०९ उपरवकरणम्

दक्षिणस्य हविर्धानस्याधस्तात् पुरोक्षं चतुर उपरवानवान्तरदेशेषु प्रादेशमुखान् प्रादेशान्तरालान् करोति । देवस्य त्वेत्यभ्रिमादाय । परिलिखितमिति त्रिर्दक्षिणपूर्वं परिलिखति । एवमितरान् प्रदक्षिणमुत्तरापवर्ग-मेवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते । अधस्तात् सन्तृण्णा भवन्त्युपरिष्टादसंभिन्नाः । तूष्णीं बाहुमात्रान् खात्वाप उपस्पृश्य । रक्षोहणो वलगहनो वैष्णवान् खनामि खनत्यप उपस्पृश्य । विराडसि सपत्नहा बाहुमुपावहृत्य । इदमहं तं वलगमुद्वपामि यं नस्समानो यमसमानो निचखाने-दमेनमधरं करोमि यो नस्समानो योऽसमानोऽरातीयति उदुप्य१ । गायत्रेण छन्दसावबाढो वलगः उपरवन्यन्तेऽवबाधते २। हरामि वैष्णवान् हरति । अवबाढो दुरस्युः अग्रेणोपस्तंभनं निवपति । एवं सर्वान् करोति । विशेषस्तु सम्राडसि भ्रातृव्यहा बाहुमुपावहृत्य । त्रैष्टुभेन छन्दसावबाढो वलगः इत्यवबाधते द्वितीये । शेषं पूर्ववत् । स्वराडस्यभिमातिहा बाहुमुपावहृत्य । जागतेन छन्दसावबाढो वलगः तृतीये । शेषं पूर्ववत् । विश्वाराडसि विश्वासां नाष्ट्राणाꣳ हन्ता बाहुमुपावहृत्य । आनुष्टुभेन पाङ्क्तेन छन्दसावबाढो वलगः इति चतुर्थे । शेषं पूर्ववत् । विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासां नाष्ट्राणाꣳ हन्ता बाहू उपावहरतोऽध्वर्युर्यजमानश्च । संमृश इमानायुषे वर्चसे च देवानां निधिरसि द्वेषो यवनः । युयोध्यस्मद्द्वेषाꣳसि यानि कानि चकृम । देवानामिदं निहितं यदस्त्यथा भाहि प्रदिशश्चतस्रः । कृण्वानो अन्याꣳ अधरान् सपत्नान् दक्षिणपूर्वमुपरवं संमृशतः । एवमितरान् संमृश्य । दक्षिणपूर्वं यजमानोऽभिमृशति । उत्तरापरमध्वर्युः । अथ यजमानः पृच्छति अध्वर्यो किमत्र । भद्रम् इत्यध्वर्युराह । तन्नौ सह इत्युक्त्वा उत्तरपूर्वं यजमानोऽभिमृशति दक्षिणापरमध्वर्युः । अध्वर्यो किमत्र यजमानः पृच्छति । भद्रं इत्यध्वर्युराह । तन्मे इति यजमानः । अध्वर्युः :- रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् यवमतीभिर्दक्षिणपूर्वमुपरवं प्रोक्ष्य । रक्षोहणो वलगहनोऽवनयामि वैष्णवान् प्रोक्षणीशेषमवटेऽवनीय । यवोऽसि — अरातीः इति यवमवास्य । रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवान् अवाचीनाग्रेण बर्हिषावस्तीर्य । रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान् स्वाहा आज्येनाभिजुहोति । वैष्णवेभ्य उपरवेभ्य इदम् । प्रोक्षणादि होमान्तं सर्वेषां करोति । औदुम्बरे कार्ष्मर्यमये पालाशे वा अधिषवणफलके शुष्के तष्टे । रक्षोहणौ वलगहनौ प्रोक्षामि वैष्णवी प्रोक्ष्य । रक्षोहणौ वलगहनावुपदधामि वैष्णवी उपरवेषूपदधाति । द्वौ ३ दक्षिणेनापिदधाति द्वावुत्तरेण, पुरस्तात् प्रधिमुखे पश्चात्समाविकर्ते । रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी उपरवपांसुभिः प्रदक्षिणं पर्यूह्य । रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी बर्हिषावस्तीर्य । रक्षोहणौ वलगहनौ वैष्णवी अभिमन्त्रयते । एतस्यैव हविर्धानस्य अग्रेणोपस्तम्भनं उपरवपांसुभिः चतुरश्रं खरं करोति सोमपात्रेभ्य आप्तम् । पुरस्तात् सञ्चरं शिष्ट्वा ।