पादटिप्पन्यः

१. तेन श्री परमेश्वरं प्रीणयानि इति अस्मद्ग्रामीण-हस्तप्रति-पाठः ।

२. सद्यस्कालपक्षे अग्निं गृह्णामि, इमामूर्जं इति द्वयोरपि लोपः इति प्रायिकमनुष्ठानम् । प्रथमे मन्त्रे श्वो पदस्य, द्वितीये मन्त्रे पञ्चदशीं पदस्य लोपः इति द्वितीयः पक्षः । अल्पिकायां पर्वणि सद्यस्कालपक्षे श्वो पदस्यैव लोपः इति मतान्तरम् । पदद्वयमप्यूहनीयं इति तृतीयः पक्षः

१. इषे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । ऊर्जे त्वा सन्नमयत्यनुमार्ष्टि वा इत्यस्मद्ग्रामीण हस्तप्रति पाठः ।

२. उपस्पृशति वा अस्मद्ग्रामीण हस्तप्रति पाठः । १. संवत्सरमिन्द्रं यजेत । संवत्सरानन्तरं महेन्द्रायेति मन्त्रं सन्नमति ।

१. यौ गमनौ तौ प्रत्यायनौ इति पाठान्तरम् ॥

२. वत्सेष्वमा बर्हिषा पूर्णमासे व्रतमुपैत्याच्छेदनी सन्नहनीति यथालिङ्गम् । अ. ह. पाठः । १. तिलमाषव्रीहियवाः प्रियंग्वणवोगोधूमाः इति ग्राम्याः । वेणुश्यामाकनीवारजर्तिलाश्च गवीधुका अरण्यजा मर्कटका । गार्मुतासप्तमाः कुलित्थसप्तमा वा इत्यारण्याः ।

२. खादिरस्स्रुवः, पर्णमयी जुहूः, आश्वथ्युपभृत्, वैकङ्कती ध्रुवा, एतेषां वा वृक्षाणामेकः स्रुचः कारयेत् । बाहुमात्र्योऽरत्निमात्यो वा अग्राग्राः त्वक्तोबिला हंसमुख्यः । स्फ्य शम्या प्राशित्रहरणमिति खादिराणि । वारणान्यहोमार्थानि भवन्ति । ३. तान्युत्तरेणावशिष्टानि अन्वाहार्यस्थालीं उपवेषममावास्यायां प्रातर्दोहपात्राणि, योक्त्रं मदन्तीं, मेक्षणं वेदाग्राणि, इध्मप्रव्रश्चनानि पिष्टलेपफलीकरणपात्रे च । इति अ. ह. पाठः । १. अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति । व्रीहिमद्यवमद्वा । धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा । त्वं देवानामसि सस्नितमिति उत्तरामीषामालभ्य जपति । विष्णुस्त्वाक्रꣳस्तेति सव्ये चक्रे दक्षिणं पादमत्याधाय अह्रुतमसि हविर्धानमित्यारोहति । उरुवातायेति परीणाहमपच्छाद्य मित्रस्यत्वा चक्षुषा प्रेक्ष इति पुरोडाशीयान् प्रेक्षते ।

१. सूत्रे अपरेण आघारसंभेदं प्राचो यजति, प्रतिदिशं यजति, ऐकध्यं यजति इति पक्षत्रयमुक्तम् । प्रयोगे पक्षद्वयमेव गृहीतम् । २. अभिक्रामं = अभिक्रम्याभिक्रम्य सर्वप्रयाजहोमः कार्यः ।

१. आनुपूर्वमिति पाठान्तरम् । २. पूर्णाहुतिश्चेत् चतुर्गृहीतं गृहीत्वा स्रुचा होतव्यम् ।

१. सं ते मनसा मनस्सं प्राणे प्राणं दधामि ते — चतुष्पदे स्वाहा । इत्येक एव मन्त्रः इति द्रा. प्र ।

१. सव्येनान्वारभन्ते इति अ. ह. पाठः ।

१. आश्वलायनहोता चेत् यजमानः अस्यामिष्टौ होतृभ्रेषप्रायश्चित्तं करिष्ये । होत्रा प्रायश्चित्ताहुतिषु हूयमानेषु यथालिङ्गं त्यागं करोति ।

१. केचित् प्रथमप्रयोगेऽपि पिण्डपितृयज्ञेन यक्ष्ये इत्येव वदन्ति । २. विद्युदसि इति अ. ह पाठः ।

३. पर्णवल्कं = होमशेषनिधानार्थं यस्यकस्यचिद्वृक्षस्य पर्णम् । ४. आयन्तु पितरो मनोजवसोऽग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् इति पाठान्तरम् । १. सकृदाच्छिन्नस्य प्रहरणं, पात्राणामभ्युदाहरणं च अत्रैव जीवपितृकस्य । अजीवपितृकस्य तु उत्तरत्र वक्ष्यते । ये समानास्समनसः पितरो यमराज्ये । तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पताम् इति सकृदाच्छिन्नं दक्षिणाग्नौ प्रहरति । ततः पात्राणि प्रोक्ष्य द्वन्द्वमभ्युदाहरति ।

२. प्रणुदात्यस्मात् इति पाठान्तरम् । ३. प्रणुदात्यस्मात् इति पाठान्तरम् । १. सकृन्मन्त्रेण द्विस्तूष्णीम् । इति अ.ह पाठे नास्ति ।

२. एतत्ते प्रपितामहासौ, एतत्ते पितामहासौ, एतत्ते ततासौ इत्येवं क्रमेण प्रातिलोम्येन दक्षिणापवर्गा एव भवन्ति पिण्डशेषत्वात् उदकाञ्जलयोऽपि प्रातिलोम्येन भवन्ति । ३. यदि बन्धून् न विद्यात् स्वधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयम् । स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् । यदि द्विपिता स्यात् एकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षयेत् ४. अनेन मन्त्रेण पितृपिण्डमेवोपतिष्ठेत । उत्तरं मन्त्रत्रयं आनुपूर्वं पिण्डत्रयस्य । ५. यन्मे पितामही प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः पितामहो वृङ्क्तामाभुरन्योऽपपद्यतां पितामहेभ्यस्स्वधाविभ्यस्स्वधा नमः ॥ यन्मे प्रपितामही प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः प्रपितामहो वृङ्क्ता-माभुरन्योऽपपद्यतां प्रपितामहेभ्यस्स्वधाविभ्यस्स्वधा नमः इति पितमहप्रपितमहपिण्डयोरुपस्थानम् इति रुद्रदत्तमतम् । ६. एतानि वः पितरो वासांस्यतो नोन्यत्पितरो मा योष्ट । एतानि वः पितामहा वासांस्यतो नोन्यत्पितामहा मा योष्ट । एतानि वः प्रपितामहा वासांस्यतो नोन्यत्प्रपितामहा मा योष्ट । इति अ.ह. पाठः । १. स्मार्तं श्राद्धमित्यर्थः । यत् शिष्टाः दर्शतर्पणमिति अनुतिष्ठन्ति ।

