०१ उपाकर्म

अथोपाकर्म

श्रावण्यां पौर्णमास्यां प्रातःकाले/
तैष्यां पौर्णमास्याम्
अध्यायोत्सर्जनाकरण-प्रायश्चित्तार्थम्
अष्टोत्तरसहस्रं कामोऽकार्षीन्मन्युरकार्षीदिति मन्त्रजपं करिष्य

इति सङ्कल्प्य, तं मन्त्रं जपेयुः ।
अथ ब्रह्मचारिणो वापयेयुः ।

अथापराह्णे

श्रावण्यां पौर्णमास्याम् अध्यायोपाकर्म करिष्य

इति सङ्कल्प्य,

कटि-सूत्र-कौपीन-वस्त्रोपवीत-मौञ्ज्य्-अजिन-दण्डान् नवान्
तत्-तन्-मन्त्रेण यथार्हं धृत्वा,
पुरातनान् परित्यज्य
स्नात्वाचम्य,

निवीतं कृत्वा,
प्रजापतिं, सोमम्, अग्निं, विश्वान् देवान्,
साँहितीः, याज्ञिकीः, वारुणीः, ब्रह्माणँ स्वयम्भुवं,
सदसस्पतिं च
नव एतान् काण्डर्षीन्
ऋषितीर्थेन तिलाक्षतोदकैः
त्रिस् त्रिः तर्पयित्वा
ऽऽचम्य, शुष्कवस्त्रं धारयेयुः ।

अथाचार्यो ऽग्नि-प्रतिष्ठाद्य्-अग्निमुखान्ते
शिष्यैर् अन्वारब्धः
प्रजापतये काण्डर्षये स्वाहेत्यादिभिः नवभिः हुत्वा,
“इषे त्वे"त्यादीन् चतुरोऽनुवाकान् अध्याप्य,
जयाद्य्-अग्न्य्-उपस्थानान्तं कुर्यात् ।

परेद्युः महानद्यां तत्-सम्बन्धिनि वा जले स्नात्वा,

मिथ्याधीत-प्रायश्चित्तार्थं
सावित्र्या समित्-सहस्रम् आधास्यामि

+इति सङ्कल्प्य,
अग्निं प्रतिष्ठाप्य, परिस्तीर्य, परिषिच्य,
प्रणव-व्याहृति-पूर्वया सावित्र्या ऽऽज्याभ्यक्तं समित्-सहस्रम्
एकैकश आधाय,

[[86]]

परिषिच्य,
“अग्ने नये"त्य् अग्निमुपतिष्ठेरन् ।

अथवा

सावित्रीं सहस्रकृत्वो जपिष्यामि

+इति सङ्कल्प्य,
प्रणवादीनाम् ऋष्यादि-पूर्वं प्राणायाम-त्रयादि कृत्वा,
सप्त-व्याहृति-पूर्विकां गायत्रीं शिरसा सह दशवारं जपित्वा,
“आयात्व्”-इत्य्-आद्य्-आवाहनादि-पूर्वकं सहस्रं जपित्वा,
त्रिः प्राणानायम्य,
गायत्रीम् अभिवाद्य
+“उत्तमे शिखरे देवी"त्य् उद्वासयेत् ॥