०१ अभ्युदयम्

परेद्युः प्रातःकालिकनित्यकर्माणि औपासनान्तं कृत्वा, पत्न्या सह प्राणानायम्य, गर्भाधानकर्माङ्गमभ्युदयश्राद्धं करिष्य इति सङ्कल्प्य, अन्नेन आमेन हिरण्येन वा कुर्यात् । हिरण्यपक्षे -

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

इत्युक्त्वा, वसुसत्याख्यविश्वेभ्यो देवेभ्यः नान्दीमुखाभ्यः मातृपितामहीप्रपितामहीभ्यः, नान्दीमुखेभ्यः पितृपितामहप्रपितामहेभ्यः, नान्दीमुखेभ्यः मातामहमातुःपितामहमातुःप्रपितामहेभ्यः, नान्दीश्राद्धसंरक्षकश्रीमहाविष्णवे च इदं हिरण्यम् इति हिरण्यं निधाय ।

यज्ञेश्वरो … एको विष्णुः ...{Loading}...

यज्ञेश्वरो हव्य-समस्त-कव्य-
भोक्ता ऽव्ययात्मा हरिर् ईश्वरो ऽत्र ।
तत्-सन्निधानाद् अपयान्तु सद्यो
रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

एको विष्णुर् महद्-भूतं
पृथक् भूतान्य् अनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा
भुङ्क्ते विश्व-भुग् अव्ययः ॥

अनेन नान्दीमुखेन (सत्यवसुसंज्ञयक) वसुसत्याख्यविश्वदेवरूपी, नान्दीमुख (प्रपितामहि-पितामहि-मातृस्वरूपि, प्रपितामह-पितामह-पितृस्वरूपी) मातृपितामहीप्रपितामहीरूपी, नान्दीमुखपितृपितामहप्रपितामहरूपी, नान्दीमुखसपत्नीकमातामहमातुःपितामहमातुःप्रपितामहरूपी, नान्दीश्राद्धसंरक्षकश्रीमहाविष्णुस्वरूपी,
सर्वाकारो भगवान् स एव श्रीजनार्दनः प्रीयताम्

इति साक्षतं जलं हिरण्योपरि निनीय

इदं हिरण्यं नानागोत्रेभ्यः श्रीवैष्णवेभ्यस्तेभ्यः तेभ्यः सम्प्रददे, न मम

इति साक्षतं जलं निस्राव्य,
ब्राह्मणेभ्यो दद्यात् ॥