०३ प्राजापत्यव्रतम्

आचार्यः नमस्सदस इति सदस्यान् प्रणम्य, यथाशक्ति दक्षिणां दत्वा, गोत्रं शर्माणमिमं माणवकं प्राजापत्यसौम्याग्नेयवैश्वदेवव्रततदुत्सर्जनैश्च संस्कर्तुं योग्यतासिद्धिमनुगृहाणेति प्रार्थ्य,

[[87]]

तथास्त्वित्यनुज्ञातः, उपविश्य, विष्वक्सेनं सम्पूज्य, प्राणानायम्य, श्रीगोविन्देत्यादि – भगवत्प्रीत्यर्थं गोत्रं शर्माणमिमं माणवकं प्राजापत्यव्रतेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, कृतप्राणायामं शिष्यं प्राजापत्यव्रतं चरिष्यामीति वाचयित्वा, वस्त्रोपवीतादीनि उपाकर्मवत् धारयित्वा, पुरातनानि त्याजयित्वा, स्नातं शिष्यं निवीतं

प्रजापतिं काण्डर्षिं तर्पयामि, सांहितीर्देवता उपनिषदस्तर्पयामि, याज्ञिकीर्देवता उपनिषदस्तर्पयामि, वारुणीर्देवता उपनिषदस्तर्पयामि, ब्रह्माणँस्वयम्भुवं तर्पयामि, सदसस्पतिं तर्पयामि इति एकैकं त्रिस्त्रिः तिलाक्षतोदकैः ऋषितीर्थेन तर्पयित्वाचम्य, अग्निप्रतिष्ठाद्यग्निमुखान्ते शिष्येणान्वारब्धः,

प्रजापतये काण्डर्षये स्वाहा - प्रजापतये काण्डर्षय इदम् । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयँस्याम पतयो रयीणां स्वाहा - प्रजापतय इदम् । रयीणां पतिं यजतं बृहन्तमस्मिन्भरेनृतमं वाजसातौ । प्रजापतिं प्रथमजा(ऋ)मृतस्य यजाम देवमधिनो ब्रवीतु स्वाहा - प्रजापतय इदम् । प्रजापते त्वं निधिपाः पुराणः देवानां पिता जनिता प्रजानाम् । पतिर्विश्वस्य जगतः परस्पाः । हविर्नो देव विहवे जुषस्व स्वाहा - प्रजापतय इदम् । तवेमे लोकाः प्रदिशो दिशश्च परावतो निवत उद्वतश्च । प्रजापते विश्वसृज्जीवधन्य इदं नो देव प्रतिहर्य हव्यं स्वाहा - प्रजापतय इदम् । प्रजापतिं प्रथमं यज्ञियानां देवानामग्रे यजतं यजध्वम् । स नो ददातु द्रविणँ सुवीर्यम् । रायस्पोषं विष्यतु नाभिमस्मे स्वाहा - प्रजापतय इदम् । यो राय ईशे शतदाय उक्थ्यः । यः पशूनाँ रक्षिता विष्ठितानाम् । प्रजापतिः प्रथमजा ऋतस्य । सहस्रधामाजुषतां

[[88]]

हविर्नः स्वाहा - प्रजापतय इदम् । सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा, सांहितीभ्यो देवताभ्य उपनिषद्भ्य इदम् । याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा, याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्य इदम् । वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा, वारुणीभ्यो देवताभ्य उपनिषद्भ्य इदम् । ब्रह्मणे स्वयम्भुवे स्वाहा, ब्रह्मणे स्वयम्भुव इदम् । सदसस्पतिमद्भुदं प्रियमिन्द्रस्य काम्यं सनिं मेधामयासिषँ स्वाहा, सदसस्पतय इदम् ।

माणवक उत्थाय, देवता अभिसन्धाय, अग्ने व्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते काण्डर्षिभ्यः प्रजापत्यव्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा । दक्षिणतो निषादितं ब्राह्मणं सम्पूज्य, प्राणानायम्य, गोत्रस्य शर्मणो माणवकस्य प्राजापत्यसौम्याग्नेयवैश्वदेवव्रततदुत्सर्जनकर्माङ्गम् अभ्युदयश्राद्धं करिष्य इति सङ्कल्प्य, अन्नेन आमेन हिरण्येन वा कृत्वा, पुण्याहं वाचयित्वा ।

प्राजापत्यव्रतोत्सर्जनम्

प्राणानायम्य, गोत्रं शर्माणमिमं माणवकं प्राजापत्यव्रतोत्सर्जनेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, कृतप्राणायामं माणवकं प्राजापत्यव्रतोत्सर्जनं चरिष्यामीति वाचयित्वा, वस्त्रादिधारणं स्नानं तर्पणञ्च पूर्ववत् कारयित्वा, अग्निप्रतिष्ठाद्यग्निमुखान्ते पूर्ववत् प्रधानाहुतीः हुत्वा, माणवकमुत्थाप्य, अग्ने व्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतमचारिषं तदशकं तन्मे राधि । वायो व्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतमचारिषं तदशकं तन्मे राधि । आदित्यव्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतमचारिषं तदशकं तन्मे राधि ।

[[89]]

व्रतानां व्रतपते काण्डर्षिभ्यः प्राजापत्यव्रतमचारिषं तदशकं तन्मे राधि । जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा । दक्षिणतो निषादितं ब्राह्मणं सम्पूज्य, अग्निमुपस्थाप्य, गोत्रस्य शर्मणः अस्य माणवकस्य प्राजापत्यव्रतोत्सर्जनकर्माङ्गं पुण्याहं कुर्यात् ।