०१ तूष्णीं स्नानम्

एवं स्नानकर्म कर्तुमशक्तः ब्राह्मणाननुज्ञाप्य, प्राणानायम्य, तूष्णीं स्नानकर्म करिष्य इति सङ्कल्प्य, सर्वाङ्गवपनं कारयित्वा, स्नात्वा, मौञ्जीं विसृज्य, ब्रह्मचारिणे दत्वा, दन्तधावनाद्युत्तरीयधारणान्तम् अमन्त्रं कृत्वा, अग्निं प्रतिष्ठाप्य, परिस्तीर्य, परिषिच्य, प्रजापतिं मनसा ध्यायन् तूष्णीं पालाशीं समिधमग्नावाधाय परिषिच्य, कुण्डलधारणादीनि सर्वाण्यमन्त्रकं कृत्वा, अभ्युदयं पुण्याहं च कुर्यात् । समावर्तनप्रभृति अहरहः सायं प्रातर्लौकिकाग्निं प्रतिष्ठाप्य, परिस्तीर्य, आज्यं दर्वीं च संस्कृत्य, परिषिच्य व्यस्ताभिः समस्ताभिः व्याहृतिभिः आज्येन अनाज्ञातमित्यादिभिश्च हुत्वा, परिषिच्याग्निमुपतिष्ठेत् । सन्न्यासं कर्तुकामोऽपि च व्रतानि समावर्तनं च कृत्वैव सन्न्यसेत् । नैष्ठिकस्तु सोत्सर्जनानि चत्वारि व्रतानि चरित्वा, समावर्तनमपि कृत्वैव काषायवासा यावज्जीवं ब्रह्मचर्यं चरेत् । उपकुर्वाण उद्वहेत् सन्न्यसेद्वा ॥