०८ अन्नप्राशनम्

षष्ठे सावने मासि अन्नप्राशनमष्टमे दशमे द्वादशे वा अमुक-गोत्रम् अमुक-शर्माणं कुमारम् अन्नप्राशनेन कर्मणा संस्करिष्यामीति सङ्कल्प्य

[[14]]

दधि मधु घृतमोदनं च संसृज्य ‘भूरपां त्वौषधीनां रसं प्राशयामी’ति चतुर्भिः कुमारं प्राशयेत् । सर्वत्रादश्शब्देषु तत्तद्विभक्तिकं शर्म ब्रूयात् । सर्वत्र मन्त्रान्ते क्रियाः कुर्यात् ।