४२ आभिर् गीर्भिः

विश्वास-टिप्पनी

अयम् प्रायश्चित्तपाठः श्रीनिवस-देशिकेन सूचितः।

32 आभिर् गीर्भिर् ...{Loading}...

आ॒भिर् गी॒र्भिर् यद् अतो॑ न ऊ॒नम्
आप्या॑यय हरिवो॒ +++(=अश्ववान्, स्वर्णवान् वा [इन्द्रः])+++ वर्द्ध॑मानः
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा +++(=मेघान्)+++ रु॒जासि॑ +++(=भिनक्षि)+++
भूयिष्ठ॒भाजो॒ अध॑+++(=अत)+++ ते स्याम