१. न गालयति ।

१. आशुन्त्वा ये दधिरे देवयन्तो इति अ. ह. पाठः । २. व्यवसर्पो इति पाठान्तरम् ।

१. प्र व इन्द्राय मादनं हर्यश्वाय गायत । सखायस्सोमपाव्ने ॥ शंसेदुक्थं सुदानव उत द्युक्षं यथानरः । चकृमा सत्यराधसे ॥ त्वं न इन्द्र वायुस्त्वं गव्युश्शतक्रतो । त्वं हिरण्ययुवसो ॥ अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्तप्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् ॥

२. त्वेषास्ते धूम ऋण्वती दिविषञ्छुक्र आततः । सूरो न हि द्युता त्वं कृपा पावकरोचसे ॥ अदर्शिका तु वित्तमो यस्मिन्व्रतान्यादधुः । उपोषु जातमार्यस्य वर्धनमग्निं न क्षंतनागिरः ॥ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥ ३. अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ १. अभि त्वा शूर नोनुमो दुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमिन्द्र तस्थुषः ॥ न त्वा वां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । अश्रायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥

२. यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे । प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥ ऊर्जो न पातं स हि नायमस्मयुः दाशेम हव्यदातये । भुवद्वाजेष्वविता भुवद्वृधः उत त्राता तनूनाम् ॥ १. यज्ञा यज्ञा वो ट्ठ— उत त्राता तनूनाम् ॥

२. कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ अभीषुणस्सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥ १. त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ स त्वं नश्चित्र वज्रहस्त धृष्टु या महस्तवानो अद्रिवः । गामश्वं रथ्यमिव संकिरसत्रा वाजं न जिग्युषे ॥

२. अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरोवसुः सहस्रेणेव शिक्षति ॥ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥ ३. अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजं तमध्वराणाम् ॥ सधा नः सूनुः श्रवसा पृथु प्र गामा सुशेवः । मीढ्वां अस्माकम्बभूयात् ॥ स नो दूराच्चा साच्च निमर्त्यादघायोः । पाहि सदमिद्विश्वायुः ॥ ४. यज्ञा यज्ञा वो — उत त्राता तनूनाम् ॥ १. यद्यग्निहोत्रं जुहुयात् प्रातरग्निहोत्रस्यावृता सर्वं कुर्यात् । विश्वदानिमाभरन्त इति प्रतिपद्य अक्षितमक्षित्यै जुहोमीत्यन्तम् । पूर्वाहुतिरेव तूष्णीं, सर्वमन्यत्समन्त्रकम् । पयसा वा आज्येन वा होमः । अग्निहोत्रकरणमेव अस्मच्छाखीय पक्षः ।

१. द्वादशाहमजस्रेष्वग्निषु यजमानस्स्वयमग्निहोत्रं जुहुयात् । अप्रवसन्नहतं वासो बिभर्तीति सूत्रकारवचनात् ।

२. अग्निहोत्रमारप्स्यमानः दशहोतारं हुत्वा कूश्माण्डैर्जुहोति । ३. व्याहृतीभिरेव । ४. यस्यां तिथौ प्रथमं सायमग्निहोत्रं कृतवान् एकसंवत्सरे अतीते तस्यामेव तिथौ पूर्ववद्व्याहृतीभिः अग्निहोत्रमुपसादयेत् । द्वितीयादिषु संवत्सरेषु नास्ति । १. यथाप्रयोगमित्यौपमन्यवः इति बौधायनसूत्रस्य अस्माकं प्रयोगकारैः एषोऽर्थः अभिहितः । परं तु तत्सूत्रस्य पूर्वसूत्रानुगुण्येन अर्थे क्रियमाणे व्रतपरत्वमवगम्यते इत्येवं रुद्रदत्तमहादेवाभ्यां व्याख्यातम् ।

२. प्रथमचातुर्मास्यप्रयोगे नान्दीश्राद्धं, ऋत्विजां मधुपर्कश्च कर्तव्यः । तदा नान्दीश्राद्धं कृत्वा ततः ऋत्विग्वरणं ततो वरणक्रमेण तेषां मधुपर्कः ततः पञ्चहोतृहोमः । ३. आरप्स्यमानः इत्युक्तत्वात् प्रथमे त्वेव चातुर्मास्ये पञ्चहोतारं जुहुयात् । न तु पुनरालभ्यमाने । केचित्तु बहुकालविच्छिन्नचातुर्मास्येऽपि कर्तव्यमित्याहुः । १. आज्यदधिस्थाल्यौ ।

१. औपमन्यवाचार्यमते प्रयोगकालावधिकदिनेष्वेव ब्रह्मचर्यादि व्रतानि चरेदिति ।

१. वेदिमानकारिकासु बहवः पाठभेदाः भवन्ति अस्माभिः पाठद्वयमत्र गृहीतमस्ति ।

१. मन्त्रजातं सकलमित्यर्थः । तदा प्रतिप्रस्थातुः कर्म अमन्त्रकम् । क्रियामात्र एव ।

२. तदा निगदवर्जं प्रतिप्रस्थाता मंत्रं ब्रूयात् । प्रोक्षणीरासादयेत्यादि निगदाः । ३. वरुणप्रघासैर्यक्ष्यमाणः अग्निं समारोपयिष्ये इत्युक्त्वा समारोप्याग्निं देशान्तरगमनम् । यागदेशं गत्वा उद्धत्य अवोक्ष्य । गार्हपत्यदक्षिणाग्न्योरायतने कल्पयित्वा । लौकिकाग्नौ उपावरोह्य आयतने निधाय । वरुणप्रघासैर्यक्ष्ये । विद्युदसि इति अस्मद्रामीण पाठः ॥ १ एतत्पर्यन्तं सद्यस्कालायामपि समानम् । २. वारुणप्रघासिकꣳ हविरिदमेषां मयि इति पाठान्तरम् ।

१. इत ऊर्ध्वं द्वयोः पक्षयोरपि समानप्रयोगः ।

२. पुरतः उपभृद्द्वयं ध्रुवया सह द्वन्द्वम् । पात्र्या सह आशयपात्रं वेदेन द्वन्द्वम् । स्थाल्यौ प्राशित्रहरणेन । प्रणीताप्रणयनमुत्पवनपात्रं इडापात्रेण सह । सान्नाय्यपात्रैस्सह वाजिनपात्रं पालाशं चमसं स्रुचं वा । अन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । अधिमन्थनशकलं दर्भौ च । ३. आसादनप्रोक्षणाधिवापसंवापेषु अध्वर्योर्विरमणं नास्ति इति अस्मद्ग्रामीणहस्तप्रतिपाठः । १. यदि श्रावण्यां पौर्णमास्यां वरुणप्रघासाः अनुष्ठीयेरन् ।

