श्राद्धम्

फलम्

01 सह देवमनुष्या अस्मिंल् ...{Loading}...

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः ।
अथ देवाः कर्मभिर् दिवं जग्मुर्,
अहीयन्त मनुष्याः ।
तेषां ये तथा कर्माण्य् आरभन्ते
सह देवैर् ब्रह्मणा चामुष्मिंल् लोके भवन्ति ।
अथैतन् मनुः श्राद्ध-शब्दं कर्म प्रोवाच १

02 प्रजानिःश्रेयसा च ...{Loading}...

प्रजानिःश्रेयसाय+++()+++ २

+++(कालभेदेन फलभेदो ऽध उक्तः।)+++

पात्राणि

03 तत्र पितरो देवता ...{Loading}...

तत्र पितरो देवता
ब्राह्मणास् त्वाहवनीयार्थे ३

04 प्रयतः प्रसन्नमनाः सृष्टो ...{Loading}...

प्रयतः प्रसन्न-मनाः सृष्टो+++(=उत्साहवान्)+++ भोजयेद्
ब्राह्मणान् ब्रह्म-विदो योनि-गोत्र-मन्त्रान्तेवास्य्-असंबन्धान् ४

05 गुणहान्यान् तु परेषां ...{Loading}...

गुणहान्यां तु
परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५

06 एतेनान्तेवासिनो व्याख्याताः ...{Loading}...

एतेनान्तेवासिनो व्याख्याताः +++(अन्यालाभे भोजनीया इति)+++ ६

07 अथाप्युदाहरन्ति ...{Loading}...

अथाप्य् उदाहरन्ति … ७

08 सम्भोजनी नाम पिशाचभिक्षा ...{Loading}...

संभोजनी +++(=परस्पर-धर्म-भोजनम्)+++ नाम पिशाच-भिक्षा
नैषा पितॄन् गच्छति नोत देवान् ।
इहैव सा चरति क्षीण-पुण्या
शालान्तरे गौर् इव नष्ट-वत्सा ८

09 इहैव सम्भुञ्जती दक्षिणा ...{Loading}...

“इहैव संभुञ्जती दक्षिणा कुलात् कुलं विनश्यती"ति ९

10 तुल्यगुणेषु वयोवृद्धः श्रेयान्, ...{Loading}...

तुल्य-गुणेषु वयो-वृद्धः श्रेयान्,
द्रव्य-कृशश् चेप्सन् १०

20 श्वभिरपपात्रैश्च श्राद्धस्य दर्शनम् ...{Loading}...

श्वभिर् अपपात्रैश् च
श्राद्धस्य दर्शनं परिचक्षते २०

21 श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः ...{Loading}...

श्वित्रः +++(=श्वेतकुष्टः)+++ शिपि-विष्टः+++(=खल्वाटः)+++ परतल्प-गाम्य् आयुधीय-पुत्रः, शूद्रोत्पन्नो ब्राह्मण्याम्

इत्य् एते श्राद्धे भुञ्जानाः
पङ्क्ति-दूषणा भवन्ति २१

22 त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः ...{Loading}...

त्रिमधुस् त्रिसुपर्णस् त्रिणाचिकेतश् चतुर्मेधः पञ्चाग्निर् ज्येष्ठसामिको वेदाध्याय्य् अनूचानपुत्रः श्रोत्रिय इत्येते
श्राद्धे भुञ्जानाः पङ्क्ति-पावना भवन्ति २२

02 समुदेतांश्च भोजयेन्न चातद्गुणायोच्छिष्टन् ...{Loading}...

समुदेतांश्च भोजयेन्, न चातद्गुणायोच्छिष्टं दद्युः २

कालः

04 मासि मासि कार्यम् ...{Loading}...

मासि मासि कार्यम् +++(यावज्जीवम्)+++ ४

05 अपरपक्षस्यापराह्नः श्रेयान् ...{Loading}...

अपर-पक्षस्यापराह्नः श्रेयान् ५

06 तथापरपक्षस्य जघन्यान्यहानि ...{Loading}...

तथा ऽपरपक्षस्य जघन्यान्य् अहानि ६

07 सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन्प्रीणाति ...{Loading}...

सर्वेष्व् एवापर-पक्षस्याहस्सु क्रियमाणे
पितॄन् प्रीणाति
कर्तुस्तु +++(प्रतिपद्येव द्वितीयायाम् एवेत्यादि)+++ कालाभिनियमात् फल-विशेषः ७

08 प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये ...{Loading}...

प्रथमेऽहनि क्रियमाणे स्त्री-प्रायम् अपत्ये जायते ८

09 द्वितीये ऽस्तेनाः ...{Loading}...

