२४ सवनीयपशोस्तन्त्रम्

देवस्य त्वेति यूपरशनामादायेत्याद्यग्नीषोमीयरशनामूर्ध्वमुत्कृष्य परिवीरसीति परिव्ययति । तमेव स्वरुमादाय मन्त्रेणावगूहनम् । आग्नेयं सवनीयं पशुमुपाकरोति । अग्नये त्वा जुष्टमुपाकरोमि । अग्नये त्वा जुष्टं नियुनज्मि । अग्नये त्वा जुष्टं प्रोक्षामि इत्यादि । समानमा प्रत्याश्रवणात् ।