२. आर्द्रा प्रथस्नुर्भुवनस्य गोप्त्री शृतोत्स्नाति जनित्री मतीनाम् इति अ. ह पाठः । ३. सोमाकृतेर्वृक्षस्य फलानि करीराणि । १. इन्द्रायेदम् इति अ. ह. पाठः ।

१. याज्ञिकैः एवमपामभिमन्त्रणं यजमानस्य अभिमन्त्रणं च एतद्द्वयमप्यनुष्ठीयमानमस्ति । परं तु एतद्द्वयमपि न युक्तिसहम् । सूर्यो व इति मंत्रस्य परिध्यंगत्वात् युनज्मि त्वा मंत्रस्य अग्नींधने विनियुक्तत्वात् अपां च इन्धनाभावात् एतद्द्वयस्य निवृत्तिरेव समीचीनं इति भाति ।

१. अशोधयन्तौ मलं इत्यर्थः । २. ऋत्विजां मध्ये इत्यर्थः ।

१. यदि यजमानस्य ऋषभो न विद्यते तदा ऋषभाह्वान लोपः । होमो अस्त्येव नित्यत्वात् अत्रापि ब्रह्मा ब्रूयात् जुहुधीति ॥

१. पूर्वार्धे इति समीपसप्तमीयम् । वेदेः पूर्वार्धस्य समीपे उत्तरतः द्विपदे उत्करः इत्यर्थः ।

२. आग्नेयाभिमुखमित्यर्थः । ३. अर्थात् = प्राकृतात् इध्मलक्षणात्, इध्मः = पैतृको इध्मः । १. स्तरणार्थमुद्धूयमाने बर्हिषि ये हस्ते अवशिष्टाः ते औद्धवाः । २. जनितारो मतीनाम् इति पाठान्तरम्

३. शलाका तिष्ठति यस्मिन् मन्थे = [सक्तुनि पयोमिश्रे] स शलाकस्थः । शलाकां शरावे क्षिपेत् इत्यर्थः १. षट्कपालः पुरोडाशः इत्यर्थः ।

१. अवघ्राणमेव भक्षणमित्यर्थः । २. केचित् समश इति पक्षे एव निमार्गः इति वदंति ।

१. त्र्यम्बकेष्ट्या यक्ष्ये इति द्रा. प्र । २. ज्येष्ठपुत्रः तस्य पत्नी । द्वितीयपुत्रः तस्य पत्नी इत्येवं क्रमेण ।

३. कोशः = पेटिका । ४. चत्वारः पंथानः यस्मिन् संगताः तस्मिन् स्थले । १. प्रदक्षिणं कुर्यादित्यर्थः ।

१. यस्य एकमङ्गं श्वेतं सः श्वेतन्यङ्गः । गौरत्र बलीवर्दः । पुल्लिंगविशेषणत्वात् ।

२. यदि गोप्रतिनिधि हिरण्यं ददाति चेत् ब्रह्मन् ब्रह्मासीति समानम् । सहस्रधारो उत्सो अक्षीयमाणः ट्ठतेन गोप्रतिनिधि हिरण्येनातितराणि मृत्युम् । इदं वो गोप्रतिनिधि हिरण्यं यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गामित्येव प्रतिग्रहः १. द्वादशगवं सीरं दक्षिणा इत्युक्ते द्वादशबलीवर्दयोजनसमर्थः हलः इत्यर्थः ।

१. सोमेन पशुना वा अनिष्टवन्तं नातिक्रामेदित्यर्थः ।

१. गृहे एव पुण्याहं कर्तव्यं न देवयजने पुनःकरणमस्ति इति द्राविडाचारः । आरब्धे श्रौतकर्मणि स्मार्तं नैव मध्ये भवितव्यमिति । प्रथमपशुबन्धे पुण्याहं वाचयित्वा नान्दीश्राद्धं कृत्वा ऋत्विजो वृत्वा मधुपर्केणार्हयेत् ।

२. पशुबन्धे षड्ढोतारं हुत्वा कूष्माण्डैर्जुहुयात् । ३. सत्याषढस्तु अत्र अनुग्रहमाह । अपि वा चतुर्गृहीतमाज्यमाग्नावैष्णव्यर्चाहवनीये जुहोतीति । तथा पशुबन्धे अग्नाविष्णुभ्यामिति चतुर्गृहीतं स्यादिति भारद्वाजः । उभयपक्षेऽपि इष्टिवदग्नी प्रणयति । चतुर्गृहीताज्येन आग्नावैष्णव याज्यया अग्नाविष्णुभ्यां स्वाहा इति वा जुहुयात् । होमोत्तरं नाग्नित्यागः । १. अध्वर्योरन्यत्र व्यापृतत्वात् अस्य कर्मणः कर्ता प्रतिप्रस्थाता ।

१. गौर्वै वरः इति सूत्रात् वरशब्देन गोजातिमात्रं उच्यते । अथवा अनड्वाहं वरं इति विशेषणविशेष्यो वा ।

१. यस्य पित्रादयः अनिष्टप्रथमयज्ञाः तस्य सोमः प्रथमसोमः इत्यर्थः । प्रायश्चित्तपशुविषये भूमिकां पश्यन्तु ।

२. उपालम्भ्यं कुर्वन् इति द्रा. प्र । ३. यूयं चान्ये च इति द्रा. प्र । ४. न्यस्तं = त्यक्तम् ॥ १. ततस्समारोमणम् अयं ते योनिर्ऋत्वियः यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिं इति गार्हपत्ये अरणी निष्टप्य, देवयजनं प्राप्य पादौ प्रक्षाल्य आचम्य । यजमानः - एदमगन्म देवयजनं पृथिव्या विश्वेदेवा यदजुषंत पूर्व ऋक्सामाभ्यां यजुषा संतरंतो रायस्पोषेण समिषा मदेम देवयजनमध्यवस्यति । प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् । अध्वर्युः :- तूष्णीमायतनान्युद्धत्यावोक्ष्य, मथित्वा उपावरोह्य वा आयतने निधाय द्रव्यनिर्देशः इति अ. ह पाठः ।

१. नमस्सोमाय राज्ञे सोमराजानमावाहयामि । नमस्सोमाय राज्ञे आसनं समर्पयामीत्यादि षोडशोपचारपूजां कृत्वा इति अ. ह. पाठः ।

१. भ्रुवौ प्रकोष्ठौ च वर्जयित्वा सर्वरोमाणि इति पाठान्तरम् । २.पत्न्याः मन्त्रो नास्ति इति द्रा. प्र ।

१. परिणयो व्याकरणाभिलक्षितः । तेन वाचं जल्पति । प्राकृताभिर्देशभाषाभिः दीक्षितेन न भणितव्यमिति व्याख्या

