३१ नव-श्राद्धम्

प्रथम दिनम् आरभ्य एकादश दिन पर्यन्तं अयुग्मेषु दिनेषु नवश्राद्धं कर्तव्यं ।। उपवीती, प्राणानायम्य, प्राचीनावीती, प्रीत्यर्थं गोत्रस्य + अद्य - अहनि, मम पितृ प्रेत - तृप्त्यर्थं नव श्राद्धं मुख्यतः कर्तुमशक्तः तत्प्रतिनिधित्वेन यत्किञ्चिद्धिरण्य सहित तण्डुलदानं करिष्ये ।

  • तण्डुला वैश्वदेवत्याः + प्रयच्छमे हिरण्यगर्भ + प्रयच्छमे ॥

55

गोत्रस्य अद्य अहनि मम पितृ प्रेत तृप्त्यर्थं नव श्राद्धं मुख्यतः कर्तुमशक्त: तत्प्रतिनिधित्वेन यत्किञ्चिद्धिरण्य सहितं तण्डुलं श्रीवैष्णवाय (ब्राह्मणाय) सम्प्रददे । नमः, न मम अच्युतः प्रीयताम् ।

एकोविष्णुः + अव्ययः । अनेन यत्किञ्चिद्धिरण्य सहित आमरूपेण नव श्राद्धेन पितृ प्रेतरूपी भगवान् सदेव: श्री जनार्दनः प्रीयतां । श्री विष्णु पादेदत्तम् । इति दक्षिणाग्रेदर्भे तिलोदकं निनयेत् ।

उपवीती, उत्तराभिमुखः गय गय गय गया श्राद्धं, गया श्राद्धं । - गया श्राद्धं,

अक्षय्यवटः प्राचीनावीती दक्षिणाभिमुखः, अक्षय्यवटः अक्षय्यवटः ।। पिण्डं बलिञ्चादाय विस्रस्तशिखः पिण्डबली मुख समौ कृत्वा नदीं तटाकंवाप्रविश्य दक्षिणाभिमुखः, ऊर्ध्व मुत्क्षिप्य स्नायात् । उपवीती आचम्यसात्विकत्यागञ्च कुर्यात् । पवित्रं विसृज्या चामेत् ॥

दशम दिन पिण्डदान पर्यन्तं, प्रथम दिने नित्यविधौ उपयुक्तानि वासोदकदानार्थं वासः, तिलोदक प्रदानार्थकलश:, पिण्डबलिपाकार्थं पात्रं, पिण्डबलि विसर्जन स्थलं इत्येतानि विपर्यासरहितानि यथा भवन्ति कुर्यात् । अनवधानेन विपर्यासे सति पुनश्च साधनान्तरं प्राप्य तेन साधनेन प्रथम दिनमारभ्य तत्तत्कर्म कर्तव्यम् ।

57

एवं दशम दिन पर्यन्तं नदीतीर कुण्डे गृहद्वार कुण्डे च नित्यविधिः कर्तव्यः । प्रतिदिनं, नदीतीरकुण्डे, गृहद्वारे च वासोदकानित्रीण्येव । आहत्य तत्र तत्रत्रिंशत् त्रिंशत् || तिलोदकानितु प्रतिदिनं प्रथम दिनापेक्षया द्वितीयदिने एकोत्तरं (अधिकं) स्यात्, तथा तृतीयदिने द्वितीय दिनापेक्षया एकमधिकं स्यात् ॥ तद्वत् गृहद्वारेच एकोत्तरवृद्धि श्राद्धेषु तावत्यः सङ्ख्या: । आहत्य पञ्चसप्ततिः ॥

" " " नदीतीर शिला विपर्यासे, अन्यं पाषाणमादाय आयतु, दे॒वः, सुमनॉभिः, उ॒तिभँ: य॒मोहॅवे॒ह, प्रयँताभिः अ॒क्ता । आसींदतां, सुप्रयते॑ह, ब॒र्हिषिँ, ऊर्जांय, जा॒त्यै, म, श॒त्रुहत्यै । इति मन्त्रेण कुण्डे स्थापयित्वा, लौकिकाग्नौ संस्कृतेनाज्येन, य॒मायँ, सोम॑, सुनु॒त, य॒मायँ, जुहुत, ह॒विः । य॒म हॅ, य॒ज्ञोगॅच्छति, अग्नितः, अतः स्वाहा॑ । यमाय इदन्नमम । इति मन्त्रेण हुत्वा पूर्वदत्त वासोदक तिलोदकानि पुनर्दद्यात् ।। तद्दिन मारभ्य समनन्तरदिन कार्याणि च क्रमेण कुर्यात् । एवं गृह द्वारकुण्डस्थित शिला नाशेऽपि एवमेव पाषाणान्तर स्थापनं, होमञ्चबहुत्वा प्रथम दिन मार भ्य एताव त्पर्यन्तं तत्रस्थले कृतानि वासोदक पिण्डबलि प्रदान एकोत्तर वृद्धि श्राद्धानि नवश्राद्धानिच कृत्वा तदनन्तरं यथा क्रमं कुर्यात् । शिलान्तर स्थापनानन्तरं नष्टशिला लब्धाचेत् य॒मे इँव, यतॅमाने, यदैतँ, प्रवा॑म्भरन्, मानुषा, दे॒व॒यन्तँः । आसींदतं, स्वमुॅलोकं, विदॉने, स्वासस्थे, भवतं, इन्दॆवेनः ॥ इति मन्त्रेण तां शिलाञ्च तत्रैव स्थापयेत् ।। एवं पिण्डस्योपहतौ पुनः पिण्डदानं कुर्यात् ॥

श्वचण्डालादिभिः स्पृष्टः पिण्डो यद्युपहन्यते । प्राजापत्य त्रयं कृत्वा पुनः पिण्डं समाचरेत् ॥ मार्जार मूषक स्पर्शे पिण्डेच विदलीकृते । पुनः पाकः प्रकर्तव्यः तेन पाकेन तत्क्षणात् ॥