०२ शाखाहरणं, वत्सापाकरणं च

अत्र प्रतिप्रस्थाता शाखामाहृत्य मैत्रावरुण्याः पयस्याया वत्सानपाकरोति । इषे त्वेत्यादि । आ प्यायध्वमघ्निया मित्रावरुणाभ्यां देवभागम् । अन्तर्वेदिशाखाया इत्यादि । कुम्भीलेपनान्तम् । नात्रपरिसमूहनालङ्करणे ।