०३ उदकशान्तिप्रयोगः

कालः

अथोदकशान्तिप्रयोगः॥

गर्भाधानादिषु पूर्वेद्युः
तस्मिन् दिने वा उदकशान्तिः।

सङ्कल्पान्तम्

“नमः सदस” इत्य्-आदि

विष्वक्सेनाराधनान्तं कृत्वा,

प्राणानायम्य,

“श्रीगोविन्दे"त्यादि…

… प्रीत्यर्थम् एतत्-कर्म-साद्गुण्यार्थम्
एभिः श्रीवैष्णवैः (ब्राह्मणैः) बोधायनोक्त-प्रकारेण उदक-शान्ति-जप-कर्म करिष्यामि

इति सङ्कल्प्य,

रेखा-कर्षः

गोमयोपलिप्ते रङ्गवल्य्-आद्य्-अलङ्-कृते स्थण्डिले
व्रीहीन् तण्डुलान् निक्षिप्य,

[[44]]

प्राचीस् तिस्रो रेखाः

तत्र मध्ये

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

इति मध्ये ।

०६ नाके सुपर्णमुप ...{Loading}...

नाके॑ सुप॒र्णम् +++(→सूर्यं)+++ उप॒ यत् पत॑न्तं
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्य-पक्षं॒ +++(शतभिषक्-स्थ-)+++वरु॑णस्य दू॒तं
य॒मस्य॒ योनौ॑ +++(→भरण्यां)+++ शकु॒नं भु॑र॒ण्युम्+++(←भृ)+++ ॥

इति दक्षिणतः,

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

इत्य् उत्तरतः, प्राचीः तिस्रो रेखाः

उदीचीस् तिस्रो रेखाः

38 यो रुद्रो ...{Loading}...

यो रु॒द्रो अ॒ग्नौ , यो अ॒फ्सु ,
य ओष॑धीषु॒, यो रु॒द्रो
विश्वा॒ भुव॑ना वि॒वेश॒
तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्तु

इति मध्ये, अप उपस्पृश्य ।

१७ इदं विष्णुर्वि ...{Loading}...

इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

इति पश्चात् ।

०१ इन्द्रं विश्वा ...{Loading}...

इन्द्रं॒ विश्वा॑ अवीवृधन्त्
समु॒द्र+++(वत्)+++-व्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒,
वाजा॑नां॒ सत्-प॑तिं॒ पति॑म् ॥

इति पुरस्तात्, उदीचीस्तिस्रो रेखाः लिखित्वा

अद्भिर् अवोक्ष्य
तत्र व्रीहीन् निक्षिप्य

कुम्भः

तत्र

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

इति कुम्भं निधाय,

तस्मिन् गायत्र्या तिरः पवित्रं निधाय,

२२ आपो वा इदम् ...{Loading}...

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्य् आपः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो, ऽन्न॒म् आपो, ऽमृ॑त॒म् आपः॑
स॒म्राड् आपो॑, वि॒राड् आपः॑, स्व॒राड् आप॒श्
छन्दा॒ꣳ॒स्य् आपो॒, ज्योती॒ꣳ॒ष्य् आपो॒, यजू॒ꣳ॒ष्य् आप॑स्,
स॒त्यम् आप॒स्, सर्वा॑ दे॒वता॒ आपो॒,
भूर् भुव॒स् सुव॒र् आप॒
ॐ ॥

मूलम्

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒म् आपः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्
छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्
स॒त्यमाप॒स् सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ॐ ॥

इत्य् अद्भिरापूर्य

ऊर्ध्वाग्रं कूर्चं निक्षिप्य
(“ओं भूर्भुवस्सुवरोमि”त्य् अक्षतान् निक्षिप्य)
गन्धाक्षत-पुष्पैर् अलङ्कृत्य
दूर्वा-पुष्प-फलैर् अवकीर्य
दूर्वादर्भैः प्रच्छाद्य

०४ शं नो ...{Loading}...

शं नो॑ दे॒वीर॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑ ।
शं योर्+++(=[अ]मिश्रणाय)+++ अ॒भि स्र॑वन्तु नः ॥ ०४॥

इच्य् अद्भिर् अभिमृश्य

जपः

सुप्रक्षालित-पाणिपादैः स्वाचान्तैश्
चतुर्-दिक्ष्व् आसनेषु निषण्णैः
चतुर्भिः ब्राह्मणैः सह
प्राणायामं कृत्वा,

कुम्भम् अन्वारभ्य,
गायत्रीं पच्छो ऽर्धर्चशः अनवानम् उक्त्वा,
वेदादीन् जपित्वा,
“कृणुष्वपाज” इत्यनुवाकं “मदेचिदस्ये"त्यर्धर्चमपोह्य,
“इन्द्रं वो विश्वतस्परि हवामहे” इत्यनुवाकं,
“यत इन्द्र, स्वस्तिदा, महाँ इन्द्रः, सजोषा इन्द्रे”ति चतस्रः,

[[45]]

“ये देवाः पुरस्सदः” इति पञ्च,
“अग्नये रक्षोघ्ने” इति पञ्च,
“अग्निरायुष्मा"निति पञ्च,
“यावामिन्द्रा वरुणे"ति चतुरः,
“यो वामिन्द्रावरुणा”वित्यष्टौ पर्यायान्,
“अग्ने यशस्विन्” इति चतस्रः,
“ऋताषाडि"ति सानुषङ्गमनुवाकं,
“नमो अस्तु सर्पेभ्यो” इति तिस्रः,
“अयं पुरो हरिकेश” इति पञ्च पर्यायान्
“आशुश्शिशानः”
“शं च मे”
“ममाग्ने”
“अग्नेर्मन्वे” इत्यनुवाकान्,

“समीची नामासी”ति षट्पर्यायान्,
“हेतयो नामस्थे”ति षट्पर्यायान्,
“शतायुधाये"ति पञ्चर्चः,

“भूतं भव्यं भविष्यत्”
“इन्द्रो दधीच” इत्यनुवाकौ,
“चक्षुषो हेत” आरभ्य “भ्रातृव्यं पादयामसी"त्यन्तं,
“प्राणो रक्षति”
“सिँहे व्याघ्रे”
“अहमस्मि”
“ता सूर्या”

“अग्निर्न”
“ऋद्ध्याः स्म”
“नवो नव” इत्यनुवाकान्,
“अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा” इत्याद्युपहोमान्,

“दधिक्राव्ण्ण” इत्यृचम्,
“आपो हिष्ठा मयो भुव” इति तिस्रः,

“उदुत्तमं वरुण”
“अस्तभ्नाद्यां”
“यत्किञ्चेदं”
“कितवासः”
“अवते हेडः”
“तत्त्वायामी”ति वरुणसूक्तं,

“हिरण्यवर्णाः”
“पवमानः”
“तच्छय्ँयोः” इत्यनुवाकान्,

“यो ब्रह्मा ब्रह्मण” इति घृतसूक्तं,
“नमो ब्रह्मण” इति परिधानीयां त्रिः जपित्वा,

प्रोक्षणादि

प्रणवेन कुम्भमुत्थाप्य,
“देवस्य त्वे”ति व्याहृतिभिश् च यजमानं प्रोक्षयेत् ।

यजमानः
पुरस्ताद् उपविष्टाय हिरण्यं
दक्षिणत उपविशते रजतं
पश्चाद् उपविशते कांस्यम्
उत्तरत उपविशते वासश्च
दक्षिणां दत्वा

कुम्भ-जलेन स्नायात् ।