१. ब्रह्मभागाभावात् । २, प्रस्तरवर्जम्, तस्य प्रहृतत्वात् ।

१. क्रतून्कल्पय इति पाठान्तरम् । २. भूयो वा अतः इति पाठान्तरम् ।

३. गवा ते क्रीणानि । भूयो वा अतः सोमोराजार्हति सर्वेषु पणनेषु सोमविक्रयी प्रत्याह आ संपदः । एषा सोमक्रयणीं निर्दिश्य । तस्या आत्मा तस्या रूपं तस्याः प्रजाः तस्या बंधुः इति जपति । इति अ. ह. पाठः । १. धेन्वा सवत्सया ते क्रीणानीति द्राविडपाठः । २. अस्मद्ग्रामप्रयोगे वत्सेन ते क्रीणानि इति नास्ति

३. मिथुनाभ्यां गोभ्यां वत्सतराभ्यां ते क्रीणानि अ. ह पाठः । ४. अस्मे कर्मणे इति पाठान्तरम् । १. अदित्यास्त्वोपस्थे सादयाम्यग्नाविष्णू हव्यꣳ रक्षेथां सोमविष्णू हव्यꣳ रक्षेथामतिथिविष्णू हव्यꣳ रक्षेथामग्नाविष्णू हव्यꣳ रक्षेथां श्येनविष्णू हव्यꣳ रक्षेथाम् । इति अ. ह . पाठः ।

१. इदं पञ्चावत्तिनः इति केचित् । २. इदं पञ्चावत्तिनः इति आंड्विल्ला ।

३. आत्मन इदम् इति द्रा. पा । ४. अध्वर्युप्रमुखाः तानूनप्त्रं समवमृशन्ति इति पाठान्तरम् ५. एतया सर्वत्र राजानमासीदेत् इति पाठान्तरम् १. अत्र होमः समिदाधानं वा आहवनीये कार्यम् ।

१. यथानामगोत्रं रामशर्माणं काश्यपं इतिवत् ।

१. विभज्य गमयति इत्यर्थः ।

१. एतस्मिन् काले प्रस्तोता धेनुसाम गायति । २. बध्वा

३. एतस्मिन् काले प्रस्तोता पयस्साम गायति । ४. एतस्मिन् काले प्रस्तोता सिन्धुसाम गायति ५. अध्वर्युरेव आनयतीति द्रा. प्र १. छन्दोगमतात् अग्रेण वा प्राग्वंशं सुब्रह्मण्यामाह्वयति इति भाष्यकारः ।

२. अग्नये रजाशयायै तन्वा इदम् । इति अ. ह. पाठः । १. स्पन्द्यया इति अ. ह पाठः । द्विगुणेन शुल्बेन इत्यर्थः ।

१. अग्नये हराशयायै तन्वा इदं अ. ह. पाठः ।

१. अकुम्भहस्तः कुम्भहस्तो वा इति पाठान्तरम् ।

१. देवदारू वृक्षस्य ।

१. नभ्यं चक्रमध्यफलकं तत्र यथा तिष्ठति तथा स्थापयतः । २. यस्योरुषु इत्येतावान् मन्त्रः इति पाठान्तरम्

१. उद्धृत्य पांसून् । २. हस्तेनावपीडयति । ३. उपरवौ ।

१. अथ पक्षान्तरम् । एतानेवोपस्थानान् व्याघारणांश्चैके समामनन्ति । मार्जालीयपर्यन्तान् धिष्णियान् एतैरेव मन्त्रैर्न्युप्य पुनरेतैरेवास्मिन्काले उपस्थानं कृत्वा धिष्णियव्याघारणकाले तत्तन्मन्त्रैर्व्याघारणं कुर्यात् ।

१. वैसर्जनहोमार्थम् । २. दक्षिणेन शालामुखीयमुपोपविश्य इति द्रा. प्र. ।

१. अध्वयुर्यजमानः प्रतिप्रस्थाता च इत्यस्मद्ग्रामीणहस्तप्रतिपाठः । आ वपाया होमादास्ते इति वचनात् ब्रह्मा नोत्तिष्ठेदिति ।

१. अत्रैव सौमिक ऋत्विजां वरणमिति द्रा. प्र । सूत्रे अत्रैवानुक्रमणादिति ।

२. प्रतिप्रस्थाता पशुश्रपणं हरतीति द्रा प्र । १. वाशिन्यषद वेपिष्ठाः पला सम निमे शकृत् । आदिर्यदस्य सप्तानां य इदं नान्त्ययोर्द्वयोः ॥

१. अग्निं इत्युक्ते अत्र शालामुखीयस्य परिस्तरणम् ।

२. आशिरशब्दः केवल दधिपर्यायवाचकः इति बहूनां मतम् । दुग्धमात्रोष्णमातक्तं दध्याशिरमुदाहृतम् इति वासुदेवकारिका । ३. एषः भाष्यकार पक्षः । अग्नीषोमीयरात्रौ यजमानस्य व्रतं नास्ति इति द्रा. प्र । एवमेव रुद्रदत्तमतम् । १. नराशंसाय सोमायेदं इति पाठान्तरम् ।

१. नात्र प्रतिगरोऽध्वर्योः मनसापि । मन एव प्रतिगरोऽध्वर्योरिति मनसा ते वाचं प्रतिगृणामीत्याह ।

२. पवित्रे पूर्वदिने सायन्दोहार्थे कृते भवतः । १. तण्डुलानुत्पूय व्रीहीनुत्पूय पिष्टान्युत्पुनाति इति अ, ह पाठः । २. जनितारो इति पाठान्तरम् ।

१. अनपस्फुरन्तीः इति पाठान्तरम् ।

२. मनोनयेषु हवनेषु जुह्वद्विपश्शच्या वनुथो द्रवन्त । आयाश्शंयाभिस्तुविनृम्णो अस्याश्श्रीणीतादिमं गभस्तात् । इति अ. ह. पाठः । दिवं गभस्तात् इति पाठान्तरम् । १. यजमानः सप्तहोतारमेव जुहुयात् न वैप्रुष होमान् इति केचित् । तत्तु वृत्तिकारेण खण्डितम् ।

१. यदि धिष्णियानां निवपनकाले मन्त्रेण उपस्थानमपि कृतं स्यात् तदा मंत्रेणैव व्याघारणं कुर्यात् । अन्यथा तूष्णीम्

२. अत्र दर्शपूर्णमासवत् दक्षिणामुत्तरां च नास्ति ३. पाशुकं मैत्रावरुणं च वृत्वा इति रुद्रदत्तपक्षः । १. ज्येष्ठममर्त्यं इति पाठान्तरम् ।

१. भरतमुद्धरेमनुषिंचावदानानि वः इति पाठान्तरम् ।

१. विलिखन्ताविवोत्तरवेदिम् ।

१. यजमानपञ्चमाः इत्यर्थः ।

२. चतुर्धाकरणमिति अस्मद्ग्रामीणपाठः । द्राविडप्रयोगे लाजानां त्रेधाकरणं चतुर्धाकरणं द्वयमपि नास्ति । ३. पश्चिमे भागे । १. क्व नु खलु माध्यन्दिनीयाः सवनीया निरुप्यन्त इति क्षुल्लकवैश्वदेवस्य स्तोत्र इति ब्रूयात् । इति बौधायनमतात् अत्र माध्यन्दिनीयान् सवनीयान् निर्वपति ।

