चौलकर्मप्रयोगः

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

सू - जन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोर्ब्राह्मणानां भोजनमुपायनवत्॥

चौलकर्माङ्गं [उदकशान्तिं][udaka], [अङ्कुरं][ankur], [प्रतिसरं][pratisara], [अभ्युदयं][nandi], [पुण्याहं][punya] च कुर्यात्॥

सङ्कल्पः

नक्षत्रे राशौ जातं शर्माणमिमं मम कुमारं चौलकर्मणा संस्करिष्यामि॥ अप उपस्पृश्य। क्षारलवणवर्जम् ** कुर्मारं भोजयित्वा॥

** भुक्तिद्वये तु संप्राप्ते कथं भुक्तिर्विधीयते ।
शर्कराज्यपयः पीत्वा पश्चाद्भुक्तिं समाचरेत् ॥

[यत्र क्व चेति विधिना][agnimukha] उल्लिख्य। भूर्भुवःसुवरोमिति लौकिकाग्निं प्रतिष्ठाप्य। अग्नेरुपसमाधानादि पात्रप्रयोगे।

[agnimukha]:{{ site.baseurl }}{% link prayoga/ratna/agnimukha.md %}

जलद्वयं कुशान्यवाङ्छलालुदर्भपुंजलान्। शकृच्छलल्यसीन् क्षिपेत्सहैव चौलकर्मणि॥ इति पात्राणि सादयित्वा। पवित्रकरणाद्याज्यभागान्ते। अन्वारब्धे कुर्मारे धाता ददातु नो रयिमिति चतस्रो, यस्त्वा हृदा कीरिणेति चतस्र इति प्रतिमन्त्रमष्टावाहुतीर्जुहुयात्॥

. . .

जयादिप्रतिपद्यते परिषेचनान्तं कृत्वा। शम्या अपोह्य।

सू – अपरेणाग्निं प्राञ्चमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैः शलालुग्लप्सेनेति तुष्णीं केशान्विनीय। यथर्षिशिखानिदधाति यथा वैषां कुलधर्मः स्यात्, उष्णेन वायविति यजुषाऽपां संसर्जनाद्याकेशनिधानात् समानम्॥

अपरेणाग्निं कुमारमुपवेश्य शलल्यादीन् आदाय शिखार्थान् केशान्वप्तव्यांश्च तुष्णीं पृथक्कृत्य॥ **

** द्विमुण्डने तु संप्राप्ते कथं युग्मं समाचरेत्।
उपायने तदुक्तं स्याज्जपेन्मन्त्रं गतस्य तु॥

सू – उष्णेन वायविति यजुषाऽपः संसृज्योष्णाः शीतास्वानीय

उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न्, वपतु॥
(उ॒ष्णेन॑ वायो - उ॒द॒केनेहि॑ - अदि॑तिः - केशा॑॑न् - व॒प॒तु॒॥)

vāyu! Please bring hot water. aditi! may you cut the hair.

सू – आप इन्दन्त्विति शिर उनत्ति

आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से। ज्योक् च॒ सूर्यं॑ दृ॒शे।
(आपः॑ - उ॒न्द॒न्तु॒ - जी॒वसे॑॑ - दी॒र्घा॒यु॒त्वाय॑ - वर्च॑से। ज्योक् च॑ - सूर्यं॑॑ - दृ॒शे।)

āpa! may you wet the child’s head. May this child live long with prosperity. May he live long seeing the sun.

सू – त्रिंस्त्रीन् दर्भानन्तर्धाय येनावपदिति चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति

पुरस्तात्

येनाव॑पत् सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्।
तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒ञ्जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ।

(येनाव॑पत् - स॒वि॒ता - क्षु॒रेण॑ - सोम॑स्य - राज्ञः॑ - वरु॑णस्य - वि॒द्वान्।
तेन॑ ब्रह्माणः - व॒प॒त - इ॒दम् - अ॒स्यायु॑ष्मान् - जर॑दष्टिः - यथाऽस॑त् - अ॒यम् … श॒र्मा।)

May I get permission from the brāhmaṇās to use that razor for cutting the hair of my child, which was used by Lord savitā to shave the head of soma rājā and the head of varuṇa. Let this child get good digestion power and long life.

