०६ वैश्वदेवव्रतम्

आचार्यः प्राणानायम्य अमुक-गोत्रममुकशर्माणं माणवकं वैश्वदेवव्रतेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, वैश्वदेवव्रतं चरिष्यामीति शिष्यं वाचयित्वा, उपवीतादिधारणं स्नानं

विश्वान् देवान् काण्डर्षीँतर्पयामि । सांहितीः, याज्ञिकीः वारुणीः ब्रह्माणं स्वयम्भुवं सदसस्पतिं

च तर्पयित्वा, अग्नेरुपसमाधानाद्यग्निमुखान्ते शिष्येणान्वारब्धः,

विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा - विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदम् ।
आनो विश्वे अस्क्रागमन्तु देवाः । मित्रो अर्यमा वरुणस्सजोषाः ।

[[98]]

भुवन् यथा नो विश्वे वृधासः । करन्थ्सुषाहा विथुरन्नशवः स्वाहा - विश्वेभ्यो देवेभ्य इदम् ।
शन्नो देवा विश्वदेवा भवन्तु । शँसरस्वती सहधीभिरस्तु ।
शमभिषाचश्शमुरातिषाचः ।
शन्नो दिव्याः पार्थिवाश्शन्नो अप्यास्स्वाहाविश्वेभ्यो देवेभ्य इदम् ।
ये सवितुस्सत्यसवस्य विश्वे । मित्रस्य व्रते वरुणस्य देवाः ।
ते सौभगं वीरवद्गोमदप्नः । दधातन द्रविणं चित्रमस्मे स्वाहा - विश्वेभ्यो देवेभ्य इदम् ।
अग्ने याहि दूत्यं वारिषेण्यः । देवाँ अच्छा ब्रह्मकृता गणेन ।
सरस्वतीं मरुतो अश्विनापः । यक्षि देवान् रत्न धेयाय विश्वान्थ्स्वाहा - विश्वेभ्यो देवेभ्य इदम् ।
द्यौः पितः पृथिवि मातरध्रुक् । अग्ने भ्रातर्वसवो मृडतानः ।
विश्व आदित्या अदिते सजोषाः । अस्मभ्यँशर्म बहुलं वियन्त स्वाहा - विश्वेभ्यो देवेभ्य इदम् ।
विश्वे देवाः शृणुतेमँ हवं मे ये अन्तरिक्षे य उपद्यविष्ठ ।
ये अग्निजिह्वा उतवा यजत्राः आसद्यास्मिन् बर्हिषि मादयध्वँ स्वाहा - विश्वेभ्यो देवेभ्य इदम् ।

साँहितीभ्यो, याज्ञिकीभ्यो वारुणीभ्यो ब्रह्मणे स्वयम्भुवे सदसस्पतये च हुत्वा,

अग्ने व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतं चरिष्यामि तच्छकेयन्तन्मे राध्यताम् ।
वायो व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतं चरिष्यामि तच्छकेयन्तन्मे राध्यताम् ।
आदित्य व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतं चरिष्यामि तच्छकेयन्तन्मे राध्यताम् ।
व्रतानां व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतं चरिष्यामि तच्छकेयन्तन्मे राध्यताम् ।

इति चतुर्भिरुपस्थानं कारयित्वा, जयाद्यग्न्युपस्थानान्तं कृत्वा, अभ्युदयं पुण्याहं च कुर्यात् ॥

वैश्वदेवव्रतोत्सर्जनम्

आचार्यः प्राणानायम्य, अमुक-गोत्रममुकशर्माणं माणवकं वैश्वदेवव्रतोत्सर्जनेन कर्मणा संस्करिष्यामीति सङ्कल्प्य,

[[99]]

वैश्वदेवव्रतोत्सर्जनं चरिष्यामीति शिष्यं वाचयित्वा, उपवीतादिधारणस्नानतर्पणादि पूर्ववत् कारयित्वा, अग्नेरुपसमाधानाग्निमुखान्ते शिष्येणान्वारब्धः,

विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदम् ।
आनो विश्वे, शन्नो देवा, ये सवितुः, अग्ने याहि, द्यौः पितः पृथिवि, विश्वे देवाः शृणुत

इति षड्भिः षडाहुतीः, सांहितीः याज्ञिकीः, वारुणीः ब्रह्माणं स्वयम्भुवं सदसस्पतिं च प्रधानाहुतीः हुत्वा,

अग्ने व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतमचारिषं तदशकं तन्मे राधि ।
वायो व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतमचारिषं तदशकं तन्मे राधि ।
आदित्य व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतमचारिषं तदशकं तन्मे राधि ।
व्रतानां व्रतपते काण्डर्षिभ्यः वैश्वदेवव्रतमचारिषं तदशकं तन्मे राधि ।

इति चतुर्भिः शिष्येण उपस्थानं कारयित्वा, जयाद्यग्न्युपस्थानान्तेऽभ्युदयं पुण्याहं च कुर्यात् । व्रतानाम् उत्सर्जनानां च एकदा करणे सकृदेवाभ्युदयं पृथक् पुण्याहं च कुर्यात् ॥