०९ अन्नप्राशनं शुद्धि-पुण्याहम्

तण्डुलोपरि प्रागग्रान् दर्भान् संस्तीर्य, तेषु कुम्भं निधाय, व्याहृतिभिरपः पूरयित्वा, ऊर्ध्वाग्रं कूर्चं निधाय,

[[70]]

चूतपल्लवनारिकेलगन्धाक्षतपुष्पादिभिरलङ्कृत्य, प्राणानायम्य श्रीगोविन्देत्यादि अस्यां शुभतिथौ भगवत्प्रीत्यर्थं भगवत्कैङ्कर्यरूपं पालिकाशुद्ध्यर्थम् ओषधिशुद्ध्यर्थं शुद्धिपुण्याहवाचनं करिष्य इति सङ्कल्प्य, चतुरो ब्राह्मणान् तोषयिष्य इति ब्राह्मणान् भोजयित्वा, भोजनपर्याप्तमामं हिरण्यं वा दत्वा, तैर्ब्राह्मणैस्सह पूर्वोक्तप्रकारेण स्वामिनः मनस्समाधीयतामित्यारभ्य, कर्मणः पुण्याहं कर्मणे स्वस्ति कर्मण ऋद्धिमिति च विहाय, कुम्भे शान्तिश्शान्तिश्शान्तिरिति जलनिनयनपर्यन्तं कृत्वा, वरुणं सम्पूज्य, “दधिक्राव्ण्ण" इत्यृचम् “आपो हिष्ठा मयो भुवः” इति तिस्रः, “हिरण्यवर्णा” इति चतस्रः, “पवमानस्सुवर्जन” इत्यनुवाकं, “तच्छय्ँयो”रिति च जपित्वा, वरुणमुद्वास्य, तेन जलेन पञ्चपालिकाः कूर्चेन व्याहृतिभिः प्रोक्ष्य, पालिकाव्रीहिषु निधाय ॥

अन्नप्राशनचौलोपनयनानाम् अन्नप्राशनचौलयोः चौलोपनयनयोर्वा सहकरणे सकृदेवाङ्कुरार्पणं प्रतिसरम् अभ्युदयं च कुर्यात् । तत्तत्काले करणे तदा तदा कुर्यात् । पुण्याहं तु सर्वदा प्रत्येकं कुर्यात् ॥

प्राणानायम्य

अमुक-गोत्रस्यामुकशर्मणः
अमुक-कर्माङ्गं प्रतिसरबन्धकर्म करिष्यामि

इति सङ्कल्प्य,

शुचौ देशे गोमयेन
गो-चर्म-मात्रं चतुरश्रं स्थण्डिलम् उपलिप्य

युग्मान् ब्रह्मणान्
सु-प्रक्षालित-पाणिपादान्
आचान्तान्
प्रतिदिशम् आसनेषूपवेश्य,

पश्चात् प्राङ्मुख आचार्य उपविशति ।
पूर्ववत् प्रतिसर-बन्धाभ्युदय-पुण्याह-वाचनानि कृत्वा,

अमुक-गोत्रम् अमुक-शर्माणं कुमारम्
(अन्नप्राशनेन कर्मणा) संस्करिष्यामि

इति सङ्कल्प्य,

दधि मधु घृतम् ओदनञ्च पात्रे संसृज्य,

भूरपान्त्वौषधीनाँरसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वनमीवास्त आप ओषधयस्सन्त्वमुकशर्मन् ।

[[76]]

भुवोऽपां त्वौषधीनाँरसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वनमीवास्त आप ओषधयस्सन्त्वमुकशर्मन् ।
सुवरपां त्वौषधीनाँरसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वनमीवास्त आप ओषधयस्सन्त्वमुकशर्मन् ।
भूर्भुवस्सुवरपां त्वौषधीनाँरसं प्राशयामि शिवास्त आप ओषधयस्सन्त्वनमीवास्त आप ओषधयस्सन्त्वमुकशर्मन्,

इति प्राशयित्वा, सर्वत्रादश्शब्देषु तत्तद्विभक्तिकं तत्तच्छर्म ब्रूयात् ।