१८ दोहनम्

अध्वर्युः :- देवस्य त्वा — आददे रशनामादाय । अदित्यै रास्नासि अभिमन्त्र्य । पूर्वया द्वारोपनिर्हृत्य । त्रिरुपांशु घर्मदुघमाह्वयति । इड एहि, अदित एहि, सरस्वत्येहि प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य । गङ्ग ए३हि इति त्रिरुच्चैराह्वयति । अदित्या उष्णीषमसि रशनया घर्मदुघमभिदधाति । वायुरस्यैडः वत्सम् । पूषा त्वोपावसृजतु । अश्विभ्यां प्रदापय इत्युपावसृज्य१ । यस्ते स्तनश्शशयो यो मयोभूः । येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यस्सुदत्रः । सरस्वति तमिह धातवेऽकः घर्मदुघमभिमन्त्रयते । उस्र घर्मꣳ शिꣳषोस्र घर्मं पाहि घर्माय शिꣳष निदाय २ वत्सम् । बृहस्पतिस्त्वोपसीदतु उपसीदति । दानवस्थ पेरवः विश्वग्वृतो लोहितेन स्तनान्थ्संमृश्य । अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्व इन्द्राय पिन्वस्वेन्द्राय पिन्वस्व वर्षीयसि दोग्ध्रे दोग्धि । तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् । यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिद्रुत्य ।