+चातुर्मास्यप्रयोगः

॥ अथ चातुर्मास्यप्रयोगः ॥

ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्या सम्प्रदायकर्तृभ्यो वंशर्षिभ्यो नमो महद्भ्यो नमो गुरुभ्यः

नत्वा गणेशपादाभ्यां गुरूनथ महाशयान् ।

कुर्वे त्र्यम्बकनामाहं चातुर्मास्याख्यमादृतः ॥

अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति । फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवेन यजते ॥ पञ्चाहिकानां कालस्तु बोधायनेन उक्तः१ ॥ उदगयन आपूर्यमाणपक्षे देवनक्षत्रे वैश्वदेवस्य सद्यस्कालोऽपि विकल्पेन उक्तः ॥

अथ प्रयोगः

चतुर्दश्यां प्रातरग्निहोत्रं हुत्वा करिष्यमाणचातुर्मास्यानां निर्विघ्नता सिद्ध्यर्थं गणपतिपूजनं स्वस्ति पुण्याहवाचनं करिष्ये इति सङ्कल्प्य, कृत्वा २ । दर्भेष्वासीनो दर्भान्धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य । ऐष्टिकैश्चातुर्मास्यैर्यक्ष्ये इति सङ्कल्प्य । एषु ऐष्टिकचातुर्मास्येषु अध्वर्युं त्वां वृणीमहे । एवं ब्रह्माणं होतारमाग्नीध्रं च वृत्वा ।