२२ पशोरुपाकरणम्

इषे त्वा । इषे त्वा बर्हिषी आदत्ते । उपवीरसि प्लक्षशाखाम् । बर्हिर्भ्यां प्लक्षशाखया च पुरस्तात्प्रत्यञ्चं पशुमुपस्पृशन्नुपाकरोति उपो देवान्दैवीर्विश: प्रागुर्वह्नीरुशिजो बृहस्पते धारया वसूनि हव्या ते स्वदन्तां देव त्वष्टर्वसुरण्व रेवती रमध्वम् ॥ प्रजापतेर्जायमाना: प्रजा जाताश्च या इमा: । तस्मै प्रति प्रवेदय चिकित्वाꣳ अनुमन्यताम् ॥ इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने सुकृतस्य मध्ये ॥ अनु मन्यस्व सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यमग्नीषोमाभ्यां त्वा जुष्टमुपाकरोमि । पञ्चकृत्वो देवतोपदेशनं, उपाकरणे नियोजने प्रोक्षणे वपाया उद्धरणे हृदयस्याभिघारण इति । प्रज्ञाते बर्हिषी निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्त: प्रतिगृह्णन्ति पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् । सुवर्गं याहि पथिभिर्देवयानैरोषधीषु प्रतितिष्ठा शरीरैस्स्वाहा । पशव इदम् । येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् । निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु स्वाहा । पशुपतय इदम् । ये बध्यमानमनु बध्यमाना अभ्यैक्षन्त मनसा चक्षुषा च । अग्निस्ताꣳ अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदानस्स्वाहा । अग्नय इदम् । य अरण्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुस्ताꣳ अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविदानस्स्वाहा । वायव इदम् । प्रमुञ्चमाना भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतꣳ शशमानं यदस्थाज्जीवं देवानामप्येतु पाथस्स्वाहा । देवेभ्य इदम् । पञ्च हुत्वाग्निं मन्थति ।