भृत्यपालनम्

भृत्यरक्षा

+++(यं कामयेत नायं अविच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत्)+++

०५ परि त्वा ...{Loading}...

परि॑ त्वा॒ गिरे॑र् अमि॒हं+++(←मिह सेचने)+++
परि॒ भ्रातुः॒ परि॒ष्+++(स्)+++वसुः॑ ।
परि॒ सर्वे॑भ्यो ज्ञा॒तिभ्यः॒
परि॑-षीतः॒+++(=बद्धः)+++ क्वे॑ष्यसि॑ ।

०६ शश्वत्परिकुपितेन सङ्क्रामेणाविच्छिदा ...{Loading}...

शश्व॒त् परि॑-कुपितेन॒
संक्रा॑मेणाऽवि॒च्छिदा॑ ।
उ॒लेन॒+++(=स्थूलेन)+++ परि॑-षीतो+++(=बद्धो)+++ ऽसि॒
परि॑षीतोऽस्य् उ॒लेन॑ ।

पलायितानयनम्

+++(येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युप समाधायोत्तरा आहुतीर्जुहुयात्)+++

०७-०८ आवर्तन वर्तयेत्येषा ...{Loading}...

आ व॑र्तन वर्तय॒ नि
नि॑वर्तन वर्त॒येन्द्र॑ नर्द+++(=शब्द)+++बुद+++(=शर)+++।
+++(“आबुन्दं वृत्रहाऽऽददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्-साधुर् बुन्दो हिरण्मयः” इति दर्शनात्)+++
भूम्या॒श् चत॑स्रᳶ प्र॒दिश॒स्
ताभि॒रा व॑र्तया॒ पुनः॑ ।+++(५)+++

आ॒वर्त॑ने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा॑ ।

०९ अनुपोऽह्वदनुह्वयो निवर्तो ...{Loading}...

अनु॑ पो+++(=वो)+++ ऽह्व॒द् अनु॑ह्वयो॒+++(=अनुह्वाता)+++
निव॑र्तो वो॒ न्यवी॑वृतत् ।
ऐ॒न्द्रः परि॑क्रोशो वः॒
परि॑क्रोशतु स॒र्वतः॑ ।+++(र४)+++

१० यदि मामति ...{Loading}...

यदि॒ माम् अति॒ मन्या॑ध्वा॒+++(ध्वै)+++
अदे॒वा दे॒वव॑त्-तरम् ।
इन्द्रः॒ पाशे॑न सि॒क्त्वावो॒+++(←षिञ् बन्धने)+++
मह्य॒म् इद् वश॒म् आ न॑या॒त्
स्वाहा॑ ।