्वाहे’ति निनयेत् ।

‘अपश्यं त्वा मनसा चेकितानम्’ इत्य् एतया पत्नी पतिं समीक्षेत ।
‘अपश्यं त्वा मनसा दीध्यानाम्’ इत्य् एतया
पतिः पत्नीं समीक्षते ।
आज्याभ्यक्ताभ्याम् अङ्गुष्ठानामिकाभ्यां
‘समञ्जन्तु विश्वे देवाः’ इत्य् एतया
तयोः हृदय-देशौ युगपत् सम्मृज्य ‘प्रजापते तन्वं मे’ इति तिस्रो जपेत् ।