३६ राज्ञः हरणम्

उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताꣳ अनु यजमानो राजानमादायोत्थाय । उर्वन्तरिक्षमन्विहि शकटायाभिप्रव्रजति । अध्वर्युः - अदित्यास्सदोऽसि शकटनीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य । अदित्यास्सद आ सीदास्तभ्नाद्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आ सीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि तस्मिन्राजानमासाद्य । वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्रौ वाससा पर्यानह्यति । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यति ऊर्ध्वग्रीवं बहिष्टाद्विशसनम् । धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः दक्षिणां धुरमभिमृशति । तेनैव उत्तरां च । वारुणमसि शकटमाखिद्य । वरुणस्त्वोत्तभ्नातु उपस्तभ्य । वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि दक्षिणस्यां धुरि शम्यां प्रतिमुच्य । तेनैव उत्तरस्यां प्रतिमुच्य । उस्रावेतं धूर्षाहावनश्रू अवीरहणौ ब्रह्मचोदनौ युगपदनड्वाहावुपाज्य । वारुणमसि योक्त्रपाशं परिहृत्य । प्रत्यस्तो वरुणस्य पाशः अभिधानीं प्रत्यस्यति । एवमुत्तरमनड्वाहं युनक्ति वारुणमसि, प्रत्यस्तो वरुणस्य पाशः । हरिणीशाखे बिभ्रत्सुब्रह्मण्योऽन्तरेषेऽवसर्पति पलाशशाखे शमीशाखे वा । अध्वर्युः - सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रू३हि सुब्रह्मण्य सुब्रह्मण्यामा३ह्वय शकटमन्वारभ्य सम्प्रेष्यति । यजमानः - सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व । तेज इन्द्रियम् । ब्रह्मवर्चसमन्नाद्यम् सर्वासु सुब्रह्मण्यासु सुब्रह्मण्यमन्वारभ्य यजमानो जपति । एवं त्रिराहूतामाहूताम् । अध्वर्युणा प्रेषितेन होत्रा प्रथमायां त्रिरनूक्तायां प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरादघत् अध्वर्युब्रह्मयजमानाः प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते । ब्रह्मा दक्षिणत एति । श्येनो भूत्वा परापत यजमानस्य नो गृहे देवैस्सꣳस्कृतं यजमानस्य स्वस्त्ययन्यसि अध्वर्युः राजानमभिमन्त्रयते । अपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु अध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः । नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतꣳ सपर्यत दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शꣳसत अजेनाग्नीषोमीयेन कर्णगृहीतेन यजमानो राजानमोह्यमानं प्रतीक्षते । अजस्तु लोहस्तूपरो भवति अप्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वा स्थूलः पीवा श्मश्रुणः । औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना । अध्वर्युप्रतिप्रस्थातृनेष्ट्रुन्नेतारो तां राजासन्दीमुद्गृह्णन्ति । अग्नीन् प्रज्वलयन्ति । अध्वर्युरग्रेण प्राग्वंशं प्रागीषमुदगीषं वा शकटमवस्थाप्य । वारुणमसि शकटमाखिद्य । वरुणस्त्वोत्तभ्नातु उपस्तभ्य । वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि दक्षिणां शम्यामुद्वृह्य । विचृत्तो वरुणस्य पाशः योक्त्रपाशं विचृत्य । उन्मुक्तो वरुणस्य पाशः अभिधानीमुन्मुञ्चति । एवमुत्तरमनड्वाहं विमुञ्चति । विमुक्तस्सव्यः अविमुक्तो वा ।

आतिथ्येष्टिः

अथातिथ्यायास्तन्त्रं प्रक्रमयति । उत्तरेण गार्हपत्यमित्यादि । बर्हिराहरणकाले आश्ववालः प्रस्तरः । ऐक्षवी विधृती द्वाविंशतिदारुरिध्मः कार्ष्मर्यमयाः परिधयः । ततस्त्वां द्वाविꣳशतिधा सम्भरामि । त्रीन्परिधीन् द्वे समिधौ । नेध्मप्रव्रश्चनम् । अलङ्कृत्य परिस्तीर्य । देवा देवेषु । कर्मणे वां इत्यादि । नवकपालानि स्फ्यश्च द्वंद्वम् । प्रणीतान्वाहार्यस्थालीवर्जम् । न ब्रह्मवरणम् । निर्वापकाले मुख्यापत्नी पात्रीमन्वारभते । देवस्य त्वा — हस्ताभ्यामग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि प्रथमम् । देवस्य त्वा —ट्ठहस्ताभ्याꣳ सोमस्यातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि द्वितीयम् । देवस्य त्वा —ट्ठहस्ताभ्यामतिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि तृतीयम् । देवस्य त्वा —ट्ठहस्ताभ्यामग्नये त्वा रायस्पोषदाव्न्ने विष्णवे त्वा जुष्टं निर्वपामि चतुर्थम् । देवस्य त्वा — हस्ताभ्याꣳ श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामि पंचमम् । तूष्णीं षष्ठं अन्वावापस्सप्तमः । इदं देवानामित्यादि । विष्णुवदेवात ऊर्ध्वं संस्कारः । विष्णो हव्यꣳरक्षस्व १ । विष्णवे वो जुष्टं प्रोक्षामि । हविष्कृदेहीति वाचं विसृज्य ।