१. पशुपुरोडाशं निरुप्य सवनीयान्निर्वपतीत्यर्थः ।

२. प्रातस्सवने उपहितानि कपालानि तथैव अनुद्वासितानि तिष्ठन्ति । तेष्वेव कपालेषु अङ्गाराध्यूहनादि कर्म करोतीत्यर्थः । तृतीयसवनेऽपि एवमेव कर्मक्रमः । तृतीयसवनान्ते कपालानि उद्वासितानि भवन्ति । १. हरिण्यस्य रघुष्यतोऽधिशीर्षणि भेषजम् । इति पाठान्तरम् ।

२. पड्भिश्चतुर्भिरक्रमीत् । इति पाठान्तरम् । १. क्व तृतीयसवनीया इति माहेन्द्रस्य स्तोत्र इति ब्रूयात् । इति बौधायनमतात् अत्र तृतीयसवनीयान् निर्वपति ।

१. आज्येन उपांशूभयतः यागपक्षे प्रथमं ध्रौवाज्यं चतुर्गृहीतं गृहीत्वा दक्षिणातिक्रम्य घृतस्य यज इति संप्रेष्यति । वषट्कृते जुहोति । यजमानः - अग्नय इदम् । दब्धिरसि । प्रत्याक्रम्य सौम्यमिष्ट्वा पुनश्चतुर्गृहीतं गृहीत्वा पुनः घृतस्य यज इति संप्रेष्यति । वषट्कृते जुहोति । यजमानः - विष्णव इदम् । दब्धिरसि ।

१. अभ्यग्रं - त्वरितम् ।

१. अपबर्हिषः प्रयाजान् यजतीति वचनात् ।

१. यदाज्यभागप्रभृति तदा वाजिनान्ता आश्वलायनवचनात् ।

१. अस्मदीय प्रयोगपुस्तके केवलं पञ्चहोत्रैव आसन्नाभिमर्शनं इति विद्यते । अस्माभिस्तु उपदेशमतं रुद्रदत्तमतं च अनुसृत्य, दर्शपूर्णमासविकारत्वाच्च आसन्नाभिमर्शनस्य सर्वे मन्त्राः संयोजिताः । एवमेव सर्वेषु पर्वसु विजानीयात् ।

१. बर्हिषामुपरि इत्यर्थः । २. देवाः पितर इति न वा । इति अ,ह पाठः ।

३. अग्नयेऽयाशयायै तन्वा इदं अ. ह. पाठः । १. वैसर्जनहोमानन्तरमासादयति ।

पशुबन्धस्य सम्भाराः

१. यवागूहोमः दधिप्रयुक्तः न कालप्रयुक्तः अतः दैवात् प्रतिपदि इष्ट्यननुष्ठानपक्षे यवागूहोमो न भवति । अपि च वैश्वदेवपर्वणः द्व्यहकालपक्षे अपर्वणि क्रियमाणेऽपि यवागूहोमो भवत्येव ॥

१. द्राविडप्रयोगे सर्वत्र यथादैवतमूहः क्रियते ।

१. आपो हविष्षु जाग्रत यथा देवेषु जाग्रथ । एवमस्मिन्, यज्ञे यजमानाय जागृत इति अ. ह . पाठः ॥

१. प्राङ्मुख उपविश्य आहवनीयमभ्यावृत्यास्ते । इति अ. ह पाठः

२. अनयापः पृथिव्या ग्रहीष्यामि , अनयापः पृथिव्या गृह्णामि , अनयापः पृथिव्या प्रणयानि - इति द्राविडप्रयोगः । १. नासोमयाजिनः अग्नीषोमीयो विद्यते ।

२. दर्शे असन्नयतः इन्द्राग्न्योः द्वितीयं हविर्भवति । सन्नयतस्तु केवलमग्निरेव भवति । एवं प्रोक्षणादिष्वपि ज्ञातव्यम् १. छिन्ने पिष्टे तथा लूने सान्नाय्ये मार्तिके तथा । सिद्धे मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः ॥ ( लौगाक्षी)

१. उपवातायाम् इति पाठान्तरम् ।

१. पौर्णमास्यामत्र वेदिकरणम् ।

२. उत्तरतः पुरस्ताद्वितृतीयदेश उदग्द्विपदेऽपरिमिते वा वेदेर्निवपति । स उत्करः । १. अभिपूरणमाध्वर्यवम् इति द्राविडप्रयोगः ।

१. पत्न्यभावे तेज आदि लुप्यते ।

२. भक्षीयानन्तरं इदं विष्णुः — पाꣳसुरे । भूर्भुवस्सुवः इति अ .ह .पाठे विद्यते । १. यस्य व्रत्येहन्पत्न्यनालम्भुका स्यात् तामपरुध्य यजेत । प्रोक्षणीरासादय इति प्रैषे पत्नीं सन्नह्य इति पदद्वयनिवृत्तिः । योक्त्रं तु स्वकाले दक्षिणतः पाशमुदक् शुल्बं पश्चाद्वेदेरन्तर्वेदि वा तूष्णीं निदध्यात् ।

१. विश्ववेदः ( अ.ह.पाठः )

१. यदि आपस्तम्बीयहौत्रश्चेत् ब्रह्मन् सामिधेनीरनुवक्ष्यामीति होत्रा उक्ते । ब्रह्मा - प्रजापतेऽनुब्रूहि यज्ञं देवता वर्धय — यजमानं च धेहि इत्युक्त्वा ओ३मनुब्रूहि इत्युच्चैरनुजानाति ।

१. सान्नाय्ययाजी संवत्सरमिन्द्रं यजेत । ततः व्रातपतीष्टिं कृत्वा (अग्नये व्रतपतये पुरोडाशमष्टाकपालं ) यावज्जीवं महेन्द्रयागं कुर्यात् । इन्द्रयागकाले इन्द्र्रायानुब्रूहि, इन्द्र्रं यज इति संप्रेष्यति । हविः, प्रचारः इत्यादि सर्वं महेन्द्रयागवदेव कुर्यात् । इन्द्रस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इति हुतानुमन्त्रणम् ।

१. नाभिघारयति इति अ. ह. पाठः ।

१. द्राविडप्रयोगे आज्यहविषः उपांशुयाजस्य उज्जितिमन्त्रं न पठन्ति । अ. ह. पाठेऽपि नास्ति ।

१. सन्नयतः इन्द्रमहेन्द्रयोर्विकल्पः । २. एतदेतदेतत् इति त्रिः मन्त्रः त्रिः निर्देशः अ. ह. पाठे, द्राविडप्रयोगे च । एतदेतत् इति अभ्यासरूपः एकोमन्त्रः इति भाति ।

