०२ प्रयत्नम् अन्तरेण अग्नौ प्रज्वलिते

सर्वत्र प्रयत्नम् अन्तरेण अग्नौ प्रज्वलिते ‘उद्दीप्यस्व जातवेदः’ ‘मानो हिँसीज्जातवेदः’ इति द्वाभ्यां समिधौ आदध्यात् ।

०९ उद्दीप्यस्व जातवेदोऽपघ्नन्निर्ऋतिम् ...{Loading}...

उद्दी॑प्यस्व जातवेदो
ऽप॒घ्नन् निर्ऋ॑तिं॒ मम॑ ।
प॒शूꣳश् च॒ मह्य॒म् आ व॑ह॒
जीव॑नञ् च॒ दिशो॑ दश ।+++(र५)+++

१० मा नो ...{Loading}...

मा नो॑ हिꣳसीज् जातवेदो॒
गाम् अश्वं॒ पुरु॑ष॒ञ् जग॑त् ।
+++(परहवींष्य्)+++ अबि॑भ्र॒द्+++(न्)+++ अग्न॒ आग॑हि+++(=आगच्छ)+++,
श्रि॒या मा॒ परि॑पातय ॥ (9)