१७

01 खड्गोपस्तरणे खड्गमांसेनानन्त्यङ् कालम् ...{Loading}...

खड्गोपस्तरणे खड्ग-मांसेनानन्त्यं कालम् +++(पितृप्रीतिः)+++ १

02 तथा शतबलेर्मत्स्यस्य मांसेन ...{Loading}...

तथा शत-बलेर्+++(=बहु-शल्यस्य रोहितस्य)+++ मत्स्यस्य मांसेन २

03 वार्ध्राणसस्य च ...{Loading}...

वार्ध्राणसस्य +++(क्रौञ्चनिभस्य)+++ च ३

04 प्रयतः प्रसन्नमनाः सृष्टो ...{Loading}...

प्रयतः प्रसन्न-मनाः सृष्टो+++(=उत्साहवान्)+++ भोजयेद्
ब्राह्मणान् ब्रह्म-विदो योनि-गोत्र-मन्त्रान्तेवास्य्-असंबन्धान् ४

05 गुणहान्यान् तु परेषां ...{Loading}...

गुणहान्यां तु
परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ५

06 एतेनान्तेवासिनो व्याख्याताः ...{Loading}...

एतेनान्तेवासिनो व्याख्याताः +++(अन्यालाभे भोजनीया इति)+++ ६

07 अथाप्युदाहरन्ति ...{Loading}...

अथाप्य् उदाहरन्ति … ७

08 सम्भोजनी नाम पिशाचभिक्षा ...{Loading}...

संभोजनी +++(=परस्पर-धर्म-भोजनम्)+++ नाम पिशाच-भिक्षा
नैषा पितॄन् गच्छति नोत देवान् ।
इहैव सा चरति क्षीण-पुण्या
शालान्तरे गौर् इव नष्ट-वत्सा ८

09 इहैव सम्भुञ्जती दक्षिणा ...{Loading}...

“इहैव संभुञ्जती दक्षिणा कुलात् कुलं विनश्यती"ति ९

10 तुल्यगुणेषु वयोवृद्धः श्रेयान्, ...{Loading}...

तुल्य-गुणेषु वयो-वृद्धः श्रेयान्,
द्रव्य-कृशश् चेप्सन् १०

11 पूर्वेद्युर्निवेदनम् ...{Loading}...

पूर्वेद्युर् निवेदनम् ११

12 अपरेद्युर्द्वितीयम् ...{Loading}...

अपरेद्युर् द्वितीयम् १२

13 तृतीयमामन्त्रणम् ...{Loading}...

तृतीयम् आमन्त्रणम् +++(= अगारं प्रत्यानयनम्)+++ १३

14 त्रिःप्रायमेके श्राद्धमुपदिशन्ति ...{Loading}...

त्रिःप्रायम् एके श्राद्धम् उपदिशन्ति … १४

15 यथा प्रथममेवन् द्वितीयन् ...{Loading}...

यथा प्रथमम्, एवं द्वितीयं, तृतीयं च १५

16 सर्वेषु वृत्तेषु सर्वतः ...{Loading}...

+++(उक्तेषु त्रिषु)+++ सर्वेषु वृत्तेषु,
सर्वतः समवदाय
शेषस्य ग्रासावरार्ध्यं प्राश्नीयाद् यथोक्तम् १६

17 उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ...{Loading}...

उदीच्य-वृत्तिस् त्व् - आसन-गतानां हस्तेषूदपात्रानयनम् +++(“अर्घ्यम्” इति)+++ १७

18 उद्ध्रियतामग्नौ च क्रियतामित्यामन्त्रयते ...{Loading}...

“उद्ध्रियताम् अग्नौ च क्रियताम्”
इत्य् आमन्त्रयते १८

19 काममुद्ध्रियताङ् काममग्नौ क्रियतामित्यत्तिसृष्ट ...{Loading}...

कामम् उद्ध्रियतां,
कामम् अग्नौ क्रियताम्

इत्य् अतिसृष्ट
उद्धरेद् जुहुयाच् च १९

20 श्वभिरपपात्रैश्च श्राद्धस्य दर्शनम् ...{Loading}...

श्वभिर् अपपात्रैश् च
श्राद्धस्य दर्शनं परिचक्षते २०

21 श्वित्रः शिपिविष्टः परतल्पगाम्यायुधीयपुत्रः ...{Loading}...

श्वित्रः +++(=श्वेतकुष्टः)+++ शिपि-विष्टः+++(=खल्वाटः)+++ परतल्प-गाम्य् आयुधीय-पुत्रः, शूद्रोत्पन्नो ब्राह्मण्याम्

इत्य् एते श्राद्धे भुञ्जानाः
पङ्क्ति-दूषणा भवन्ति २१

22 त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्येष्ठसामगो वेदाध्याय्यनूचानपुत्रः ...{Loading}...

त्रिमधुस् त्रिसुपर्णस् त्रिणाचिकेतश् चतुर्मेधः पञ्चाग्निर् ज्येष्ठसामिको वेदाध्याय्य् अनूचानपुत्रः श्रोत्रिय इत्येते
श्राद्धे भुञ्जानाः पङ्क्ति-पावना भवन्ति २२

23 न च नक्तं ...{Loading}...