१. उपवीती अस्मिन्पिण्डपितृयज्ञे यजुर्भेषप्रायश्चित्तं करिष्ये । दक्षिणाग्नौ भूवस्स्वाहा । वायव इदम् इति अ. ह. पाठः । २. प्राचीनावीती वृष्टिरसि अप उपस्पृश्य । सन्तिष्ठते पिण्डपितृयज्ञः इति अ. ह पाठः ।

१. प्रणवेन छित्वा गायत्र्या अरणी करोति इति द्रा. प्र ।

१. स्तिभिगवत्यः = फलवत्यः ।

१. आमावास्यं तन्त्रम् इति द्रा . प्र ।

१.आधानसिद्धाग्निना प्रक्रान्ताग्निहोत्रस्य या पौर्णमासी प्रथमं प्राप्ता सा दर्शपूर्णामासारम्भस्य कालः । तावारप्स्यमानः सारस्वतहोमपूर्वकं अन्वारम्भणीयेष्टिं कुर्यात् ।

१. द्राविड प्रयोगे अत्रैव सङ्कल्पः । देशकालौ सङ्कीर्त्य श्री परमेश्वरप्रीत्यर्थं सायमग्निहोत्रं पयसा होष्यामीति सायं । प्रातरग्निहोत्रं पयसा होष्यामीति प्रातः ।

२. एषः आश्वलायनसूत्रोक्तः कालः । अस्मत्सूत्रे तु अम्नरस्तमिते (ईषदस्तमिते) होतव्यं । नक्षत्रं दृष्ट्वा प्रदोषे निशायां वा सायम् । उषसि उपोदयं समयाविषिते उदिते वा प्रातः । इति होमकालाः उक्ताः । उभयत्रापि सन्धौ होतव्यं । इत्यपि कालो दर्शितः । १. पुनस्स्रुवविधानात् अन्य एव अग्निहोत्रार्थः स्रुवः ।

१. अपां वा स्तोकेन प्रतिषिञ्चति (शुद्धोदकेनेत्यर्थः) ।

१. उप प्रतमुप इति पाठान्तरम् ।

२. ज्वालासु शान्तासु येषां ते ज्वालाशान्ताः इति बहुव्रीहि समासः । अङ्गाराणां विशेषणम् । दर्शपूर्णमासप्रयोगे प्रथमोऽध्यायः

दर्शपूर्णमासप्रयोगे द्वितीयोऽध्यायः

दर्शपूर्णमासप्रयोगे द्वितीयोऽध्यायः

दर्शपूर्णमासप्रयोगे तृतीयोऽध्यायः

दर्शपूर्णमासप्रयोगे तृतीयोऽध्यायः

पिण्डपितृयज्ञप्रयोगः

पिण्डपितृयज्ञप्रयोगः

अग्न्याधानप्रयोगः

अग्न्याधानप्रयोगः

अग्न्याधानप्रयोगः

दर्शपूर्णमासयोरन्वारम्भणीया

दर्शपूर्णमासयोः आरम्भः

अग्निहोत्रप्रयोगः

अग्निहोत्रप्रयोगः

अग्निहोत्रप्रयोगः

१. महदित्याकाशः । अथवा तदेव हुतं महत् भूयिष्ठं अभिवीक्षते इत्यर्थः ।

२. रुद्रमृडानाड्भव इति पाठान्तरम् । १. यजमानकर्तृकाग्निहोत्रं नाम यजमानसन्निधौ अन्येन क्रियमाणमग्निहोत्रं, अथवा स्वयं यजमानेन क्रियमाणमग्निहोत्रम् ।

२.श्रेष्म इति पाठान्तरम् । ३. यजमानप्रवासे अन्येन क्रियमाणमग्निहोत्रमित्यर्थः । चातुर्मास्यप्रयोगे अन्वारम्भणीया

१. ब्रह्मण्यौ ब्रह्मण्यौ स्थो ब्रह्मणे वां हुताद्य मा मा हिꣳसिष्टमहुते मह्यं शिवे भवतम् । इति द्रा. प्र ।

चातुर्मास्यप्रयोगे वैश्वदेवं पर्व

चातुर्मास्यप्रयोगे वैश्वदेवं पर्व

चातुर्मास्यप्रयोगे वैश्वदेवं पर्व

१. अस्मिन् विहारमानविषये भूमिकां पश्यन्तु ।

१. सर्वधारणवतः गतश्रियोऽपि न आहवनीयात् प्रणयनम् । न वा दक्षिणस्यैकस्य । गार्हपत्यादग्नी प्रणयतः इति द्विवचनात् । अतो गतश्रियः पृथक् समारोप्य उदवसाय मथित्वाग्नीन् देवयजनं कृत्वा वेदिद्वयं कृत्वा उत्तरवेदिं च कृत्वा विभज्याहवनीयं महावेदेः पश्चात् पात्रद्वये निदधाति । ततः अग्न्योः प्रणयनीयौ इध्मौ क्षिपतः । ततो अग्नये प्रणीयमानायानु ब्रूहि इत्युक्ते अध्वर्युप्रतिप्रस्थातारौ एकैकमग्निं नयतः । अग्निप्रतिष्ठापनाद्यतिमुक्तिहोमान्तं पूर्ववत् ।

१. वारुणप्रघासिकꣳ हविरिदमेषां मयि इति पाठान्तरम् ।

१. तयोर्बर्हिषी प्रथेतां इति पाठान्तरम् । २. यद्याग्नीध्रः करोति उभयोः कर्म तन्त्रेण मन्त्रावृत्या करोति ।

चातुर्मास्यप्रयोगे वरुणप्रघासाः

चातुर्मास्यप्रयोगे वरुणप्रघासाः

चातुर्मास्यप्रयोगे वरुणप्रघासाः

१. साकमेधीयानीकवतेष्ट्या यक्ष्ये इति पाठान्तरम् । २. साकमेधꣳ हविः इति पाठान्तरम् ।

३. साकमेधीय सान्तपन्या इष्ट्या यक्ष्ये इति पाठान्तरम् । ४. साकमेधीय गृहमेधीयेष्ट्या यक्ष्ये इति पाठान्तरम् । १. अमात्याः अस्त्रीकाः सस्त्रीका वा इति पाठान्तरम् ।

१. साकमेधीय क्रीडिन्या इष्ट्या यक्षे इति पाठान्तरम् । २. साकमेधꣳ हविः इति पाठान्तरम् ।

३. अस्मिन्नेव तन्त्रेऽग्निहोत्रम् । हुतेऽग्निहोत्रे यजमानः कस्त्वा युनक्ति । पक्षे हविःप्रचारानन्तरम् । ४. साकमेधं महाहविषꣳ हविः इति पाठान्तरम् । १. ब्रह्मणी ब्रह्मण्यसि — भव । इति ब्रह्मणोऽभिमर्शनमन्त्रः ।

१. उत्तरेण गार्हपत्यमुत्करदेशे वा इति प्रकृतावेव विकल्पदर्शनात् सौकर्याय उत्तरेण गाहपत्यमत्र नियम्यते ।