द्वितीये ऽस्तेनाः ९

10 तृतीये ब्रह्मवर्चसिनः ...{Loading}...

तृतीये ब्रह्मवर्चसिनः १०

11 चतुर्थे क्षुद्र पशुमान् ...{Loading}...

चतुर्थे क्षुद्र-पशुमान् ११

12 पञ्चमे पुमांसः बह्वपत्यो ...{Loading}...

पञ्चमे पुमांसः ।
बह्व्-अपत्यो,
न चानपत्यः प्रमीयते १२

13 षष्ठेऽध्वशीलोऽक्षशीलश्च ...{Loading}...

षष्ठे ऽध्व-शीलो ऽक्ष-शीलश् च १३

14 सप्तमे कर्षे राद्धिः ...{Loading}...

सप्तमे +++(भू-)+++कर्षे राद्धिः+++(=सिद्धिः)+++ १४

15 अष्टमे पुष्टिः ...{Loading}...

अष्टमे पुष्टिः १५

16 नवम एकखुराः ...{Loading}...

नवम एक-खुराः +++(अश्वादयः)+++ १६

17 दशमे व्यवहारे राद्धिः ...{Loading}...

दशमे व्यवहारे राद्धिः+++(=सिद्धिः)+++ १७

18 एकादशे कृष्णायसन् त्रपुसीसम् ...{Loading}...

एकादशे कृष्णायसं त्रपु-सीसम् १८

19 द्वादशे पशुमान् ...{Loading}...

द्वादशे पशु-मान् १९

20 त्रयोदशे बहुपुत्रो बहुमित्रो ...{Loading}...

त्रयोदशे बहु-पुत्रो बहु-मित्रो दर्शनीयापत्यः । युव-मारिणस् तु भवन्ति २०

21 चतुर्दश आयुधे राद्धिः ...{Loading}...

चतुर्दश आयुधे राद्धिः+++(=सिद्धिः)+++ २१

22 पञ्चदशे पुष्टिः ...{Loading}...

पञ्चदशे पुष्टिः २२

23 न च नक्तं ...{Loading}...

न च नक्तं श्राद्धं कुर्वीत २३

25 अन्यत्र राहुदर्शनात् ...{Loading}...

अन्यत्र राहु-दर्शनात् +++(यदा नक्तम् अपि कुर्वीत)+++ २५

विश्वास-टिप्पनी

“उदीच्यास् त्व् एतत् प्रायेण न पठन्ति । तथा च पूर्वैर्न व्याख्यातम् ।” इति हरदत्तः।

द्रव्याणि

23 तत्र द्रव्याणि तिलमाषा ...{Loading}...

तत्र द्रव्याणि तिल-माषा व्रीहि-यवा आपो मूल-फलानि २३

24 स्नेहवति त्वेवान्ने तीव्रतरा ...{Loading}...

स्नेहवति त्व् एवान्ने तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालम् २४

25 तथा धर्माहृतेन द्रव्येण ...{Loading}...

तथा धर्माहृतेन द्रव्येण तीर्थे +++(=सत्पात्रे)+++ प्रतिपन्नेन २५

26 संवत्सरङ् गव्येन प्रीतिः ...{Loading}...

संवत्सरं गव्येन +++(मांसेन)+++ प्रीतिः २६

27 भूयांसमतो माहिषेण ...{Loading}...

भूयांसम् अतो माहिषेण २७

28 एतेन ग्राम्यारण्यानाम् पशूनाम् ...{Loading}...

एतेन +++(माहिष-शब्देन)+++ ग्राम्यारण्यानां पशूनां मांसं +++(श्राद्धे)+++ मेध्यं व्याख्यातम् २८

01 खड्गोपस्तरणे खड्गमांसेनानन्त्यङ् कालम् ...{Loading}...

खड्गोपस्तरणे खड्ग-मांसेनानन्त्यं कालम् +++(पितृप्रीतिः)+++ १

02 तथा शतबलेर्मत्स्यस्य मांसेन ...{Loading}...

तथा शत-बलेर्+++(=बहु-शल्यस्य रोहितस्य)+++ मत्स्यस्य मांसेन २

03 वार्ध्राणसस्य च ...{Loading}...

वार्ध्राणसस्य +++(क्रौञ्चनिभस्य)+++ च ३

17 नैय्यमिकन् तु श्राद्धं ...{Loading}...

नैय्यमिकं +++(→मासि मासि क्रियमाणं)+++ तु श्राद्धं स्नेहवद्
एव दद्यात् १७

18 सर्पिर्मांसमिति प्रथमः कल्पः ...{Loading}...