न च नक्तं श्राद्धं कुर्वीत २३

24 आरब्धे चाभोजनमा समापनात् ...{Loading}...

आरब्धे चाभोजनम् - आ समापनात् २४

25 अन्यत्र राहुदर्शनात् ...{Loading}...

अन्यत्र राहु-दर्शनात् +++(यदा नक्तम् अपि कुर्वीत)+++ २५

विश्वास-टिप्पनी

“उदीच्यास् त्व् एतत् प्रायेण न पठन्ति । तथा च पूर्वैर्न व्याख्यातम् ।” इति हरदत्तः।

इति सप्तमः पटलः


    1. Manu III, 272; Yājñ. I, 259.
     ↩︎
  1. Manu V, 16, where Rohita is explained by Śatabali. ↩︎

  2. Manu III, 128-138, and 149, 188; Yājñ. I, 225. ↩︎

  3. गौ०ध० २२. ११. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. पा०सू० १ ३. ३८. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. म०स्मृ० ३. १४७. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. See Manu III, 141, where this Tṛṣṭubh has been turned into an Anuṣṭubh. ↩︎

  7. Manu III, 187; Yājñ. I, 225. According to Haradatta the formula of invitation is, Śvaḥ śrāddham bhavitā, tatrāhavanīyārthe bhavadbhiḥ prasāde kartavya iti, ’to-morrow a Śrāddha will take place. Do me the favour to take at that the place of the Āhavanīya-fire.' ↩︎

  8. The formula is, Adya śrāddham, ’to-day the Śrāddha takes place.' ↩︎

  9. The call to dinner is, Siddham āgamyatim, ’the food is ready; come.' ↩︎

  10. Āpastamba Gṛhya-sūtra VIII, 2 1, 9. ‘He shall eat it pronouncing the Mantra, “Prāṇe niviṣṭosmṛtaṃ juhomi.”’ Taitt. Ār. X, 34, 1. ↩︎

  11. The North of India begins to the north of the river Sarāvati. The rule alluded to is given by Yājñ. I. 226, 229, Manu III, 2 10. ↩︎

  12. ‘अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्’ ततस्तिलान् श्राद्धभूमौ विकिरेत्, इति अधिकः पाठो घ. ङ. पुस्तकयोः । ↩︎ ↩︎ ↩︎

  13. आश्व०गृ० ४. ८. ३. । ↩︎ ↩︎ ↩︎

  14. Yājñ. I, 235. 20. Manu III. 239. ↩︎

  15. Manu III, 152-166, and particularly 153 and 154 Yājñ. I. 222-224. Haradatta’s explanation of the word ‘Śūdra’ by ‘a Brāhmaṇa who has become a Śūdra’ is probably not because the son of a real Śūdra and of a Brāhmaṇa female is a Kaṇḍāla, and has been disposed of by the preceding Sūtra. ↩︎

  16. Compare Manu III, 185, 186; Yājñ. I, 219-221. The three verses to be known by a Trimadhu are, Madhu vātā ṛtāyate, &c., which occur both in the Taitt. Saṃh. and in the Taitt. Ār. The explanation of Trisuparṇa is not certain. Haradatta thinks that it may mean either a person who knows the three verses Catushkapardā yuvatiḥ supeśā, &c., Taittirīya-brāhmaṇa I, 2, 1, 27, &c., or one who knows the three Anuvākas from the Taittirīya Āraṇyaka X, 48-50, beginning, Brahmametu mām, &c. The word ‘Triṇāciketa’ has three explanations:–a. A person who knows the Nāciketa-fire according to the Taittirīyaka, Kaṭhavallī, and the Śatapatha, i.e. has studied the portions on the Nāciketa-fire in these three books. b. A person who has thrice kindled the Nāciketa-fire. c. A person who has studied the Anuvāka, called Virajas. Caturmedha may also mean ‘one who has performed the four sacrifices’ enumerated above. ↩︎

  17. नाचिकेताग्नेस्त्रिश्चेतेत्यन्ये, इति. च.पु. ↩︎

  18. प्राणापानव्योनादानसमाना मे शुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासं स्वाहा. (तै०आ० ( महाना.) ९५ ) इत्यादिः विरजानुवाकः । ↩︎

  19. सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृजा, रुणकेतुकाख्या’ पञ्च चयनविशेषाः तैत्तिरीयब्राह्मणे ३याष्टके दशमादिषु त्रिषु (काठके. १. २. ३) प्रपाठकेषु समन्त्रका आम्नाता’ पञ्चाग्नयः । छान्दोग्योपनिषद्याम्नातपञ्चाग्निविद्याध्यायी पञ्चाग्निरिति मनौ (३. १८५) मेधातिथिः । ↩︎

  20. Manu III, 280. ↩︎

  21. ‘The Śrāddha is stated to begin with the first invitation to the Brahmans.’–Haradatta. ↩︎

  22. ‘The Northerners do not generally receive this Sūtra, and therefore former commentators have not explained it.’–Haradatta. ↩︎