२. न पत्न्यन्वास्त इति श्रुतेः । चातुर्मास्यप्रयोगे साकमेधाः

चातुर्मास्यप्रयोगे साकमेधाः

चातुर्मास्यप्रयोगे साकमेधाः

१. श्रौषडित्यन्ते कृते यज्ञोपवीती भूत्वा स्वागा दैव्या इत्यादि । इति द्रा. प्र ।

चातुर्मास्यप्रयोगे साकमेधाः

चातुर्मास्यप्रयोगे शुनासीरीयपर्व

चातुर्मास्यप्रयोगे शुनासीरीयपर्व

चातुर्मास्यानामनुष्ठानविधयः

चातुर्मास्यानामनुष्ठानविधयः

१. त्र्यरत्निश्चतुररत्निर्वा पालाशो निरूढपशुबन्धस्यातोऽन्यः सौम्यस्याध्वरस्येति वाजसनेयकम् ।

१. पेत्वः विगतपुंस्को मेषः । तस्य शृङयोरन्तरा भवा ऊर्णास्तुका ।

१. अरणी अपि प्रयोज्ये इति द्रा . प्र ।

१. तूष्णीं चतुरो विष्णुक्रमान् प्राचो क्रामति इति द्रा. प्र ।

निरूढपशुबन्धप्रयोगः

निरूढपशुबन्धप्रयोगः

निरूढपशुबन्धप्रयोगः

निरूढपशुबन्धप्रयोगः

१. आन्ध्रप्रयोगे प्रथमद्वितीययोः तस्य ते पवित्रपते इत्यनुषङ्गः नास्ति ।

१. यदा स्रुवेणाध्वर्युस्तदा स्रुचा यजमानः इति द्रा. प्र

१. निरष्ठविषमस्तृतम् इति अ. ह. पाठः ।

अग्निष्टोमप्रयोगे प्रथमोऽध्यायः

अग्निष्टोमप्रयोगे प्रथमोऽध्यायः

अग्निष्टोमप्रयोगे प्रथमोऽध्यायः

अग्निष्टोमप्रयोगे प्रथमोऽध्यायः

१. महावीरान् सर्वं परिघर्म्यं च पुरस्तादारभ्य प्रत्यगपवर्गमासादनमिति द्राविडान्ध्रानां सम्प्रदायः । अस्माकं तु प्रागपवर्गाण्युदगपवर्गाणि वा । प्रोक्षणं तु द्राविडाः प्रतीच आरभ्य प्राञ्चं प्रति कुर्वन्ति । आन्ध्राः प्राच आरभ्य प्रतीचः प्रति कुर्वन्ति । अस्माकं तु आसादनवत्प्रोक्षणम् ।

१. एतस्मिन् काले प्रस्तोता शार्ङसाम गायति । २. एतस्मिन् काले प्रस्तोता शुक्रसाम गायति ।

३. एतस्मिन् काले प्रस्तोता घर्मतनूसाम गायति । १. एतस्मिन् काले प्रस्तोता चन्द्रसाम गायति ।

१. एतस्मिन् काले प्रस्तोता घर्मरोचनमिन्द्ररोचनं वा साम गायति ।

१. एतस्मिन् काले प्रस्तोता वसिष्ठशफयोः साम गायति । २. एतस्मिन् काले प्रस्तोता व्रतपक्षौसाम गायति

३. एतस्मिन् काले प्रस्तोता राजनसाम गायति । ४. एतस्मिन् काले प्रस्तोता अश्विनोर्व्रते गायति १. एतस्मिन् काले प्रस्तोता रौहिणसाम गायति ।

१. यज्ञोपवीत्यप उपस्पृश्य उपयमनं होत्रे प्रयच्छति । इति अ. ह. पाठः ।

१. एतस्मिन् काले प्रस्तोता आरूढवदाङ्गिरससाम गायति ।

१. भाष्यकारपक्षस्तु प्रयोगे दर्शितः । परन्तु रुद्रदत्तमतात् भारद्वाजवचनाच्च एकैको मन्त्रः त्रिस्त्रिः वक्तव्यः । अवयविद्वारा अवयवस्योच्यमानत्वात् ।

अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः

अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः

अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः

अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः

१. आग्नीध्राभिमर्शनकाले यज्ञसारथिसाम त्रिर्गायेत् ।

१. आज्यग्रहे कृते यज्वा लोकद्वारंतु गायति ।

२. एता असदन्नित्यभिमन्त्रणानन्तरं युनज्मि तिस्रो विपृचः सूर्यस्य ते इति स्रुचः सन्ना अभिमन्त्रयते । ततः विष्णूनि स्थ इत्यभिमन्त्रणम् इति अ. ह. पाठः । ३. द्राविडप्रयोगे होतरेहीति प्रथमं, ततो होतुः प्रातरनुवाकाङ्गहोमाः ततो अध्वर्योः आसन्यान्मामन्त्रात् पाहीत्यादि होमः । ततो राज्ञ उपावहरणम् । ततः प्रातर्यावभ्यो इति प्रैषः । १. उतेमनन्नमुरुतेमाः पश्य इति प्रयोगे मन्त्रपाठः आसीत् अस्माभिः परिष्कृतम् । अत्र विषये भूमिकां पश्यन्तु ।

१. उभाभ्यां हस्ताभ्यामभिषवः दक्षिणेन प्रपीडनं इति पाठान्तरम् ।

१. तस्मिन्निति द्रोणकलशस्योपरि समीपे पवित्रवितानं, विततेन पवित्रेण कलशो न स्पृष्टस्स्यात् । पवित्रस्य अधस्तात् नाभ्याः स्रवंत्याः धारया ग्रहणम् । तिरः पवित्रस्स्रवन्त्या धारयेति भारद्वाजमतात् । भाष्यकारेण आग्रयणग्रहणे पवित्रस्य अधस्तात् संपातावनयनस्य उक्तत्वात् एवं पवित्रवितानमिति विज्ञायते । अन्तरेषे यजमानो धारां स्रावयतीति भाष्यकारवचनात् द्रोणकलशस्योपरि ईषयोरधस्तात् यथा पवित्रं क्रियते तथोपायः कर्तव्यः । शकटस्योपरि पवित्रवितानमिति केचित् ।

२. प्रतिप्रस्थातुः हस्तादध्वर्युः पुनर्ग्रहमादाय इत्यर्थः १. अवसृज्य इति पाठान्तरम् । २. हिमा वायो राधांसीत् । इति अ, ह पाठः ।

१. अस्मद्गामीणस्य ४८५ तमक्रमाôङ्कस्य नूतनहस्तप्रतौ वृषेदस्यश्वो न चक्रदो इति सन्धिपाठो अस्ति । अस्मद्ग्रामीणस्यैव ४२७ तमक्रमांकस्य पुरातनहस्तप्रतौ तु अस्माभिरधीयमानः पाठः अस्ति ।