सू – वपन्तं यत्क्षुरेणेत्यनुमन्त्रयते

यत्क्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशा॑॑न्। शु॒न्धि॒ शिरो॒ माऽस्यायुः॒ प्रमो॑षीः।

(यत्क्षु॒रेण॑ - म॒र्चय॑ता - सु॒पे॒शसा॑॑ - वप्त्रा॑॑ - वप॑सि॒ - केशा॑॑न्।
शु॒न्धि॒ - शिरः॑ - माऽस्यायुः॑ प्रमो॑षीः।)

The razor is sharp and brilliant. May the razor shave the head of the child clean. Dont reduce his age.

दक्षिणतः

येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्।
तेना॒स्यायु॑षे वप॒ सौश्लो॑॑क्याय स्व॒स्तये॑॑।

(येन॑ पू॒षा - बृ॒ह॒स्पतेः॑॑ - अ॒ग्नेः - इन्द्र॑स्य॒ च - आयु॒षेऽव॑पत्।
तेन॑ - अ॒स्यायु॑षे वप - सौश्लो॑॑क्याय स्व॒स्तये॑॑।)

That razor which was used by pooshA, bruhaspati, agni and indrA for longivity, with the same razor or in the same way I shave your (child’s) head so that you are bestowed with long life, fame and prosperity.

पश्चात्

येन॒ भूय॒श्चरा॑॑त्य॒यं ज्योक् च॒ पश्या॑ति॒ सूर्य॑॑म्।
तेना॒स्यायु॑षे वप॒ सौश्लो॑॑क्याय स्व॒स्तये॑॑।

(येन॒ भूयः॑ - चरा॑॑त्य॒यं - ज्योक् च॑ - पश्या॑ति - सूर्य॑॑म्।
तेन - अ॒स्यायु॑षे वप - सौश्लो॑॑क्याय - स्व॒स्तये॑॑।)

May this child tread on the earth while seeing the sun. Thus let him have long life, fame and prosperity.

छित्वा॥

उत्तरतः

येन॑ पू॒षा बृह॒स्पते॑रग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्।
तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑॑।

(येन॑ पू॒षा - बृ॒ह॒स्पतेः॑॑ - अ॒ग्नेः॒ - इन्द्र॑स्य च - आयु॒षेऽव॑पत्।
तेन॑ ते - व॒पा॒मि॒ - … श॒र्म॒न् - आयु॑षा - वर्च॑सा - यथा॒ ज्योक् - सु॒मनाः॑॑ - असाः॑॑।)

That razor which was used by pūṣa, br̥haspati, agni and indra for longivity, with the same razor or in the same way I shave your head so that you are bestowed with long life, prosperity and good mind.

छित्वाऽप उपस्पृश्य॥

सू – दक्षिणतो माता ब्रह्मचारी वाऽऽनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन्केशानुपयम्योप्त्वाय केशानित्युदुम्बरमूले दर्भस्तम्बे वा निदधाति

उ॒प्त्वाय॒ केशा॒न् वरु॑णस्य॒ राज्ञो॒ बृह॒स्पतिः॑ सवि॒ता सोमो॑ अ॒ग्निः।

(उ॒प्त्वाय॑ - केशा॑॑न् - वरु॑णस्य - राज्ञः॑ - बृ॒ह॒स्पतिः॑ - स॒वि॒ता - सोमो॑ अ॒ग्निः।)

Just like br̥haspati, savitā, soma and agni put the cut hair in dhyAvA, pRuthivi. Ap and suva:, I put these cut hair under the tree.

सू – क्षुरं प्रक्षाल्य निदधाति। तेन त्र्यहं कर्मनिवृत्तिर्वरं ददाति॥

तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑॥

(तेभ्यः॑ - नि॒धान॑॑म् - ब॒हु॒धा - अन्व॑विन्दन् - अ॒न्त॒रा - द्यावा॑पृथि॒वी - अ॒पः सुवः॑॥)

दक्षिणत आसीनाय ब्राह्मणाय वरं ददाति। अथावशिष्टाभिरद्भिः शिरो नापितेन वापयित्वा स्नाप्याच्छाद्यालङ्कृत्याशिषो वाचयित्वा, उपस्थानं कुर्यात्॥

इति चौलविधिः समाप्तः॥