सर्पिर् मांसम् इति प्रथमः कल्पः १८

19 अभावे तैलं शाकमिति ...{Loading}...

अभावे तैलं शाकम् इति १९

20 मघासु चाधिकं श्राद्धकल्पेन ...{Loading}...

मघासु चाधिकं श्राद्ध-कल्पेन
सर्पिर् ब्राह्मणान् भोजयेत् २०

01 मासिश्राद्धे तिलानान् द्रोणन् ...{Loading}...

मासि-श्राद्धे
तिलानां द्रोणं द्रोणं येनोपायेन +++(= अभ्यङ्ग-पाकादौ)+++ शक्नुयात्
तेनोपयोजयेत् १

विधिः

11 पूर्वेद्युर्निवेदनम् ...{Loading}...

पूर्वेद्युर् निवेदनम् ११

12 अपरेद्युर्द्वितीयम् ...{Loading}...

अपरेद्युर् द्वितीयम् १२

13 तृतीयमामन्त्रणम् ...{Loading}...

तृतीयम् आमन्त्रणम् +++(= अगारं प्रत्यानयनम्)+++ १३

14 त्रिःप्रायमेके श्राद्धमुपदिशन्ति ...{Loading}...

त्रिःप्रायम् एके श्राद्धम् उपदिशन्ति … १४

15 यथा प्रथममेवन् द्वितीयन् ...{Loading}...

यथा प्रथमम्, एवं द्वितीयं, तृतीयं च १५

16 सर्वेषु वृत्तेषु सर्वतः ...{Loading}...

+++(उक्तेषु त्रिषु)+++ सर्वेषु वृत्तेषु,
सर्वतः समवदाय
शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद् यथोक्तम् १६

17 उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ...{Loading}...

उदीच्य-वृत्तिस् त्व् - आसन-गतानां हस्तेषूदपात्रानयनम् +++(“अर्घ्यम्” इति)+++ १७

18 उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते ...{Loading}...

“उद्ध्रियताम् अग्नौ च क्रियताम्”
इत्य् आमन्त्रयते १८

19 काममुद्ध्रियताङ् काममग्नौ क्रियतामित्यत्तिसृष्ट ...{Loading}...

कामम् उद्ध्रियतां,
कामम् अग्नौ क्रियताम्

इत्य् अतिसृष्ट
उद्धरेद् जुहुयाच् च १९

24 आरब्धे चाभोजनमा समापनात् ...{Loading}...

आरब्धे चाभोजनम् - आ समापनात् २४

नित्य-श्राद्धम्, तेन श्राद्धान्त्यम्

05 नित्यश्राद्धम् ...{Loading}...

नित्य-श्राद्धम् ५

06 बहिर्ग्रामाच्छुचयः शुचौ देशे ...{Loading}...

बहिर्ग्रामाच् छुचयः शुचौ देशे संस्कुर्वन्ति ६

07 तत्र नवानि द्रव्याणि ...{Loading}...

तत्र नवानि द्रव्याणि +++(=वक्ष्यमाणानि भाण्डादीनि)+++ ७

08 यैरन्नं संस्क्रियते येषु ...{Loading}...

यैर् अन्नं संस्क्रियते येषु च भुज्यते ८

09 तानि च भुक्तवद्भ्यो ...{Loading}...

तानि च भुक्तवद्भ्यो दद्यात् ९

10 समुदेतांश्च भोजयेत् ...{Loading}...

समुदेतांश् च भोजयेत् १०

11 न चातद्गुणायोच्छिष्टम् प्रयच्छेत् ...{Loading}...

न चातद्गुणायोच्छिष्टं प्रयच्छेत् ११

12 एवं संवत्सरम् ...{Loading}...

एवं संवत्सरम् १२

13 तेषामुत्तमं लोहेनाजेन कार्यम् ...{Loading}...

तेषाम् उत्तमं लोहेनाजेन कार्यम् १३

14 मानञ् च कारयेत्प्रतिच्छन्नम् ...{Loading}...

मानं +++(=वेदीं)+++ च कारयेत् प्रतिच्छन्नम् १४

15 तस्योत्तरार्धे ब्राह्मणान्भोजयेत् ...{Loading}...

तस्योत्तरार्धे ब्राह्मणान्भोजयेत् १५

16 उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने ...{Loading}...

उभयान् पश्यति - ब्राह्मणांश् च भुञ्जानान्, माने च पितॄन्

इत्य् उपदिशन्ति १६

17 कृताकृतमत ऊर्ध्वम् ...{Loading}...

कृताकृतम् अत ऊर्ध्वम् १७

18 श्राद्धेन हि तृप्तिं ...{Loading}...