२. सङ्गायन्तो समर्वतः इति पाठान्तरम् । ३. कलशसोमानीनां मन्त्रेष्वपि उपशब्दो अनुषज्यते इति रुद्रदत्तः। ४. वायुदिशं अग्निदिशं यमदिशं इति द्रा. प्र । अग्निः पृथिव्याः पातु आहवनीयं इति आ. ह. पाठः । १. चतुर्णां वरणपक्षे अत्र दशचमसाध्वर्यून् वृणीते ।

१. एतद्भाष्यकारस्य मतम् । अध्वर्युः कर्तेत्युपदेशः । एवमेव अ. ह. पाठः ।

१. स्तुतेध्वर्युः उत्तिष्ठन् सम्प्रेष्यति इति द्रा. प्र. ।

२. आसादनान्तं प्रतिप्रस्थाता इत्युपदेशः । एवमेव द्रा. प्र. । १. न्यन्ते समीपे भूमौ इति भाष्यम् ।

१. वाजवते अनन्तरं सवितृवते इति पदं क्षेपणीयम् इति भाति । होत्रा तथा उच्यमानत्वात् ।

२. सवनीयदेवतानां उज्जिति मन्त्रपाठो यद्यपि प्रयोगे नास्ति तथापि यथालिङ्गं सूक्तवाकदेवताः इति सूत्रकारेण उक्तत्वात् तेषामपि मन्त्रपाठो ऊहनीयः इति अनुमीयते । रुद्रदत्तेनापि दर्शपूर्णमासयोरेतत् सूत्रस्य व्याख्याने एष पक्षः दर्शितः । ३. अध्वर्युब्रह्मयजमानसदस्यप्रतिप्रस्थातॄणाम् । ४. सर्वर्त्विज उपह्वयध्वं इति इदानीं अनुष्ठानं वर्तते । १. अत्र अग्ने व्रतपते व्रतमचारिषं इत्यादि व्रतविसर्गोऽपि कार्यः ।

१. अभयं कुरुतं इति द्रा. प्र. ।

२. यौ वामात्मानो पशुषु प्रविष्टौ देवानां विष्ठामनुयौ वितस्थाते । आत्मन्वन्तौ सोम घृतवन्तौ हि भूत्वा देवान्गच्छतꣳ सुवर्विन्दतं यजमानाय मह्यम् ॥ इत्यूहित्वा तन्त्रेणाभिघारः । १. होमः इति शेषः । २. सशेषम् ।

१. सहस्रं ब्राह्मणाꣳस्तर्पइतवै इति अ. ह. पाठः ।

१. तूष्णीं स्फ्यमादाय प्रोक्षणीशेषं सदोहविर्धानयोर्मध्ये निधाय स्फ्यं तिर्यंचं स्तब्ध्वा संप्रेष्यति स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदे३हि । इति पाठांतरम् । १. एक एव स्वरुरिति द्रा प्र ।

२. अत्र काण्डानुसमयः उक्तः । अपां पेरुरसीत्यादौ पदार्थानुसमयेनापि अनुष्ठातुं शक्यते । १. दृꣳहेति आवृत्या उद्वासनम्, सुपिप्पला इत्यासादनं भेदेन इति पक्षान्तरम् ।

१. एक एव स्वरुरिति द्रा प्र ।

२. अत्र काण्डानुसमयः उक्तः । अपां पेरुरसीत्यादौ पदार्थानुसमयेनापि अनुष्ठातुं शक्यते । १. ये व आत्मानो पशुषु प्रविष्टा देवानां विष्ठामनुये वितस्थिरे । आत्मन्वन्तस्सोम घृतवन्त हि भूत्वा देवान्गच्छत सुवर्विन्दत यजमानाय मह्यम् ॥ इत्यूहित्वा अभिघारणं ।

२. दृꣳहेति आवृत्या उद्वासनम्, सुपिप्पला इत्यासादनं भेदेन इति पक्षान्तरम् । १. अभयं कुरुत इति द्रा. प्र. ।

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः

अग्निष्टोमप्रयोगे तृतीयोऽध्यायः

अग्निष्टोमप्रयोगे प्रातस्सवनम्

अग्निष्टोमप्रयोगे प्रातस्सवनम्

अग्निष्टोमप्रयोगे प्रातस्सवनम्

अग्निष्टोमप्रयोगे प्रातस्सवनम्

अग्निष्टोमप्रयोगे माध्यन्दिनसवनम्

अग्निष्टोमप्रयोगे माध्यन्दिनसवनम्

अग्निष्टोमप्रयोगे माध्यन्दिनसवनम्

अग्निष्टोमप्रयोगे माध्यन्दिनसवनम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

अग्निष्टोमप्रयोगे यज्ञपुच्छम्

आपस्तम्बीय मधुपर्कः

द्विपशुप्रयोगः

द्विपशुप्रयोगः

द्विपशुप्रयोगः

त्रिपशुप्रयोगः

त्रिपशुप्रयोगः

त्रिपशुप्रयोगः

पुनराधेयप्रयोगः

पुनराधेयप्रयोगः

पुनराधेयप्रयोगः

पुनराधेयप्रयोगः

पुनराधेयप्रयोगः

पुनराधेयप्रयोगः

दर्शपूर्णमासयोर्याजमानम्

दर्शपूर्णमासयोर्याजमानम्

दर्शपूर्णमासयोर्याजमानम्

दर्शपूर्णमासयोर्याजमानम्

दर्शपूर्णमासयोर्याजमानम्

दर्शपूर्णमासयोर्याजमानम्

मृगारेष्टिप्रयोगः

मृगारेष्टिप्रयोगः

मृगारेष्टिप्रयोगः

मृगारेष्टिप्रयोगः

मृगारेष्टिप्रयोगः

मृगारेष्टिप्रयोगः

मृगारेष्टिप्रयोगः

आग्रयणेष्टिप्रयोगः

आग्रयणेष्टिप्रयोगः

आग्रयणेष्टिप्रयोगः

१. व्रीहिश्यामाकाग्रयणाभ्यां यक्ष्ये इति अ.ह पाठः । नवैर्व्रीहिभिः आग्रयणेन यक्ष्ये इति द्रा. प्र ।

पवित्रेष्टिप्रयोगः

पवित्रेष्टिप्रयोगः

१. विश्ववेदः ( अ.ह.पाठः )

१. पूर्ववाट् = युवा, सेचनसमर्थः ।

१. पूर्णाहुत्यन्तमेवेति रामाण्डारः ।

१. इहव विश्वेदेवा रमयन्तु गावः इति द्रा. प्र ।

१. आज्येनोदेहि इत्येव प्रैषः इति पाठान्तरम् ।

१. कनिष्ठिके अनामिके ।

(उपांशु) (उच्चैः)

१. हेड यक्ष्व इति पाठान्तरम् ।

१. अत्र यथर्तु उपतिष्ठेत ।

१. स्योनास्सोनेन इति पाठान्तरम् ।