४४ वसतीवरी परिहरणम्

निशायां वसतीवरीः परिहरति । अन्तर्वेद्यासीने यजमाने पत्न्यां च । नादीक्षितमभिपरिहरेत् । सव्येंऽसेऽत्याधायापरेण प्राजहितं परिक्रम्य पूर्वया द्वारोपनिर्हृत्य दक्षिणेन वेदिं गत्वा दक्षिणेन मार्जालीयं धिष्णियं परीत्य दक्षिणस्यामुत्तरवेदिश्रोण्यां सादयति इन्द्राग्नियोर्भागधेयीस्स्थ । दक्षिणेऽंसेऽत्याधाय यथेतं गत्वा पूर्वया द्वारोपनिर्हृत्योत्तरेण वेदिं गत्वोत्तरेणाग्नीध्रीयं धिष्णियं परीत्योत्तरस्यामुत्तरवेदिश्रोण्यां सादयति मित्रावरुणयोर्भागधेयीस्स्थ । सव्येंसेऽत्याधाय यथेतं गत्वापरेणाग्नीध्रीयं धिष्णियमुपसादयति विश्वेषां देवानां भागधेयीस्स्थ । यज्ञे जागृत सन्ना अभिमन्त्रयते । सुम्नाय सुम्निनीस्सुम्ने मा धत्त इति सर्वेषु सादनेषु यजमानो पूर्ववज्जपति ।