श्राद्धेन हि तृप्तिं वेदयन्ते पितरः १८

गौरसर्षप-श्राद्धम् पौष्टिकम्

19 तिष्येण पुष्टिकामः ...{Loading}...

तिष्येण पुष्टि-कामः १९

01 गौरसर्षपाणाञ् चूर्णानि कारयित्वा ...{Loading}...

गौर-सर्षपाणां चूर्णानि कारयित्वा
तैः पाणि-पादं प्रक्षाल्य
मुखं कर्णौ प्राश्य च
यद्-वातो नातिवाति तद्-आसनो
ऽजिनं बस्तस्य +++(=अजस्य)+++ प्रथमः कल्पो
वाग्यतो दक्षिणा-मुखो भुञ्जीत १

02 अनायुष्यन् त्वेवम्मुखस्य भोजनम् ...{Loading}...

अनायुष्यं त्व् एवं-मुखस्य भोजनं मातुर्

इत्य् उपदिशन्ति +++(येन जीवन्-मातृको नैतत् कुर्यात्)+++ २

03 औदुम्बरश्चमसः सुवर्णनाभः प्रशास्तः ...{Loading}...

औदुम्बरश् चमसः सुवर्ण-नाभः प्रशास्तः ३

04 न चान्येनापि भोक्तव्यः ...{Loading}...

न चान्येनापि भोक्तव्यः ४

05 यावद्ग्रासं सन्नयन् ...{Loading}...

यावद्-ग्रासं संनयन् ५

06 अस्कन्दयन् ...{Loading}...

अस्कन्दयन् ६

07 नापजहीत ...{Loading}...

नापजहीत +++(=सव्य-पाणिना न विमुञ्चेत्)+++ ७

08 अपजहीत वा ...{Loading}...

अपजहीत वा ८

09 कृत्स्नङ् ग्रासङ् ग्रसीत ...{Loading}...

कृत्स्नं ग्रासं ग्रसीत सहाङ्गुष्ठम् ९

10 न च मुखशब्दङ् ...{Loading}...

न च मुख-शब्दं कुर्यात् १०

11 पाणिञ् च नावधूनुयात् ...{Loading}...

पाणिं च नावधूनुयात् ११

12 आचम्य चोर्ध्वौ पाणी ...{Loading}...

आचम्य चोर्ध्वौ पाणी धारयेद् आ प्रोदकी-भावात् +++(=शुष्कभावात्)+++ १२

13 ततो ऽग्निमुपस्पृशेत् ...{Loading}...

ततो ऽग्निम् उपस्पृशेत् १३

14 दिवा च न ...{Loading}...

दिवा च न भुञ्जीतान्यन् मूलफलेभ्यः १४

15 स्थालीपाकानुदेश्यानि च वर्जयेत् ...{Loading}...

स्थालीपाक+++(दान-)++++अनुदेश्यानि +++(=देवपितृभ्यः सङ्कल्पितानि)+++ च वर्जयेत् १५

16 सोत्तराच्छादनश्चैव यज्ञोपवीती भुञ्जीत ...{Loading}...

सोत्तराच्छादनश् चैव यज्ञोपवीती +++(=उत्तरीयं यज्ञोपवीतवत् कृत्वा)+++ भुञ्जीत १६

स्थालीपाक-श्राद्धम् पौष्टिकम्

03 उदगयन आपूर्यमाणपक्षस्यैकरात्रमवरार्ध्यमुपोष्य तिष्येण ...{Loading}...

उदगयन आपूर्यमाण-पक्षस्यैकरात्रम् अवरार्ध्यम् उपोष्य
तिष्येण पुष्टिकामः स्थालीपाकं श्रपयित्वा
महाराजम्+++(=कुबेरम्)+++ इष्ट्वा
तेन सर्पिष्मता ब्राह्मणं भोजयित्वा
पुष्ट्य्-अर्थेन सिद्धिं वाचयीत ३

04 एवमहरहरा परस्मात्तिष्यात् ...{Loading}...

एवम् अहर् अहर् आ परस्मात् तिष्यात् ४

05 द्वौ द्वितीये ...{Loading}...

द्वौ द्वितीये ५

06 त्रींस्तृतीये ...{Loading}...

त्रींस्तृतीये ६

07 एवं संवत्सरमभ्युच्चयेन ...{Loading}...

एवं संवत्सरम् अभ्युच्चयेन ७

08 महान्तम् पोषम् पुष्यति ...{Loading}...

महान्तं पोषं पुष्यति ८

09 आदित एवोपवासः ...{Loading}...

आदित एवोपवासः ९