१४ हविर्धाने राज्ञः स्थापनम्

ब्रह्माध्वर्यवे राजानं प्रदायोत्तरेण हविर्धानं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशत्या अग्नीषोमीयस्य वपाया होमादास्ते । अध्वर्युः - अदित्यास्सदोऽसि दक्षिणस्य हविर्धानस्य नीडे पूर्ववत् कृष्णाजिनमास्तीर्य । अदित्यास्सद आ सीद तस्मिन्राजानमासादयति । अथैनं यजमानो देवताभ्यस्सम्प्रयच्छति एष वो देवस्सवितस्सोमस्तꣳ रक्षध्वं मा वो दभत् । एतत्त्वꣳ सोम देवो देवानुपागाः अभिमन्त्र्य । इदमहं मनुष्यो मनुष्यान् सह प्रजया सह रायस्पोषेण प्रदक्षिणमावृत्य । नमो देवेभ्यः प्राचीनमञ्जलिं करोति । प्राचीनावीती, स्वधा पितृभ्यः, दक्षिणामुखोऽञ्जलिं कृत्वा । यज्ञोपवीत्यप उपस्पृश्य । इदमहं निर्वरुणस्य पाशात् उपनिष्क्रम्य । स्वरभि व्यख्यम् प्राङ्प्रेक्षते । सुवरभि विख्येषम् सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योतिः आहवनीयम् ।